OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, November 20, 2016

उत्तरप्रदेशे रेल्यानदुर्घटना - उपशतं मरणानि। 
कान्पुरम् >उत्तरप्रदेशे काण्पुर् समीपे पाट्ना-इन्डोर् एक्स्प्रेस् रेल् यानस्य चतुर्दश पेटिकानां पट्टिकास्खलनेन सप्ताधिकशतं यात्रिकाः मृत्युमुपगताः। रविवासरे उषःकाले त्रिवादने आसीदियं दुर्घटना। ७६ यात्रिकाः क्षताः जाताः।
    दुर्घटनाहेतुः न प्रत्यभिज्ञातः। रक्षाप्रवर्तनानि आरब्धानि। रेल् विभागमन्त्री दुर्घटनास्थानं प्राप्य रक्षाप्रवर्तनानां नेतृत्वं वहति।

 चाइन-ओपन-सुपर-सीरीज-प्रीमियर-बैडमिंटन-स्पर्धायां पीवी सिंधोः विजयमधिगतवती।
 चाइन-ओपन-सुपर-सीरीज-प्रीमियर-बैडमिंटन-स्पर्धायां पीवी सिंधोः विजयमधिगतवती। रियो ओलिंपिकस्पर्धायां कास्य पदकविदेत्रृ पीवी सिंधु चाइन ओपन सुपर सीरीज प्रीमियर बैडमिंटन स्पर्धां विजितवती । एकहोरापर्यन्तप्रचलिते निर्णायकद्वन्द्वे तया चीनस्य सुन यू इत्येषा क्रीडिका 21-11, 17-21, 21-11 अंकान्तरालेन पराजिता।

Saturday, November 19, 2016

हिन्दी भाषायै दीयमानस्य प्राधान्यस्य अर्धांशः अपि संस्कृतभाषायै दातव्यः -शङ्कराचार्य विश्व विद्यालयस्य उपकुलपतिः

कोच्ची >केरळ-सर्वकारेण विद्यालय-शिक्षायां हिन्दी भाषायै दीयमानस्य प्राधान्यस्य अर्धांशः अपि संस्कृतभाषायै दातव्यः इति कालटी शङ्कराचार्य विश्व विद्यालयस्य उपकुलपतिना डॉ. एम् सी दिलीप कुमारमहोदयेन उक्तम्। केरळे एरणाकुळं जनपदे वेदपूर्णपुर्याम् आयोजिते सांस्कृतिक मेलने भाषमाणः आसीत् सः। संस्कृतभाषां पुरस्कृत्य कैरळ्यां निर्मिते स्वप्नत्तिलेक्कोरु यात्रा (സ്വപ്നത്തിലേക്കൊരു യാത്രാ ) नाम ह्रस्वचलन चित्रस्य प्रदर्शनोद्घाटनमपि तेन महोदयेन सम्पन्नम्। चलन चित्र स्य निर्माता तथा संविधायिका श्रीमती श्रुति इम्मानुवेल् महाभागया कृत योगदानस्य प्रतिक्रिया-रूपेण सानितरां सम्मानिता च। एषा आलप्पुष़ जनपदे विद्यमान तृक्कुन्नप्पुष़ एम् टी प्राथमिक विद्यालये संस्कृताध्यापिका भवति । स्वस्य उद्योगाल्लब्धं वेतनम् उपयुज्य एव चलन-चित्रस्य निर्माणम् अकरोत् इति विशेषः अपि अस्ति।

