OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, January 29, 2016


भारतेन भूतल-आकाश-मिसैल् शस्त्रं विकासितम्।

बालसोर्> भारतेन विकासितम् आकाश नाम भूतल - आकाश मिसैल् शास्त्रस्य चन्दिपुरस्थात् इण्टग्रेट्टड् टेस्ट रेञ्चतः त्रिवारं परीक्षण-विक्षेपणं कृतम्। २५ कि.मी एव अस्य प्रहर परिधिः, ६० किलो मितः भारं वोढुं शक्यते च। प्रतिरोधगवेषण संस्थया (DRDO) विकसितः आकाश मिसैल् उपयुज्य शत्रुमिसैलं विमानानि च चूर्णीकर्तुं शाक्यते। 

ईजिप्तस्य प्रधानमन्त्रिणे भारतस्य विशिष्टं सम्मानम्।

कय्रो > ईजिप्तस्य प्रधानमन्त्री षरीफ् इस्मायिलस्य  कृते भारतस्य विशिष्टसम्मानम्। कय्रो राष्ट्रान्तर पुस्तकोत्सवे भारतसंविधानस्य अरबिभाषयां मुद्रितः ग्रन्थः ईजिप्तस्य प्रधानमन्त्रिणे भारतः समर्पयत्I वारद्वयस्य पुस्तकोत्सवे भारतस्य राष्ट्रान्तरसंस्था (Embassy) नाषणल् बुक् ट्रस्ट् (NBT) संस्थां प्रतिनिधीकरोति।

         पुस्तकोत्सवस्य उद्घाटनाय आगतः षरीफ् इस्मायिलः भारतस्य विपणनप्रकोष्टस्य सन्दर्शनवेलायामेव भारतसंविधानस्य अरबिभाषानुवादसमर्पणम् ।

भीकरप्रवर्तनं - आगोलसहकरणम् आवश्यकमिति भारतराष्ट्रपतिः।
 
नवदिल्ली > पठान्कोट्टे तथा पारीस् राष्ट्रे च पूर्वं संवृत्तानि भीकराक्रमणानि राष्ट्रस्वातन्त्र्यस्य आधारमूल्यानि विरुद्ध्य संवृत्तानीति भारतस्य राष्ट्रपतिः प्रणब् मुखर्जीवर्यः अभिप्रैति स्म। अतः भीकरप्रवर्तनानि  विरुध्य आगोल सहकरणम् आवश्यकम्I


भारतीयवंशजेभ्यः आस्त्रेलियायाः बहुमतिः

मेलबण् > विविध मण्डलेषु कृतानां प्रवर्तनानाम् आधारेण तृभ्यः भारतीयवंशजेभ्यः आस्त्रेलियायाः  बहुमतिः। तैः फिसिक्स्, एञ्चिनीयरिङ्, मेडिसिन्, मण्डलेषु कृतप्रयत्नानि  परिगणयन् एव पुरस्काराः दीयन्ते।  अस्य वर्षस्य (2016) आस्त्रेलियादिनाघोषवेलायां पुरस्काराः प्रख्यापिताः। एते आस्त्रेलियन्  नाषनल् यूनिवेर्सिट्टीतः एमिनन्ट् प्रोफसर् चेन्नुपति जगदीशः, न्यू सौत्त् वेयिल्सतः नेत्र वैद्यः जय् चन्द्रः, मेलबनतः दन्तविदग्धः सजीव् कोशीः च भवन्ति। फिसिक्स्, एञ्चिनीयरिड़्



-
नानो टेक्नोलजि आदि मण्डलेषु  कृताय उत्तमप्रवर्तनाय, पुनः अक्कादमिक् गवेषणं, ग्रन्थरचना, देशीय अन्ताराष्ट्रस्तशास्त्रोपदेशक स्थानेषु कृतप्रयत्नानि च आधारीकृत्य जगदीशमहोदयाय पुरस्कारस्य अर्हता अभवत्। सपादशताब्दवर्षस्य प्रवर्तनसामर्थ्यमस्ति महोदयस्य। 1985 वर्षादारभ्य नेत्रचिकित्सारंगे अन्ताराष्ट्रतले प्रसिद्धः भवति जयचन्द्रः। दन्तचिकित्सा मण्डलेषु कृतेषु  श्रेष्ठप्रवर्वतनानि परिगण्य एव कोशीमहोदस्य पुरस्कारप्राप्तिः।
स्वगृहे भारतपताका रोपितः - पाक् युवकस्य १० वर्षस्य दण्डनम्।

लाहोर्> विराट् कोह्ल्याः आराधनया स्वगृहस्य उपरि भारतपताका रोपितः इत्यनेन पाक् युवकः दशवर्षस्य कारागृहवासेन दण्डितः। कोह्लीं प्रति आराधना प्रकाशनाय ध्वजारोहणम् अकरोत्‌ इति दण्डितः उमर् द्रासः अवदत्। प्रचाब् प्रविश्यायामेव तस्य गृहम्।
ओक्कार जिल्लायां सीवनकर्मचारी भवत्येषः। भारतस्य गणतन्त्रदिने अड्लेय्ड् देशो आयोज्यमानायां स्पर्धायां ओस्ट्रेलियाराष्ट्रः भारतेन पराजितः I भारतय्स प्रदर्शनेन प्रभावितः सः भारतस्य ध्वजारोहणं कृतवान्। तस्मिन् दिने एव सः आरक्षकैः ग्रहीतः न्यायालयेन दण्डितः च।

प्रथम स्मार्ट सिट्टी पट्टिकायां कोच्चि ।

कोच्चि  > कोच्ची नगरेण सह 20 नूतन स्मार्ट सिट्टीनां पट्टिका केन्द्र सर्वकारेण प्रख्यापिता। केन्द्रनगर विकसन विभागस्य मन्त्रिणा वेड़्कय्य नायिडुमहाभागेन पट्टिका प्रसिद्धीकृता। भुवनेश्वर्, पूने, जय्पूर्, सूरत्, कोच्चि, अहम्मदाबाद्, जबलपूर, विशाखपट्टणं, षोलापूर्, देवड़्करे, इन्डोर्, न्यू दिल्ली, कोयम्पत्तूर्, काक्किनट, बेलागवी, उदैपूर्, गुवहाती, चेन्नै, लुधियाना, भोपाल, आदीनां नगराणां नामानि पट्टिकायाम् अन्तर्भूतानिऽभवन्।

