OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, December 14, 2019

शक्तानां वनितानाम् अनुसूच्यां निर्मला सीतारामः अपि।    
-के.वि.रजीष्।
   नवदहली> विश्वस्य शक्तानां वनितानां पट्टिकायां भारतस्य धनकार्यमन्त्री निर्मला सीतारामः अपि स्थानं समपादयत्। फोब्स् मासिक्यां प्रकाशितायां शक्तानां शतं वनितानां अनुसूच्यां ३४ तमं स्थानमेव निर्मला सीतारामः प्रापत्। फोब्स् अनुसूच्यां निर्मलायाः प्रथमं प्रवेशनं भवतीदम्। निर्मलया सह एच् सि एल् मुख्यनिर्वाहककार्यकर्त्री रोषिणी नडार् मल्होत्रा, बयोकोण् स्थापका किरण् मजुन्दार् षा च यथाक्रमं ५४,६५ स्थानयोः वर्तेते। जर्मनिदेशस्य अध्यक्षा आञ्जलो मेर्कल् एव प्रथमस्थाने वर्तते। द्वितीयतृतीयस्थानयोः यथाक्रमं यूरोपीय केन्द्रवित्तकोशस्य अध्यक्षा क्रिस्टीना लगार्ड्, यु एस् जनप्रतिनिधिसभाध्यक्षा नान्सी पेलोसी च वर्तेते।