गते वित्तवर्षे स्वच्छ-भारत उपकर-माध्यमत:  नव शतोत्तर त्रिसहस्रं कोटी धनलाभ:।
राज्यसभायां गुरुवासरे सर्वकार पक्षत: सूचनादानवेलायां ज्ञातं यत् गाते वित्तवर्षे स्वच्छ भारत योजनायाः उपकरत: नव शतोत्तर त्रिसहस्रं कोटी धनं प्राप्तं, धनराशे: प्रतिशतम् अशीति मितं (80%) पेयजलं एवञ्च स्वच्छता मंत्रालयाय दीयते, 20% प्रतिशतं विंशति नगर - विकास मंत्रालयाय दीयते च। ज्ञातव्यमस्ति यत् विगतवर्षे सर्वकारेण सर्वेषु अपि करयोग्य सेवायै 0.5% प्रतिशतं अर्ध रुप्यकं स्वच्छ भारत उपकरः स्थापितः आसीत्।

Friday, November 18, 2016

पर्यावरणमलिनीकरणस्य बृहद्दण्डनशुल्कंविधास्यति।
नवदिल्ली>पर्यावरणमलिनीकरणं निरोद्धुं तीव्रानुशासनं विधीयते। पृथिव्यप्वायून् मलिनीकुर्वतां व्यक्तीनां संस्थानां व्यवसायशालानां च लक्षैकरूप्यकाभ्यः आरभ्य द्विकोटिरूप्यकाणि यावत् दण्डनशुल्कं संवत्सरत्रयस्य कारागारवासं च विधातुं निर्देशः कृतः।
    १९८६ तमवर्षस्य पर्यावरणसंरक्षणनियमं २०१०तमवर्षस्य हरित ट्रैब्यूणल् नियमं च व्यत्ययं कृत्वा नवीनं पर्यावरणनियमविधेयकं संसदः अस्मिन् सम्मेलने अवतारयिष्यति। परिस्थितिसंरक्षणमण्डले बृहत्परिवर्तनाय निर्दिष्टव्यवस्थया शक्यते।
      पर्यावरणमलिनीकरणस्य परिमाणगणनाय केन्द्र-राज्यतलेषु विदग्धसमितिं रूपवत्करिष्यति। समित्याः निर्देशानुसारं दण्डनव्यवस्था भविष्यति। मलिनीकरणस्य परिधिः, तद्वारा जायमानानि नाशनष्टानि, नाशस्य परिमाणः इत्यादीनां निर्वचनेषु समग्रं परिवर्तनं भविष्यतीति नवीननियमस्य सविशेषता।

Thursday, November 17, 2016

संस्कृतभाषायाः महत्वम् उक्त्वा कैरल्यां ह्रस्वचलन-चित्रम् ।
कोच्ची >चित्र लेखकः तथा डोक्कुमेन्टरि चलनचित्रस्य संविधायकः इति सुज्ञातः इम्मानुवेल् नामकस्य पत्नी 'श्रुति' इदानीं संस्कृतभाषायां नूतनं दृश्यकाव्यं व्यरचयत् । एषा संस्कृताध्यापिका भवति आलप्पुष़ा जनपथे एम् टि यू पि विद्यालये कर्म करोति। अतः संस्कृतानुकूलं चलनचित्र निर्माणाय स्वस्य वेतनम् उपयुक्तवती । सप्तमकक्ष्यायाः आदर्शभूतः संस्कृतग्रामः इति पाठभागस्य पृष्ठभूमौ एव कथायाः यात्रा। अस्मिन् मासस्य १८ दिने वेदपूर्णपुर्याम् चलन-मुद्रिकायाः प्रकाशनं भविष्यति। षट्वादने लायं 'कूत्तम्बले' चलनचित्रकारेण विनोद् मङ्करा महाभागेन श्री शङ्कराचार्य संस्कृत विश्वविद्यालयस्य उप-कुलपतये डॉ. एम्. सि. दिलीपकुमार -महोदाय दत्वा चलनमुद्रिका मोच्यते ।