        संयुक्त प्रवर्तनेन स्मार्ट् सिट्टि पद्धतिः प्रवृत्तिपथमानेतुं शक्यतेति वेड़्कय्य नायिटुना उक्तम् । ५०,८०२ कोटिः रुप्यकाणि पञ्चवर्षीय पद्धत्यर्थं व्ययीकरिष्यति इति  सः अवदत् ।प्रथम स्मार्ट सिट्टि पद्धत्याः स्पर्धायां ९७ नगराणि आसीत्। तेषु नगरेषु पञ्च नगाराणि चिनोति स्म। तानि  नगराणि राजधानि च। प्राथमिकसौकर्याणां विकासः , जलम् , विद्युत् , मालिन्यनिर्मार्जनम् , गतागतम् , ई- गवेणनडस् , इन्टरनेट् कणक्टिविटि च स्मार्ट् सिट्याः सविशेषताः भवन्ति। आगामिनि वर्षे ४० नगराणि  योजयित्वा शतं स्मार्ट सिट्ट्याः रूपीकरणार्थं पद्धतिः आविष्करोति इति प्रधानमन्त्रिणा नरेन्द्रमोदिवर्येण उक्तम्।

सोलार् चौर्य विषये अन्वेषणं कर्तुं न्यायालयनिदेशः

पालक्काट् (केरलम्)>: सोलार् चौर्यविषये FIR कृत्वा अन्वेषणाय विजिलन्स् न्यायालयस्य निदेशः। अस्मिन् केरलस्य मुख्यमन्त्रिरपि अस्ति इत्यनेन  मन्त्रिसभां विमोच्यन्तामिति भा ज पा याः राज्यस्तरीयनेता कुम्मनं राजशेखरः अवदत् ।

Wednesday, January 27, 2016

बृहत्तर: सौरयूथः दृष्टः। 

new-planetकालिफ़ोर्णिया> मातृनक्षत्रात् लक्षं कोटि किलोमीट्टर् दूरे भ्रमन्तं ग्रहं ज्योतिशास्त्रज्ञैः दृष्टः। एतावत्कालपर्यन्तं प्रत्यभिज्ञातेषु बृहत् आकारको सौरयूथो भवत्ययमिति गवेषकाः वदन्ति। ग्रहस्य एकवारं मातृनक्षत्रपरिक्रमणाय नवलक्षवर्षाणि अवश्यकानि। सूर्यस्य भूमेः च मध्ये १५ कोटि किलोमीट्टर मितिः अस्ति। १५ कोटि किलो मीट्टर् एकं अस्ट्रोणमिक् मीट्टर् इति (AU). सौरयूथे सूर्यस्य नेप्टूणस्य  मध्ये 30 अस्ट्रोणमिक् मीट्टर् (AU) भवति । नूतनग्रहं तु सूर्यात् ६०० - १२०० AU भवति। 

पाक् तालिबान् नेता मुल्ला फसलूल्ला हतः। 

इस्लामबाद् > पाक् तालिबान् नेता मुल्ला फसलूल्ला हतः इति पक्किस्तास्थानस्थाः माध्यमाः। अफ्गानिस्थन् देशे यु.एस्. अफ्गान् सैन्ययोः संयुक्त ड्रोण् आक्रमणे फसलूल्ला हतः इति माध्यमवृत्तान्तः। तस्य गृहाऽभिमुखं प्रति कृतवता आक्रमणे पत्नी पुत्रः च हतवन्तौ। पाक्किस्थाने पेषवार् सैनिकविद्यालयस्य बच्चा खान् महाविद्यालयस्य च आक्रमणं पाक् तलिबानेन कृतम् आसीत्।
मेट्रोयाने आदर्शयात्रा - मोदी फ्रन्सो च

नवदिल्ली > आगोलतापनं विरुध्य सन्देशप्रचारणय भारतस्य प्रधानमन्त्री नरेन्द्रमोदीवर्यः फ्रञ्च् राष्ट्रपतिना फ्रान्स्व ओलोन्दु वर्येण सह दिल्ली मेट्रोयाने यात्रामकरोत्। दिल्लीतः गुडगाव् ततः प्रतिनिवर्त्य च आसीत्‌ यात्रा। औद्योगिक वाहनानि विहाय मध्याह्ने ३ः१६ वादने आसीत् यात्रा। गुड्गाव् सौरोर्ज संस्थायाम् आयोज्यमाने कार्यक्रमे भागं स्वीकर्तुमेव एतौ औद्योगिक वाहनानि निरसितौ।
युद्धविमानानि क्रेतुं फ्रान्स् राष्ट्रेण सह सन्धिः।   उभयानुकूलपत्रे मिथः हस्ताक्षरौ कृतौ

नवदिल्ली > लोके बृहत्तमः जनतन्त्रराष्ट्रः भवति भारतम्। सम्पदः त्वरितागति: वर्तते  देशः वर्धते च।
फ्रान्स् राष्ट्रः प्रञ्चशाक्तिशालिषु प्रथमगणे एव। परस्परधारणया एतौ १६ सुप्रधान-उभयानुकूलपत्रे हस्ताक्षरं कृतवन्तौ।
३६ राफेल् नामकानि युद्धविमानानि क्रेतुं उभयानुकूलपत्रे हस्ताक्षरमकरोत्। ६०,००० कोटिरूप्यकाणां व्ययः प्रतीक्षते। फ्रञ्च् राष्ट्रपतिः फ्रान्स्व ओलादः भारतस्य प्रधानमन्त्री नरेन्द्रमोदी च मिथः संवृत्तायाः चर्चायाः अनन्तरमेव एतादृशनिर्णय अभवत्। ८०० रयिल् यानानि च स्वीकरिष्यन्ते। उभयराष्ट्रयोः मिथः प्रतिरोधसहकरणसन्धिः आगामिनिदशसंवत्सराणि अनुवर्तिष्यते। जय्तापुरे ६ आणवरियाक्टर् निलयानि स्थापयिष्यन्ते।

पूर्वेष्यन् राष्ट्रेषु अतिशैत्यः , तैवाने ८५ मृताः।

लण्टन् > अतिशैत्येन पूर्वेष्यन् राष्ट्राणि कम्पन्ते। तैवान् देशे ८५ जनाः मृताः। ८६००० परं विनोदसञ्चारिणः निबद्धा अभवन्। 'दक्षिणकोरियादेशे जिजुद्वीपे विमाननिलयः कठिनेन हिमपातेन बद्धः।होङ्कोङ् दक्षिणचैना, जपानः इत्येतेषु देशेषु च अतिशैत्यम् अनुभूयते।
गान्धिप्रतिमां विरूपमकरोत्।

