OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, December 2, 2019

भारतं विना आर् सि इ पि व्यवस्था पूर्णा न भवति - जापान्।
     नवदहली> भारतं विना मण्डलीयसमग्रार्थिक सहयोगव्यवस्था अपूर्णा एव इति जापान्। भारतं विना व्यवस्थायाः अस्याः प्रयोजनं पूर्णतया न भविष्यतीति जापानस्य व्यापारवाणिज्यविभागस्य उपमन्त्री हिडकि मकिहारः अवदत्। गतमासे बाङ्कोङ्क् मध्ये प्रवृत्ते आर् सि इ पि उन्नतमेलने व्यवस्थायां भारतेन हस्ताक्षरं न कृतमासीत्। परं भारतं विनापि व्यवस्थां सम्बन्ध्य अग्रे गन्तुं जापान् सहितैः १५ राष्ट्रैः निश्चितमासीत्। जापानस्य प्रधानमन्त्रिणा षिन्सो आबेन अग्रिमसप्ताहे भारतं सन्दर्श्यते। व्यवस्थायां हस्ताक्षरं कृतानि अन्यानि राष्ट्राणि उत्पन्नानां विदेशेषु विक्रयणे औन्नत्‍यं सम्पादितानि भवन्ति। अतः व्यवस्थामनुसृत्य भारते विपणिः लब्धा चेदेव तेभ्यः प्रयोजनं वर्तते। एतदेव व्यवस्थां सम्बन्ध्य जापानस्य पूर्वाभिप्रायस्य परिवर्तनं प्रति कारणं भवेत्।