Wednesday, November 16, 2016

निरस्तानां मुद्रापत्रकाणाम् अवश्यसेवाभ्यः २४पर्यन्तं साधुता।
नवदिल्ली>  मुद्रापत्रनिरसनेन संजातं विषमस्थितिं  परिहर्तुं केन्द्रसर्वकारेण ऊर्जिताः क्रियाविधयः स्वीकृताः। ग्रामीणमण्डलेषु धनवितरणाय क्रियाविधयः स्वीकृताः।
      निरस्तानि मुद्रापत्राणि अवश्यसेवाभ्यः नवम्बर् मासस्य २४तम दिनाङ्कं यावत् उपयोक्तुं शक्यन्ते। ए टि एम् यन्त्रद्वारा धनाहरणस्य परिधिः २०००रूप्यकेभ्यः सार्धद्विसहस्रं रूप्यकाणि यावत् परिवर्तितः। ग्रामीणप्रविश्यासु १.३लक्षं पत्रालयान् प्रति धनानयनं त्वरितं करिष्यति। देशीयवीथिषु शुल्कसमाहरणनिरोधनं नवं- १८ पर्यन्तं भविष्यति।

Tuesday, November 15, 2016

आगामिदिवसेषु SBI(ATM) त: ₹20अपि प्राप्यते।
नवदिल्ली > भारतदेशस्य सर्वाधिक दीर्घ SBI वित्तकोषस्य उच्चाधिकारिणी अरुंधति भट्टाचार्य महोदया: अवादीत् । आगामी दिवसेषु जनानां सम्मर्द: न्यूनं भविता। ATM यन्त्र त: ₹100-50 विहाय ₹20 धनमपि लभ्यते तदर्थमपिव्यवस्था क्रियते ! सा उक्तवति धनपत्रस्योपरि प्रतिबन्ध: बहु दीर्घ कार्यमस्ति 50 दिनात् पूर्वमेव सर्वं सामान्यं भविता !
 कार्षिकोद्यानानां साध्यता पठनाय नियुक्ति:।    

  तिरुवनन्तपुरम् > राज्यस्तरीयमण्डलेषु १४ कार्षिकोद्यानानां निर्माणं कर्तुं नाब्कोण्स् नामिका संस्था कण्सलट्टन्ट् रूपेण नियुक्ता। एतदधिकृत्य कृषिविभागसचिवेन श्री वी एस् सुनिल् कुमार् महोदयेन प्रख्यापित:। किफ्बी इति संस्थाया: ५०० कोटि रुप्यकैै: साह्येन आयोजिता योजना कार्षिकवाणिज्य कॉपरेशन् इति नाम्नि पृथक् केन्द्रस्य आरम्भं करिष्यति। कार्षिकोद्यानस्य पठनं नाब्कॉण्स् करिष्यति। प्रथमेसोपाने त्रीणि उद्यानानि स्थापयिष्यन्ते। तानि कोष़िक्कोट् जनपदे नारिकेळोद्यानं, तृशूर् जनपदे मधु-कदळी फलानि योजयित्वा उत्पन्ननिर्मितोद्यानं, आलप्पुष़ा-एर्णाकुळम् जनपदयो: केन्द्रीकृत्या तण्डुलोद्यानं च। एतस्मात् भिन्नं  सुगन्धव्यञ्जनानि,शाकानि,  फल-मूलवर्गाणि च आधारिकृत्य उद्यानानां निर्माणं क्रियते। मूल्यवर्धित उत्पन्नै: सह कृषकाणां नवीन-भागभाजिन: च अनेन सम्पत् वर्धनं भवतु इति लक्ष्यम्।

Monday, November 14, 2016

सोपानम्-20 शिशुदिन-वार्ताः 
अद्य शिशुदिनं। आभारतम् अद्य शिशुदिनम् आधुष्यन्ते।

कोच्ची >भारतस्य राष्ट्रपतिना प्रणब् मुखर्जिना तथा प्रधान मन्त्रिणा नरेन्द्रमोदिना च शिशूनां कृते आशंसाः अर्पिताः । राज्यस्थरीय मण्डेलेषु प्रधान सचिवैः अस्य आधोषस्य उद्धाटनं क्रियते।  क्रीडा विनोदैः पद सञ्चलन शोभायात्रा च  दिनमिदं शिशूनां चित्तेषु सामोदं वर्तते।  भारतस्य प्रथमस्य प्रधानमन्त्रिणः जवहर् लाल् नेहृ महोदयस्य जन्मदिनमेव शिशुदिनत्वेन आचर्यते ।