जय्पूर् > राजस्थाने डुडु नगरे महात्मागान्धिनः प्रतिमा विनाशिता दृष्टा। प्रतिमायाः कश्चन भागः कृष्णवर्णं लिम्बयित्वा ऐ एस् ऐ एस् सिन्दाबाद् इति आलेखितमस्ति। प्रदेशे संधर्षावस्था जाता अस्ति।

Tuesday, January 26, 2016

सुरक्षया गणतन्त्रदिनाघोषः

republic day, republic day celebration, No camel contingent, No camel contingent at Republic Day parade, security, security on republic day functions, republic day celebration in delhi, bs bassi, delhi police chief, IGI airport, delhi news, republic day news, india news
नव दिल्ली > गणतन्त्र दिनाघोषाय भारतं सज्जम् अभवत् । राज्ये सर्वत्र सुरक्षा व्यवस्था विहिता वर्तते। अस्य वर्षस्य वैशिष्ट्यं फ्रञ्च् राष्ट्रपतिः फ्रान्सो ओला मुख्यातिथिरितिI अपिच भारतसैन्येन सह फेञ्च् सैन्यमपि भागं स्वीकरोति। पठान् कोट्ट् आक्रमणकारणेन सुशक्तं सुरक्षाव्यूहं कृत्व एव आचरणम्। इतिहासे इदं प्रथमतया कृत्वा विदेशसैन्यस्य गणतन्त्र सैनिकाभ्यासे भागग्रहणम् । ५६ फ्रञ्च सैनिकाः भीकरविरुद्ध-सख्यस्य अनुबन्धतया भागं स्वीकुर्वन्ति।

पठान् कोट्ट् भीकराक्रमणस्य नवीन प्रमाणानि भारतेन प्रदत्ता - नवाषेरीफः।

नव दिल्ली > नवीन प्रमाणानाम् आधारेण आक्रमणं कृतवातामुपरि निशितोपक्रमं विलम्बं विना स्वीकरिष्यामि इति नवास् षरीफ: अवदत्। पाकिस्थानसर्वकारेण नियुक्तसंघस्य नेतृत्वे अन्वेणम् आरब्धम् अस्ति। 

कौमारकलोत्सवे संस्कृतोत्सवस्य शुभपर्यवसानम् ।

अनन्तपुरी > उच्चस्तर विद्यालये १८ स्पर्धाः महाविद्यालये ५ स्पर्धाः च। आगामिनि वर्षे अघिकाः स्पर्धाः आयोजनीयाः इति अभिलषन्ति संस्कृतप्रेमिणः।

 पण्डितरत्नपुरस्कारः डा. एम.वि. नटेशाय 

कोच्चि > अनन्तपुरी पकल्क्कुरि एम.के.के. नायर् सांस्कारिककेन्द्रस्य पण्डितरत्नपुरस्कारेण डा. एम.वि. नटेशः सम्मानितः। कालटी श्री शङ्कराचार्य विश्वविद्यालये असोसियेट् प्रोफ़स्सर् , श्री शङ्कर अन्ताराष्ट्र विद्यालयस्य निदेशकः च भवति एषः। एतावत्कालपर्यन्तं संस्कृतभाषायाः कृते अनेन कृतम् योगदानं परिगणयन् एव पुरस्कारनिर्णयः। 

Monday, January 25, 2016

 भारतीय-संस्कृत-पत्रकारसङ्घस्य उपाध्यक्षाय पद्मश्री -

डॉ.रवीन्द्र-नागर
"हर्ष-प्रकर्षेण साम्प्रतमेतत् संसूच्यते यत् भारतीय-संस्कृत-पत्रकार-सङ्घस्य उपाध्यक्षाय सुख्याताय संस्कृत-विदुषे आचार्याय डॉ.रवीन्द्र-नागर-वर्याय ऐषमः पद्मश्री-अलङ्करण-प्रदानस्य समुद्घोषणा भारतीय-गणतन्त्रदिवसस्यस्य पूर्व-सन्ध्यावसरे भारत-प्रशासनस्य गृह-मन्त्रालयेन विहितास्ति | संस्कृत-वाङ्मयस्य भारतीय-संस्कृतेः संस्कृत-भाषायाश्च देशे विदेशेषु च सुबहु-प्रचारार्थं आचार्य-नागरः २०१२-तमे वर्षे राष्ट्रपति-सम्मान-पत्र-प्रदानेन सभाजितः आसीत् | आचार्य-नागरस्य  अनामयत्वं दीर्घायुष्यत्वञ्च कामयमानः भा.सं.प.सङ्घः शुभावसरेsस्मिन्   तं सर्वात्मना आशंसायते |"   -बलदेवानन्द सागरः-

दक्षिण भारतस्य अभिनेत्री कल्पना निर्याता

अभिनेत्री कल्पना अद्य प्रातः निर्याता। हृदयाघातेन मृता इति भिषग्वराः। हैदराबादे चलनचित्रे अभिनयं कुर्वती आसीत्। तेलुगु चित्रस्य  चित्रीकरणमेव आसीत् ।

पुरस्कारं प्रतिसमर्प्य कृषकाः।

नागपूर्> महाराष्ट्रराज्ये कृषकाणाम् आत्माहुतिवर्धने प्रतिषिध्य  विदर्भास्वदेशीयौ कृषकौ स्वकीयौ कृषिभूषण् पुरस्कारौ प्रतिसमर्पितवन्तौ। २०१५ तमे वत्सरे सहस्रं कृषकाः ऋणबाध्यतया आत्माहुतिं कृतवन्तः आसन्। आत्माहुतिप्रतिरोधाय सर्वकारेण किमपि न क्रियते इत्यारोप्य एव पुरस्कारप्रतिसमर्पणम्।

