OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, December 17, 2019

मुखं पिधाय जामियछात्रान् दण्डयन् रक्तवर्णयुतकधारी  कः? पृच्छति कट्जुः।
     नवदिल्ली> नागरिकताविधेयक-परिष्कारान् विरुद्ध्य प्रतिषेधितान् जामिया-मिलिययस्य छात्रान् दण्डयन् रक्तवर्णयुतकधारी  कः इति पृच्छति प्राक्तन-न्यायाधिपः मार्कण्डेय कट्जुः। जीन्स् ऊरुकं, रक्तवर्णयुतकं, क्रीडापादत्राणं, शिरस्त्राणं च धृत्वा वनितानामुपरि दण्डनं कृतवान् एकः। तस्य शिरस्त्राणम् तु आरक्षकाणां शिरस्त्राणसदृशं च आसीत्।  एषः शक्तया रीया वनितान् दण्डयत् आसीत् इति वार्ता माध्यमेषु समागतात् चित्रात् स्फुरति। आरक्षकाणां अङ्गवस्त्रं विना मुखं पिधाय आरक्षकैः सह स्थित्वा छात्रान् य़ः दण्डतिवान् सः कः इति वक्तुं यः कोऽपि शक्तः इति  उच्चन्यायालयस्य प्राक्तनः मुख्यन्यायमूर्तिः अपृच्छत्। मार्कण्डेय कट्जुः स्वस्य ट्विट्टर् पुटे एव तस्य प्रश्नं प्राकाशयत्।