सहपाठिने गृह-निर्माणाय पूर्वविद्यार्थिनः मेलनम् ।
 चेङ्ङन्नूर्> केरले चेड़नूर देशे एव एतादृश कारुण्य संगमः।  चेड़नूर क्रैस्तवीय कलालये दीपावली दिने एव  पूर्व विद्यार्थि सम्मेलनम् आयोजितम्।  तदा स्वस्य सहपाठी एकः गृहविहीनः इति ज्ञात्वा सर्वे धनसमाहरणं कृतवन्तः। एवं  सार्ध त्रिलक्षकानि रुप्यकानि समाहृतानि। गृहनिर्माणस्य उत्तरदायित्वं विद्यार्थि संघेन स्वीकृतम् च। 

वीथी शुनकेभ्यः शिशूनां भीतिः। प्रधानमन्त्रिणे लेखं लिखति।
कोच्ची>नगराणां संवर्धनेन मालिन्य सञ्जयः वर्धते। उच्चिष्ट वस्तूनि भक्षयित्व वीथी शुनकानां संख्या नगरप्रान्तेष्वपि वर्धते । एवं स्थितौ वर्धित संघाः शुनकाः अबलान् बालिका बालकान् आक्रमन्ति। केचन अपमृतिं प्राप्ताः इति च वार्ता माध्यमेषु बहुवारं स्पष्टीकृतम्। चेदपि शुनक-सेवकानां शुनक स्नेहितानां च अनिष्टेन इदानीं भारते बालिका बालकाः एवं विधं अपमृतिं यान्ति। केरलस्य बालिकाबालकाः अद्य प्रधानमन्त्रिणे नरेन्दरमोदिने लेखं लिखति।

अष्ट वयस्का व्याध्रेण हता।
गुजरात् राज्ये उमर्-पाड प्रदेशे निकिता वासवा नामिका बालिका व्याध्रस्य आक्रमेण मृता । गतदिने प्रभाते शौचादि कार्याय गृहात् बहिः प्राप्ता बालिका एव  दुरन्त विधेय जाता । दिनद्वयात् पूर्वं अन्या बालिका अपि व्याध्रस्य आक्रमेण मृता आसीत्। सामान्यतया बालकाः अपि एवं अपमृतिं यान्ति।

Sunday, November 13, 2016

डोणाल्ड् ट्रंपः अमेरिका राष्ट्रपतिः। एनं विरुद्ध्य जनाः I
कालिफोर्णिया >अमेरिकाराष्ट्रस्य राष्ट्रपति पदे रिपब्लिक् दलस्य स्थानाशी डोणाल्ड् ट्रंपः चितः। राज्यनैतिक निरीक्षकाणां  प्रवचनानि अस्तां कृत्वा डमोक्राटिक् दलस्य हिलरि क्लिन्टन् वर्यां पराजित्य एव ट्रंपः अमेरिकायाः राष्ट्रपति पदं प्राप्नोति। किन्तु इदानीं जनाः एनं विरुद्ध्य रथ्यायां आक्रोशं कृतवन्ताः।
 संस्कृतेन अनुवादः, न तु संस्कृतस्य अनुवादः!- च मु कृष्णशास्त्री 
Krishna Shastry Chamu's photo.नवदेहल्ली>गतेषु द्विशताधिकवर्षेषु संस्कृतग्रन्थानाम् अन्यभाषाभिः अनुवादः जातः। इदानीम् अन्यभाषाग्रन्थानां संस्कृतानुवादः महता प्रमाणेन कर्तव्यः येन नवसाहित्यनिर्माणं भवेत्, बहूनां लेखनाभ्यासः भवेत्, वर्तमानकालविषयकं मनोरञ्जकं सरलभाषालिखितं वाचकं च नवसाहित्यं सृष्टं भवेत्।
संस्कृतग्रन्थानाम् इतरभाषाभिः अनुवादेन इतरभाषावाड़्मयं समृद्धं जातम्, न तु संस्कृतवाड़्मयम्। जनाः भगवद्गीतायाः अनुवादं पठन्ति, न तु भगवद्गीताम्। न तु संस्कृतम्। अतः संस्कृतेन अनुवादः, न तु संस्कृतस्य अनुवादः!