केरळेषु नदी संरक्षणाय अष्टकम्।

मलप्पुरम् > जनुवरिमासस्य 26 तमे दिने तिरुन्नावायायां भविष्यमाणे मामाङ्क-कार्यक्रमे अष्टकस्यास्य प्रथममालापनं भविष्यति।
केरलेषु विद्यमानासु नदीषु दीर्धतमा भवति इयं भारतप्पुष़ा अथवा निळा नदी। अस्याः नद्याः तीरे एव प्रसिद्धं मामाङ्कमहोत्सवं संञ्चालयन्ति स्म। अस्मिन् वर्षे आयोज्यमाने मामाङ्क स्मारकमेलने  आष़्वाञ्चेरि तम्प्राक्कल्, सामूतिरि राजः, वल्लुवनाट् राजः , अक्कित्तं इत्येते च सभामञ्चम् अलङ्करिष्यन्ति। तेषां सन्निध्ये सङ्गीतात्मकतया निळाष्टकस्य आलपनं भविष्यति।
दानीं निळा नद्याः अवस्था दयनीया। जलप्रवाहः अतिन्यूनः च। नदी संरक्षण मुद्दिश्य, निला नद्याः पवित्राम् आध्यात्मिकीं विशुद्धिं च प्रकीर्त्य निलाष्टकं रचितम्। निलाविचारवेदिः इत्याख्यायाः समितेः नेतृत्वे एव अष्टकस्य रचनाऽभवत्। पि. रमेश् नम्पीशन्  एव निलाष्टकस्य रचयिता। कविरयं चालियपुरं सर्वकारीयोच्चविद्यालये संस्कृताध्यापकः। संस्कृते एम्. ए, बि एड्ड् समाप्य संस्कृतपत्रकारितायाम् एम् फिल् अपि अनेन सम्पादितम्। संस्कृतभारत्याः बिहारः, तमिलनाट्, प्रान्तयोः दायित्वमपि अस्मिन् निरूढमासीत्। नदी संरक्षणीया  इति आशयप्रचरणमुद्दिश्य एव इदं गानरचना अनेन कविना कृता वर्तते।

Sunday, January 24, 2016

आणवभीतिः - दक्षिणकोरियाया राष्ट्रपञ्चकानां उपस्थितिः आहूतः।

सोल्> अत्तर कोरियायाः आणाव योजनाम् अधिकृत्य विचिन्तनाय कोरियायाः राष्ट्रपतिना पार्क् ह्यून्है वर्येण उत्तरकोरियां विहाय अन्यानां राष्ट्रपञ्चकानाम् उपस्थितियोगः निमन्त्रितःl   जनुवरि ६ दिनाङ्के उत्तर कोरियया कृतान् आणवायुधपरीक्षणान् विरुध्य उपरोधम् आयोजयतुं चीना - अमेरिक्का राष्ट्रयोः मध्ये चर्चां प्रचलन् अस्ति। आस्मिन् सन्दर्भे दक्षिण कोरियायाः इयं चर्चा प्राधान्यमर्हति।


 भीकरविरुद्ध-प्रक्रियासु १४ युवानः गृहीताः।

नवदिल्ली> राष्ट्रिय अन्वेषणसंस्थया (NIA) सुरक्षा सेनाभ्यः च पञ्चसु राज्येषु कृतासु भीकरविरुद्ध-प्रक्रियासु १४ युवानः गृहीताः। भारतेषु इस्लामिकस्टेट् भीकरदलवत् आक्रमणाय पद्धतयः आविष्कृताः इति सूचनया ऐते गृहीताः। एतेषु भूरिजनाः सोफ्ट् वेर् विज्ञानिनः भवन्ति। IS समान-आशयस्थः जानूदुल् खलीदे हिन्द इति दलानां अङ्गः एते इति अनुमीयते।

 'बार् 'उत्कोचविषये मन्त्रिणः बाबोः स्थानमपि विनष्टम्।

कोच्ची - मदिरालयविक्रयणं संबध्य आर्थिकभ्रष्टाचारविषये केरलस्य एक्सैस् विभागस्य मन्त्री के बाबुवर्यः त्यागपत्रं  समर्पितवान्। बाबुवर्यंमधिकृत्य उन्नीते आरोपणे अन्वेषणमावश्यकमिति नीतिपीठस्य परामर्शानुसारमेव त्यागपत्रसमर्पणम्।

Saturday, January 23, 2016

निर्वाचनमुद्दिश्य उद्घाटनानि 

कोच्चि > केरलेषु आगामिनि निर्वाचनमुद्दिश्य उद्घाटन महामहाः आयोज्यन्ते
तादृशानाम् उद्घानानां उद्घानमिव आसीत् कोच्चि नगर-रयिल् यानस्य परीक्षणधावनम्। अत्र मुख्यमन्त्रिणा उम्मन् चाण्डी वर्येण पताकानुमतिः(Flag-off) अकरोत्। मुट्टम् नाम स्थले रयिल् अङ्गणे आसीत् उद्घाटनम्।  किन्तु इदानीम् अपि रेल् निर्माणं प्रचलन्नस्ति। योजना: अपूर्णत्वे  सति उद्घाटनम् इति दृष्ट्वा  अपहसन्ति बुधजनाः 
इदानीम् अपि रेल् निर्माणं प्रचलन्नस्ति


इदानीम् अपि रेल् निर्माणं प्रचलन्नस्ति




प्रियमानसम् संस्कृत-चलच्चित्रम्

त्रिशूर् ,केरलम् > प्रियमानसम् संस्कृत-चलच्चित्रस्य निशुल्कप्रदर्शनं २०१६ जनुवरि २६ तमे दिनाङ्के इरिङ्ङालक्कुटा अक्करा मूवीस् चलच्चित्रगृहे भविष्यति। 
अद्य सुभासचन्द्रबसु महोदयस्य 119 तमाः जन्मदिनम् 

जीव्यांस्च शरदश्शतम्। 
भारताभिमानिनां मनसि भास्वरचन्द्र इव प्रकाश्यते।
भारत माता जयतु
वन्दे मातरम् वन्दे मातरम्

Friday, January 22, 2016

Special Campaign For Sanskrit

आयुर्वेदात् संस्कृतभाषा बहिष्कृता भविष्यति। 
Please file your Opinion For Sanskrit
कोच्चि > आयुर्वेदस्य आत्मभूतं संस्कृतम् अचिरादेव आयुर्वेद पाठ्यप्रणालीतः निष्कासितं स्यात्।
BAMS यदा आरब्धः तस्मिन् सन्दर्भे त्रीणि पत्राणि (3×100=300 अङ्काः) वाचिक  (viva) परीक्षायां (3×50=150 अङ्काः) च आसन् ।  पुनः पत्र द्वयं भवतु  इति निर्णीतं (2×100=200 अड्काः) पश्चात् वाचिक परीक्षाया: अङ्कः 50 इति न्यूनमकरोत् च। 2012 आरभ्य वाचिकपरीक्षा निष्कासिता । नूतन-प्रणालीमुपयुज्य षण्मासात्परं संस्कृतपठनं नास्ति। पठनार्थं किं पुस्तकम्  पठनीयमिति निदेश अपि नास्ति। एवं अचिरात्  संस्कृतभाषा आयुर्वेदाध्ययन-प्रणालीतः बहिष्कृता भविष्यति।

