OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, December 23, 2019

झार्खण्ड् मध्ये महासख्यशासनम्।
-के.वि.रजीष्‌
         राञ्चिः> राञ्चिः> झार्खण्ड् नियसभानिर्वाचनस्य फलसूचनाः आगताः। जे एम् एम्, काण्ग्रेस्, आर् जे डि दलानां महासख्यं ८१ मध्ये ४६ स्थानेषु प्रामुख्यं सम्पाद्य शासनाधिकारं प्रति सरति इति सूचना। प्रस्तुतशासनसख्यस्य देशीयजनाधिपत्यसख्यस्य नेता भा जा दलं २५ स्थानेषु प्रामुख्यं समपादयत्।स्थानानां विषये प्रायः इतोऽपि परिवर्तनं भवेत्।महासख्यात् जे एम् एम् दलस्य षिबु सोरन् राज्यस्य मुख्यमन्त्री भविष्यति इति सूचना वर्तते। सः दुंक,बर्हात् मण्डलयोरपि विजयं प्रापयत्। भा जा दलस्य अधुनातनमुख्यमन्त्री रघुबर् दास् जाम्षड्पुर् ईस्ट् मण्डले पराजयत। प्रधानमन्त्री नरेन्द्रमोदिः महासख्याय अभिनन्दनं न्यवेदयत्। पञ्चवर्षं यावत् शासनाय अवसरं दत्तवत्यै झार्खण्ड् जनतायै प्रधानमन्त्री कृतज्ञतां च न्यवेदयत्। झार्खण्डस्य विकासाय केन्द्रसर्वकारः प्रतिज्ञाबद्धः इत्यपि प्रधानमन्त्रिणा स्पष्टीकृतम्।