Saturday, November 12, 2016

मोदी जापानदेशे - आणवसन्धिः हस्ताक्षरीकृतः। 
टोकियो>त्रिदिवसीयसन्दर्शनार्थं भारतस्य प्रधानमन्त्री नरेन्द्रमोदी जाप्पानदेशं प्राप्तवान्। जापानस्य प्रधानमन्त्रिणा षिन्सो अबे महोदयेन सह मेलनं कृत्वा शान्तिपूर्णं सहवर्तित्वं  लक्ष्यीकृत्य आणवसन्धिं यथातथं कृतवान्। उभयराष्ट्रयोः आर्थिक -सुरक्षामण्डलेषु परस्परबन्धं दृढीकर्तुं अयं सन्धिः सहायकं भविष्यति।

Friday, November 11, 2016

केन्द्रसर्वकारस्य सर्वदलीय गोष्ठी नवम्बर १५ दिने
नवदिल्ली>केन्द्रसर्वकारेण नवम्बरमासस्य 15 दिनांके शीतकालीनसत्र चालितुं सर्वदलीय गोष्ठी आयोजिता -
आगामीशीतकालीनसंसदसत्रस्य चर्चार्थं केन्द्रसर्वकारेण सर्वदलीय गोष्ठी आयोजितमस्ति। सूचनास्ति यत् गोष्ठ्यां प्रधान्मन्त्रि नरेन्द्र मोदि अपि आगच्छन्ति । सामान्यतः शीतकालीन सत्रस्य आरम्भ: नवम्बर मासस्य 3-4 सप्ताहे भवति परञ्च अस्मिनहायने G S T सम्बन्धित विधेयकानां कृते पूर्वमपि शक्यते।

भारतीयटेस्ट्ट् क्रिकेट् क्रिडायां प्रथमवारं महिला 
राजकोट्>  राज्यस्तरीय इतिहासेप्रमथवारं अन्तराष्ट्रिय टेस्ट्ट् क्रिडायां महिला संगणिका जातम्। बुधवासरात्रा जकोट् क्रिडास्थले भारत-इंग्लैण्ड देशयो: प्रथम टेस्ट्ट् मध्ये हेमाली देशाई -सेजल दवे आधिकारिक अंकगणिका सन्ति। उभाsपि एतावता 150 क्रीडाषु अंकगणनं कृतवत्य:।

Thursday, November 10, 2016

शुक्रवारत: ATM यन्त्रे नूतन धनं लभ्येते
नवदेहल्ली > वित्तसचिव अशोकलवासा महोदयेन बुधवासरे निगदितं वित्तकोषानां(ATM) यन्त्रेषु उच्च सुरक्षया स: नूतनं र500-2000 धनं लभ्यते ! लवासा महोदयेन गदितं जनानां कृते किञ्चित् असुविधा भविता तदर्थमपि सर्वकारेण व्यवस्था कृतमस्ति यत् कस्यापि कृते असुविधा मा भवतु इति ! RBI नूतनधन निष्कासनेsपि दृष्टिं यच्छति !
देहल्यां हिमधूम पटलः अतीवगुरुतररीत्या
नवदेहली > देहल्यां हिमधूम पटलस्य आधिक्यः रूक्षः अभवत् इति वातावरण निरीक्षण केन्द्रेण उच्यते। दिवसत्रयानन्तरं स्थितिः अनुकूलं  स्यात् इति तेन उक्तम्।  तथापि इयं दुर्दशा  परिहाराय यावद्  शक्यं तावत् करिष्ये इति देहल्याः मुख्यमन्त्रिणा केजरिवाल् महोदयेन उक्तम्। इयं समस्या  परिहाराय आयोजिते विधानसभा मेलनानन्तरं भाषमाणः आसीत् सः। हिमधूमपटलानां परिहाराय  वृष्टिं वर्षयितुं श्रमः प्रचाल्यते ।  तदर्थं केन्द्र सर्वकार्यस्य साह्यं अभ्यर्धितम् इति तेन उक्तम्।