To See Syllabus- Click here (Syllabus)
To File your Opinion- Click here (Your OPINION)
Our Opinion
1. Establish Sanskrit Papers into Two instead of One
2. Viva may be re-instated for more effective learning as in former Years

Thursday, January 21, 2016

 नेताजीवर्यमधिकृत्य रेखा बहिरागच्छति।
नव दिल्ली > नेताजी सुभास् चन्द्रबोसमधिकृत्य लभ्यमानः वार्तासञ्चयः प्रधानमन्त्रिणा नरेन्द्रमोदिवर्योण श्वः आरभ्य प्रकाशयिष्यते। श्वः बसुमहोदयस्य जन्मवार्षिकदिनमेव।
अस्य महोदयस्य निधनमधिकृत्य  ब्रिट्टीष् अन्तर्जाले १९४५ तमे मृतिमगात् इति सूच्यते।

श्री डि श्रीमान् नम्पूतिरि: दिवङ्गत:।
कोच्चि > संस्कृत पण्डितः कवि: च असौ डि. श्रीमान् नम्पूतिरिः वार्धक्य सहजया अस्वास्थ्येन पीडितः आसीत्।
१०८ उपनिषदः , भागवतम् कविता च अनेन लिखिताः।
श्रीमान् नम्पूतिरिः तस्य कलासपर्यां पूर्तीकृत्य गतवान् इति संस्कृत क्षेत्रस्य दुःखस्य कारणम् । केरल संस्कृताध्यापक फेडरेषन्  देलन महोदयस्य निधने तेषां व्यसनं प्रकाशयन् ।





नटनविस्मया मृणाळिनी साराभायी कालयवनिकायां विलीना।
Image result for mrinalini sarabhaiहैदराबाद् > भारतस्य नृत्तदेवता इति विख्याता मृणालिनी साराभायी - ९७ -तमे वयसि वार्धक्या सहजया अस्वास्थ्येन दिवंगता। हैदराबादे स्वगृहे ह्यः प्रभाते अन्त्यमभवत्। कथाकेलिं भरतनाट्यं च आधुनिककालानुसृतं परिष्कृत्य विदेशेषु अवतार्य प्रशस्तिमवाप। रवीन्द्रनाथठक्कुरस्य शिष्या आसीत्। तस्य चण्डालिका इति काव्यस्य नृत्तभाष्यं कृत्वा प्रशस्तिसोपानमारोहितवती। तया विरचितेषु ग्रन्थेषु भरतनाट्यसंबन्धाः त्रयः हार्ट् आफ वोय्स् इति आत्मकथा च प्रसिद्धाः भवन्ति। प्रशस्तः बहिराकाशशास्त्रज्ञः विक्रम साराभायी एतस्याः पतिरासीत्। प्रसिद्धा नर्तकी मल्लिकासाराभायी पुत्री चास्ति।


निषामस्य ३८ संवत्सराणां करागारवासः।

तृश्शूर् - भवनसमुच्चयस्य सुरक्षासेवकं चन्द्रबोसं अतिनिष्ठुरतया जधान इति विषये अपराधी मुहम्मद् निषामः ३८ संवत्सराणां कारागृहवासेन ७१ लक्षं रूप्यकाणाम् अार्थिकदण्डेन च दण्डितः।
दलितछात्रस्य आत्माहुतिः - केन्द्रमन्त्रिणः त्यागपत्राय सम्मर्दः शक्तः।

हैदराबाद> हैदराबाद् सर्वकलाशालायां दलितछात्रस्य रोहित् वेमुल नामकस्य आत्माहुतिविषये केन्द्रमन्त्रिणः बणटारु दत्तात्रेयस्य स्थानत्यागाय सम्मर्दः शक्तः अभवत्। तं विरुद्ध्य व्यवहारः कृतः इत्यतः केन्द्रमन्त्रिसभातः सः निष्कासितव्य इति कोण्ग्रस् दलेन संयुक्तान्दोलनसमित्या च निर्दिष्टम्।
ह्यः अपि कलालयपरिसरः संघर्षपूरितः आसीत्। तत्र निरोधनाज्ञा विज्ञापिता।

 तृशिवपेरूरे भूचलनम् ।

तृश्शूर्> केरले  तृश्शूर् नगरसमीपे तलोर् प्रदेशे लघुभूकम्पः । मापिन्यां ३.४ अङ्कितः भूकम्पः मङ्गलवासरे अतिप्रभाते जातः।जनापायः न ज्ञापितः।
 
मार्च्मासादारभ्य परिष्कृतं वेतनम्।

अनन्तपुरी> केरलेषु सर्वकारसेवकेभ्यः अध्यापकेभ्यश्च समित्या निर्दिष्टं परिष्कृतं वेतनं मार्च् मासादारभ्य दातुं निर्णीतम्।२०१४ जूलायीतः आरभ्य भूतकालप्राबल्यमस्ति। परिष्करणमनुसृत्य वेतने २००० - १२००० रूप्यकाणां वृद्धिःभविष्यति।
 
ओडीषायां १५० सागरकूर्माः हताः।

भुवनेश्वर् > ओडीषाराज्यस्य पुरीसमुद्रतीरे कुलविनाशभीषणिम् अभिमुखीकुर्वन्तः ओलिव् रिड्लि वंशीयाः १५० समुद्रकूर्माः संघीभूय मरणं प्राप्ताः। कारणमव्यक्तं वर्तते। अनधिकृतैः धीवरैः हताः इति सन्देहः अस्ति।

Wednesday, January 20, 2016

आयुर्वेदात् संस्कृतभाषा बहिष्कृता भविष्यति। 


कोच्चि > आयुर्वेदस्य आत्मभूतं संस्कृतम् अचिरादेव आयुर्वेद पाठ्यप्रणालीतः निष्कासितं स्यात्।
BAMS यदा आरब्धः तस्मिन् सन्दर्भे त्रीणि पत्राणि (3×100=300 अङ्काः) वाचिक  (viva) परीक्षायां (3×50=150 अङ्काः) च आसन् ।  पुनः पत्र द्वयं भवतु  इति निर्णीतं (2×100=200 अड्काः) पश्चात् वाचिक परीक्षाया: अङ्कः 50 इति न्यूनमकरोत् च। 2012 आरभ्य वाचिकपरीक्षा निष्कासिता । नूतन-प्रणालीमुपयुज्य षण्मासात्परं संस्कृतपठनं नास्ति। पठनार्थं किं पुस्तकम्  पठनीयमिति निदेश अपि नास्ति। एवं अचिरात्  संस्कृतभाषा आयुर्वेदाध्ययन-प्रणालीतः बहिष्कृता भविष्यति।

Click here for   Syllabus
Please file your Opinion  Click here (YOUR OPINION)
1. Establish Sanskrit Papers into two insted of One.
2. Viva may be re instated for more effective learning as in former years.

