OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, December 26, 2019

तुर्किराष्ट्रेण पलाण्डोः प्रेषणं निरुद्धं, भारते मूल्ये वर्धनं भविष्यति।
     नवदिल्ली> भारते पलाण्डुमूल्यस्य वर्धनं स्यात् इति आवेदनम्। तुर्किराष्ट्रात् भवति इदानीं भारते पलाण्डोः आनयनम्। किन्तु ततः  पलाण्डोः प्रेषणम् इदानीं  निवारितम् अस्ति इति कारणेन प्रतिशतं दशतः पञ्चदशपर्यन्तं (10% -15%)मूल्ये वर्धनं भविष्यति सूचना अस्ति अतिवृष्ट्‌या भारते कृषिनाशेन पलाण्डुमूल्यम् अधिकतया वर्धितम्  आसीत्। अतः भारतेन तुर्कीतः पालाण्डुम् अवतारणं कृतम्। किन्तु तुर्किराष्ट्रे आभ्यन्तरविपण्यां मूल्यवर्धनमभवत् इत्यनेन देशान्तरप्रेषणं तुर्किना निवारितम्।  जनुवरि मासस्य अर्धकालान्तरं भारते पलाण्डोः फलसङ्ग्रहकालः इत्यनेन मूल्यं न्यूनं भविष्यति इति व्यापारिवर्गाः वदन्ति।