संस्कृतेः सुस्थितिः कुटुम्बाधिष्ठितम्- पि उण्णिकृष्णः। 
नेटुम्बाशेरी > सुस्थितिः कुटुम्बस्य संस्कृतिं च आश्रित्य भवति । कुटुम्बस्य सुस्थितिः तु तत्रत्यानां गृहिणीनां धर्मानुसृतं भवति इति तपस्या कला साहित्य वेदिः नाम दलस्य कार्यदर्शिना उण्णिकृष्ण-महोदयेन उक्तम्। दलस्य सारस्वत समर्पणं इति कार्यक्रमे भाषमाणः आसीत् सः। त्रिमूर्तेः तथा त्रिशक्तीनां समागमः  सर्वेष्वपि कुटुम्बेषु भवेयुः ।  ब्रह्मचर्यं पातिवृत्यं च अनुष्ठीयमानेषु समूहेषु धर्मच्युतिः न कदापि भविष्यति इति च तेन महोदयेन स्मारितः । एतस्य भाषणानन्तरं सारस्वत समर्पणं च अभवत्।  सांस्कृतिक नवोद्धानाय संघटितं कलासाहित्य-प्रवर्तकानां दलं भवति तपस्या कला साहित्य वेदिः।

शनि-रविवासरयोः वित्तकोशाः प्रवर्तिष्यन्ते। 
नवदिल्ली - राष्ट्रे सर्वे वित्तकोशाः [बेङ्काः] सामान्यजनानां कृते शनिवासरॆ रविवासरे च [नवं १२,१३ तमे दिनाङ्कयोः] साधारणरीत्या समुद्घाट्य प्रवर्तिष्यन्ते। एतदनुसृतः निर्देशः भारतीय रिसर्व् बाङ्केन कृतः।
     सामान्यमण्डलबेङ्काः स्वकीयबेङ्काः तथा ग्रामीण- सहकरण-विदेश-प्रादेशिक बाङ्कैरपि अयं निर्देशः अनुुसरणीय इति विज्ञापितमस्ति।

Wednesday, November 9, 2016

५००, १००० रुप्यकपत्राणां निरोधः - जनेभ्यः महोत्सवः।
500, 1000 रुप्यकाणां पत्राणि भारतसर्वकारेण प्रतिगृह्मते इति वार्ताः ज्ञात्वा सामूहिक माध्यमेषु मोदि महोदयाय अभिनन्दन प्रवाहः । माध्यमेषु सर्वत्र राजनैतिकभेदं विस्मृत्य जनैः अभिनन्दन-वचसा माध्यम -पुटानि प्रपूरितानि । राष्ट्रियोत्सवः इति सम्भाव्य आघुष्यन्ते च। सर्वकारस्य प्रवर्तनेषु *इतःपरम् एतादृशः जनाभिमतः न जातः इति श्रद्धेयः। (*अर्धविसर्गः लिप्यभाव एवं लेखनीयम्)
 ५००,१००० रूप्यकपत्राणि-प्रतिगृहीतानि 
नवदिल्ली >भारतराष्ट्रस्य प्रधान मन्त्री स्थानेषु विराज मान: नरेन्द्र मोदी. भारतस्य उन्नत धनागारेषु एवं धनपत्रेषु च कीलकं निर्णयं कृतवान् । ५००&१००० रूप्यकपत्राणि- ह्यः रात्रौ अारभ्य तानि पत्राणि प्रतिगृह्य प्रधानमन्त्रिणा उद्घोषणा प्रसारिता । जनेभ्यः रुप्यकाणि दिसम्बर् 30दिनपर्यन्तं बैङ्कतः परिवर्त्य नूतनानि स्वीकर्तुम् सन्दर्भः अस्ति इति च  तेन महोदयेन उक्तम् ।