 एष्याया: बृहत्तरः विद्यालयकलेत्‍सव: केरल राज्ये अनन्तपुरे आरब्ध:।

मलयालमनोरमया ग्रहीतः वीडियो चित्रम्‌।

Tuesday, January 19, 2016

भारतस्य आत्मानम् द्रेष्टुं संस्कृतभाषा ज्ञेयः - बिषप्प् मार्. जोसफ़् कल्लरङ्गाट्

पाला अतिरूपताया: बिषप्प्  मार्. जोसफ़् कल्लरङ्गाट् महोदयः ग्रन्थानां विमोचनं करोति

      पाला (केरलम् ) > संस्कृतपण्डितः रेव. डा. डा. जेक्कब् कत्तयक्कल् महाभागेन अनूदिता: भर्तृहरेः नीतिशतकस्य  वैराग्यशतकस्य  शृंगारशतकस्य  च विमोचन सन्दर्भे भाषमाणः आसीत् सः। संस्कृतभाषा मानवान् शान्तस्वभावशुद्धतायां च नेष्यति इति च अनेन महाभागेन उक्तः
नूतनविज्ञानस्य सदुपयोगः कथं करणीयमिति आदर्शभावेन प्रदर्शयन्ति अत्र - आण्ड्रोयिड् जङ्गमदूरवाणिमुपयुज्य इमानि पुस्तकानि DTP पुटविन्यासः च कृत्वा प्रकाशिताः इत्येव वैशिष्ट्यम्। 
इतः पर्यन्तं शताधिकानां पुस्तकानां रचना अनेन महाभागेन कृतः अस्य 101, 102, 103 तमानि पुस्तकानि इमानि

आकाशे कुसुमोत्पत्तिः।

          वाषिङ्टण् > आकाशकुसुममिति कविसङ्कल्पः याथार्थ्यमभवत्। बहिराकाशे इदंप्रथमतया कुसुमं विकसितम्। अन्तराष्ट्र वहिराकाशनिलयस्य सस्य परीक्षणशालायां सीनिया नामकं सस्यं पुष्पितम्।
बहिराकाशनिलये कृत्रिमसंविधानेन एव सस्यस्य परिपालनम्।सूर्यप्रकाशस्य स्थाने रक्तनीलहरितवर्णाऩि एल् ई डि दीपानि उपयुक्तानि। बहिराकाशशास्त्रे सुप्रधानविजयः इति नासया प्रख्यापितम्।

Monday, January 18, 2016

 जङ्गमदूरवाण्या: सहायेन लेखनं कृत्‍वा निर्मितानि पुस्तकानि अद्य मुक्तानि भविष्यन्ति।
कोट्टयम् > भर्तृहरेः नीतिशतम् वैराग्यशतकम् श्रृङ्गारशतकम्‌ च  कैरल्याम् अनुवादं कृत्वा प्रकाशयन्ते । त्रयाणां ग्रन्थानाम् टङ्गणक्रिया (DTP) तथा पुटविन्यास: च (layout)  जङ्गमदूरवाणीमुपयुज्य आसीत्। अनेन मार्गेण प्रकाश्यमानः प्रथमः अनुवादग्रन्थः भवति इयं  सुभाषितग्रन्थावली।  ग्रन्थस्य लेखनादिकार्याणि  सम्प्रति वार्तया कृता। पुनर्वाचनाय  कागदलेशोऽपि नोपयुक्तः।  ग्रन्थकारः  मान्यवरः साधु. डा-डा. जेक्कब् कट्टय्कल् महोदयः अमेरिका राष्ट्रे उषित्वा सम्प्रति वार्तायाः  ओण्  लैन् सौकर्यमुपयुक्तवान्। अस्य महात्मनः 101, 102, 103-तमाः ग्रन्थाः भवन्ति। ग्रन्थानां मुद्रणम् कोट्टयं गुड् षेपेर्ट् मुद्रणालयेन कृत:।  अद्य मध्याह्ने द्विवादने  केरलेषु प्रसिद्धां भरणङ्ङानं  क्रैस्तवदेवालयस्य परिकर-प्रकोष्ठे (parish hall ) अभिवन्द्य बिषप् डा. जोसफ् कल्लरङ्ङाट् साधुवर्येण  प्रकाशयिष्यन्ते । 





सुधीन्द्रतीर्थस्वामिनः गंगातटे समाधिं प्रापुः। 

हरिद्वारः - गैडसारस्वतब्राह्मणसमुदायस्य आत्मीयाचार्यः तथा काशिमठाधिपतिः स्वामी सुधीन्द्रतीर्थः गंगाायां व्यासश्रमे समाधिं प्राप। मुम्बैयां आतुरालये चिकित्सितः सःस्वस्य देहवियोगः हरिद्वारे आश्रमे भवेदिति इच्छानुसारं शनिवासरे हरिद्वारम् आनीतवान् आसीत्।
रविवासरे प्रभाते १.३० वादने देहवियोग अभवत्।
  व्यासश्रमे व्यासमन्दिरस्य दक्षिणपार्श्वे स्वामिनः समाधिस्थानं सज्जीकृतम्। स्वामिशिष्यस्य उत्तराधिकारिणः संयमीन्द्रतीर्थस्य कार्मिकत्त्वे समाधिसमारोहः समारब्धः। काशिमठस्य गुरुपरम्परायाः समाधिविधिमनुसृत्य आसन् कार्यक्रमाः। सहस्रशः भक्ताः मन्त्रजपसहितं सन्निहिताः अभवन्।

Sunday, January 17, 2016

हर्षस्य विषय: - 😀😀😀
अद्य संस्कृतस्य तृतीयचलचित्रस्य "प्रियमानसस्य" प्रसारणं लोकसभा चैनल स्थाने 2:00 pm भविष्यति।
सूचनां सर्वत्र प्रेषयन्तु , (forward) कुर्वन्तु इति भवतां संस्कृतप्रचारे योगदानम् ।

केरले नैतिक अकादमी उद्घाटिता।

कोच्ची - केरलराज्ये इदंप्रथमतया जुडीष्यल् अक्कादमी संस्थापिता। तस्याः उद्घाटनं भारतस्य सर्वोच्चन्यायाधिपः टि एस् ठाक्कूर् वर्यः निरवहत्।
राज्ये नीतिनिर्वहणस्य कार्यक्षमतां गुणवैशिष्ट्यं च दृढीकर्तुमेव नैतिक अकादमी स्थापिता। कोच्ची अन्ताराष्ट्र विमाननिलयस्य समीपे अत्ताणीप्रदेशे स्थापिताया‌ अकादम्याः उद्घाटनसमारोहे मुख्यमन्त्री उम्मन् चाण्टिवर्यः केन्द्रमन्त्री डि वि सदानन्दगौडावर्यः केरलस्य उच्चन्यायालयस्य मुख्यन्यायाधिपः अशोकभूषणवर्यः इत्यादयः सन्निहिताः।

Saturday, January 16, 2016

भीकराः भारतं प्रविष्टाः - जाग्रता निर्दिष्टा।

नवदिल्ली >६-१० संख्याकाः मुहम्मद जयषे भीकराः पाकिस्तानसीमामुल्लङ्घ्य गूढमार्गेण भारतं प्रविष्टा इति भारतजाग्रताविभागेन (इन्टलिजन्स् ब्यूरो) विज्ञापितम्। केन्द्र गृहमन्त्रिणा संचालिते उन्नततलसम्मेलने एव अयं विषयः विज्ञापितः। अतः राष्ट्रस्य प्रधानस्थानेषु स्थापनेषु च अतिसुरक्षां पालयितुम् आदिष्टम्।
यान दुर्घटना परिहाराय नूतना योजना ।

नवदेहली >  पञ्चवर्षाभ्यन्तरे मार्गापघातान् पञ्चाशत् प्रतिशतम् न्यूनीकर्तुम् पद्धत्या केन्द्रसर्वकारः। वर्षे सामान्यतया पञ्चलक्षम् वाहनापघाताः  राष्ट्रे जायन्ते। एषु सार्धैकलक्षम् अपघाताः व्रणाय जीवहानये च कारणीभवन्ति ।
केन्द्रगतागतमन्त्री नितिन् गडकरी वर्यः अवदत् ।
मार्गसुरक्षावाराघोषस्य अङ्गतया देहल्यां जातायां सङ्गोष्ठ्यां भाषमाणः आसीत् मन्त्री । अपघातान् न्यूनीकर्तुम् अधिकारिण: सेवासंस्थाः च सर्वकारेण सह मेलनीयम् इति तेन उक्तम् । तेषां संख्यान्यूनीकरणं कष्टसाध्यम् इत्यपि मन्त्रिणोक्तम् ।

उत्तर जाप्पान् राष्ट्रे भूकम्पः।

© earthquake.usgs.govटोक्यो > जाप्पानस्य उत्तरभागे होकैड नाम तीरदेशे आसीत् भूकम्पः।
गुरुवासरे १२.३० वादने जायमानस्य कम्पनस्य शाक्ति: ६.७ मितः। ४० निमेषः पर्यतं कम्पितः चेदपि अपायः नास्ति। अणुशक्तिनिलय : सुरक्षितः च।



सिक्किमः प्रथमजैवराष्ट्रं भविष्यति।

कोल्कोत्ता > भारतस्य प्रथमं सम्पूर्णं च जैवराज्यं भवितुं सिक्किमः सज्जते। ७५,००० हेक्टर् मितानि क्षेत्राणि सुस्थिरकार्षिकपद्धत्यनुयुज्यमानरीत्या परिष्कृत्य एव अयं विजयः प्राप्तः।गाङ्टोक् नगरे जन.१८ दिनाङ्के आयोज्यमाने कार्षिकसम्मेलने प्रधानमन्त्रिणा नरेन्द्रमोदिना अयं लाभः विज्ञापयिष्यते।

Friday, January 15, 2016

विद्यालयेषु रन्ध्रिकासम्प्रदायः (पञ्चिङ्) सम्पद्यते।
तोटुपुष़ा >  केरलराज्ये सर्वकारीय - आर्थिकोत्तेजितविद्यालयेषु रन्ध्रिकासम्प्रदायम् आविष्कर्तुं चिन्ता प्रवर्तते। अद्ध्यापकाः छात्राश्च अङ्गुलीमुद्रामुपयुज्य (अङ्गुलीवलय:) उपस्थितिं विलिख्यमाना रीतिः भवत्येषा। प्रथमतया इटुक्की जिल्लायां दश विद्यालयेषु परीक्षणरूपेण आविष्कर्तुमुद्दिश्यते।मासद्वयाभ्यन्तरे प्रवर्तनमारभ्यते। आगामिनि अध्ययनसंवत्सरे पूर्णतया प्रवर्तिष्यते।
रन्ध्रिकासमये एव अनन्तपुरिस्थिते सर्वशिक्षा अभियान् कार्यालये ज्ञातुं शक्यते।

Thursday, January 14, 2016

अपत्यपालन विरामस्य निषेधः न स्यात् ।

नवदेहली  - केन्द्रसर्वकारस्य महिलाकर्मकर्यः न्यूनात् न्यूनं  पञ्च दिवसेभ्यः अपत्यपालन विरामाय निवेदनं दत्तं चेत् तस्य निषेधः न स्यात् इति केन्द्र पष्‌सणल् (नैज मन्त्रालयः ) मन्त्रालयेन उद्घुष्टम् ।
कर्म शिष्टमस्ति इति हेतोः निषेधः न स्यात् । किमपि विशिष्टं कार्यमस्ति चेदेव विरामनिषेधः स्यात् ......।