सम्मिलितरक्षासेवापरीक्षापरिणामः
संघलोकसेवायोगेन सम्मिलितरक्षासेवापरीक्षापरिणामः समुद्घोषितः। यस्यान्तर्गतं 126 परिक्षार्थिनः अंतिमरूपेण प्रचिताः। ध्यातव्यमिदं यत् साक्षात्कारपरिणामाधारेण भारतीयसैन्य-अकादमी-देहरादून,भारतीय-नौसेना-अकादमीकेरल,  वायु-सेना-अकादमी-हैदराबाद इत्येषु प्रशिक्षणपाठयक्रमाय एतैः अर्हता सम्प्राप्ता।

सूरतनगरेराष्ट्रपितामहात्मा गाँधी वर्यस्य पौत्र: कनु गाँधी दिवंगत:
   महात्मागाँधी वर्यस्यपौत्र: कनुरामदासगाँधी वर्यस्य(87) वर्षे दीर्घ रोगानन्तरं निर्वाण: जातमस्ति! अमेरिकायां (MIT) त: अध्ययनं कृत्वा नासासंस्थायामपि एते कार्यं कृतवन्त:। दांडी यात्राया: प्रसिद्धचित्रे गाँधी वर्याणां यष्टि: स्वीकृत्य य: बाल: दृश्यते स: एव कनु गाँधी अस्ति।

सम्पूर्ण देशे 1.14.332ग्रामेषु शौचालयव्यवस्था
सोमवासरे केन्द्रीय पेयजल एवञ्च स्वच्छता मंत्री नरेन्द्र सिंह महोदयेन अवादीत् सम्पूर्ण देशे 1.14.332ग्रामा: शौचालययुक्ता: जाता:। तै: उक्तं एतावता 61जनपदेषु 637 खण्डस्तरेषु(ब्लाक) 50.492 ग्राम सभासु पूर्ण रुपेण शौचालय निर्माणं जातमस्ति। लक्ष्यमस्ति यत् आगामी वर्षस्य मार्चमासं यावत् 175 जनपदेषु एतादृशी व्यवस्था भविता इति।

छठपूजात: गृहागमनवेलायां बिहार राज्ये 6 महिलाभ्यः रेलपथस्य तरणावसरे मृत्यु:
   बिहारराज्यस्य दरभंगायां रामभद्रपुर रेलवे (लौहपथम्) स्थानके सोमवासरे 6 महिलाभ्यः लौहपथस्य तरणावसरे मृत्यु: जाताः। सूचनानुसारेण धूमिकाकारणेन न दृष्टम्। अन्यत्र मुजफ्फरपुर नगरे छठपूजायामेव नद्यां निमज्जनेन 2 बालकाभ्यां मृत्यु: जातः।
सोपानम्-19 Ahalya M. Std.III, St. Mary's UP School Thevara, Kochi-13.