भारतं धार्मिकसौहार्दस्य केदारः - उपराष्ट्रपतिः।

मलप्पुरम् (केरलम्)>वसुधायाः सकलधर्माणां कुटुम्बकं भवति भारतमिति उपराष्ट्रपतिना हमीद् अन्सारि महोदयेन उद्घुष्टम्। पाणक्काट् स्ट्रेयिट् पात् अन्तर्देशीयविद्यालयस्य आभिमुख्ये आयोजितं मतमैत्रीसम्मेलनम् उद्घाटयन् भाषमाणः आसीदुपराष्ट्रपतिः।अस्माकं राष्ट्रं न केवलं विविधान् धर्मान् स्वीकरोति किन्तु ते धर्माः परस्परपूरकत्वेन प्रवर्तन्ते च। यदा सेन्ट् तोमसः मालिक् दिनारः च केरलं प्राप्तवन्तौ तदा सुमनसा स्वीकृत्य ताभ्याम् आराधनालयान् निर्मीय दत्तवन्तः।कोच्चीमध्ये मलबार् प्रान्ते च विद्यमानाःजूताः भारतस्य पौराणिकाः सन्ति।ते परस्परं व्यवहारं कृत्वा सांस्कृतिकवैविध्यैः सम्पुष्टाः अभवन्।उपराष्ट्रपतिना उक्तम्।

मसूदः गृहीतः।

इस्लामबाद् > पठान्कोट्ट् भीकराक्रमणस्य सूत्रधारः इति विचार्यमाणः जेय्षे मुहम्मद् संस्थायाः नेता मौलाना मसुद् असर् नामकः पाकिस्तानरक्षिपुरुषैः गृहीत इति सूचना।अस्मिन् विषये आधिकारिकस्थिरीकरणं न कृतम्। किन्तु जय्षे मुहम्मदस्य कार्यालयाः बन्धिताः बहवः प्रवर्तकाः गृहीताश्चेति पाक्प्रधानमन्त्रिणः नवास् षरीफस्य कार्यालयेन स्पष्टीकृतम्।

जे एफ् आर् जेक्कब् निर्यातः।

नवदिल्ली >  बङ्लादेश् राष्ट्रस्य जननकारणभूतस्य भारत-पाक्युद्धस्य भारतसेनानायकः लफ्टनन्ट् जनरल् जे एफ् आर् जेक्कबवर्यः -९२ - दिवंगतः।सैन्यात् विरमितः सः पञ्चाब् गोवा राज्ययोः राज्यपालकश्चासीत्।
बंगलादेशविमोचनयुद्धकाले भारतसैन्यस्य पूर्वकमाण्डन्ट्  विभागस्य नेता आसीत् जेक्कब्वर्यः। धाक्का प्रविश्यायां पाक्सैन्यस्य पराजय अस्य बुद्धिपूर्वकक्रियाविधेः फलमासीत्।

Wednesday, January 13, 2016

तिरुच्चेन्तूरे तिमिंगलाः मृताः।

तूत्तुक्कुटी > तमिळनाटुराज्ये तिरुच्चेन्तूर् समुद्रतीरे ४५ बलीन् वंशीयाः तिमिंगलाः मृत्युमुपगताः।२६० परिमिताः समुद्रान्तर्भागं गन्तुमशक्ताः तीरे एव वर्तमानाः जाताः। सोमवासरे मध्याह्नादारभ्य मत्स्याः तीरमुपागन्तुमारब्धाः इति धीवरैः उक्तम्।

Tuesday, January 12, 2016

भारतेन लोकाय आत्मीयता एव दत्ता न तु वर्गीयता _ मोदी

मुम्बय् > लोकाय भारतस्य योगदानं तु आत्मीयता एव न हि वर्गीयता इति प्रधानमन्त्री नरेन्द्रमोदी I सर्वासां समस्यानां परिहारः आत्मीयतया साध्यमिति तेन उक्तम् । भारतीय जनताम् अवगन्तुं लोक: पराजितः इत्यपि तेन उक्तम् I
भारते असहिष्णुता वर्धते इति वादे प्रवर्धमाने एव प्रधानमन्त्रिणः वाचः । जयिन् आचार्य रत्न सुन्दर्सुरीश्वर्महाराजेन रचितस्य  मै इण्ड्या नोबिल् इनण्ड्या इति पुस्तकम् वीडियो कोण्फरन्स्  द्वारा प्रकाशयन् आसीत् स: I आङ्गलेय , हिन्दी , गुजराती , मराठी , भाषासु  प्रकाशितम् पुस्तकमिदम् ..।

नेताजीवर्यस्य मरणं विमानदुर्घटनायामिति ब्रिट्टनस्य वेब्सैट्।

लण्टन् - भारतस्य स्वातन्त्र्यान्दोलननायकः ऐ एन् ए स्थापकः नेताजी सुभाष् चन्द्रबोसवर्यः विमानदुर्घटनायामेव मृतः इत्युद्घोषयन् www.bosefiles.info इति कश्चन ब्रिटीष् अन्तर्जालः रहस्यान्वेषणपत्रैः सह रंगप्रविष्टः।
  १९४५ आगस्ट् मासस्य १८ तमदिनाङ्के तय्वान् मध्ये दुरापन्ने विमानदुरन्ते नेताजिवर्यः दिवंगत इति तेषां  विज्ञप्तिपत्रे सूचितम्।दृढीकरणाय बहूनां साक्षिणां विवरणान्यपि विज्ञप्तिपत्रे आयोजितानि।
   वियट्नां राष्ट्रस्य टूरन् नामकात् विमानपत्तनात् जप्पानस्य राजधानी टोक्कियोनगरं लक्षीकृत्य विमानम् उड्डयितम्। परन्तु यान्त्रिकदोषकारणेन विमानं यातत्रामध्ये भग्नमभवत्। नेताजिवर्यं विना १३यात्रिकाः वैमानिकश्च आसन्। जप्पानस्य सैन्याधिपः लफ्.जनरल् सुना मास सिदय् आसीत् तेषु प्रमुखः।
किन्तु ईदृशविज्ञप्तिपत्रस्य आधिकारिकतामधिकृत्य ब्रिट्टीष् सर्वकारस्य प्रतिकरणम् इतःपर्यन्तं नाभूत्।

शबरिगिरिः - नैतिकसंविधानमनुसृत्य महिलाः निरोद्धुं न शक्यत इति सर्वोच्चन्यायालयः।

नवदिल्ली -- शबरिगिरौ श्रीधर्मशास्तृमन्दिरदर्शनात् महिलाः निरोद्धुं विरुद्ध्य सर्वोच्चन्यायालयस्य निरीक्षणम्।भारतीयनीतिशास्त्रसंविधानमनुसृत्य शबरिगिरौ स्त्रीणां सन्दर्शननिरोधः अप्रायोगिकः इति न्याय. दीपक् मिश्रेण अाध्यक्ष्यं वहन् नीतिपीठः व्यक्तीकृतवान्।