Tuesday, November 8, 2016

RN1-मार्गेषु सौरोर्जत्रिचक्रिका अपि।    
  तिरुवनन्तपुरम् (केरलम्)> केरलेषु मार्गान् अलङ्कर्तुं सौरेर्जेन चाल्यमाना त्रिचक्रिका अपि सज्जीकृता।'हंराही' इति नामकरणं कृतस्याः अस्याः त्रिचक्रिकायाः स्वरूपकर्ता जोर्जुकुट्टी करियानप्पल्ली इति नामकः भवति। यानमिदं नवम्बर् अष्टमदिनादारभ्य वाणिज्यकेन्द्रेषु उपलभ्यते। सर्वकारपक्षतः सर्वाः अनुमतयः लब्धाः इति जोर्जुकुट्टी अवदत्। २५० वाट्स् शेषियुक्तानि सौरोर्जफलकान्येव यानचालनाय उपयुज्यन्ते। सूर्यप्रकाशस्य अभावे विद्युदुपयुज्यापि अस्य बाटरी उपयोक्तुं शक्यते। एकस्मिन् समये पञ्चभिः जनैः अपि यात्रा सुकरा इति तेन उक्तम्। एकेन अभियोगेन ८० कि.मी दूरं यात्रा साध्या इत्यपि सः असूचयत्। 

868/- रूप्यकाणाम् एव वायुयान प्रयाणम् – इण्डिगो ऐर्लैन्स्
नवदेहल्ली>वायुयान यात्रिकानां इण्डिगो ऐर्लैन्स् एकं नूतनं पूर्वप्रापणं उद्घोषितम् । निर्देशित देशीय मार्गेषु यानचीटिकाया: मूल्यं 868/- इति उद्घोषितम् । दिनद्वयस्य कृते निर्देशितं एतत् पूर्वप्रापणं द्वारा 2017 जनवरी 11 त: एप्रियल् 11 पर्यन्तं कदापि वायुयाने यात्रां कर्तुं शक्यते । गतमासे 80 लक्षादिक जना: इण्डिगो वायुयाने यात्रां कृतवन्त: । आधुनिक काले जना: वायुयाने यात्रां कर्तुम् उत्सुका: भवन्ति तदनुसृत्य विमानयानसंस्था: अपि विविधानि पूर्वप्रापणानि आनयन्ति । गो एइर् संस्था अपि संस्थाया: एकादशीय वार्षिकोत्सवावसरे 611/- रूप्यकाणामेव यत्राचीटिकां यच्छन्ति ।

प्रतिपट्टणम्  अनन्दकेन्द्रानाम् स्थापना- श्री श्री रविशङ्कर:
वरङ्गल् – ईनाडु > यथा प्रतिपट्टने चिकित्सालया: भवन्ति तथैव प्रतिपट्टने आनन्दकेन्द्राणां स्थापना भवेदिति ”आर्ट् आफ् लिविंग् व्यवस्थापक:” श्री श्री रविशङ्कर महोदयेन उक्तम् । हन्मकोन्डा प्रान्तस्य कला-वैज्ञानिक कलाशाला क्रीडाक्षेत्रे स्थापित “ध्यानम्-गानम्-ज्ञानम्” इत्यस्मिन् कार्यक्रमे मुख्यातिथि रूपेण उपस्थित: श्री श्री रविशङ्कर महोदय: शिष्यान् उद्दिश्य भाषणम् कृतम् । अस्मिन् भाषणे एतेन उक्तम् यत् – सर्वासां समस्यानां धनम् परिष्कारं न भवति ध्यानाभ्यासेन एव मनुष्य: सुखेन जीवति इति उक्तम् । आधुनिक समाजे मनुष्याणां समस्या: अधिका: भवन्ति । तासां समस्यानां निवारणार्थं प्रतिपट्टने आनन्दकेन्द्राणां स्थापना भवेदिति उक्तम् । यदा दु:खं भवति तदा आनन्दकेन्द्रं गत्वा ध्यानं कृत्वा सुखेन बहिरागन्तव्यमिति सूचितम्। 
868/- रूप्यकाणाम् एव वायुयान प्रयाणम् – इण्डिगो ऐर्लैन्स्

नवदेहल्ली>वायुयान यात्रिकानां इण्डिगो ऐर्लैन्स् एकं नूतनं पूर्वप्रापणं उद्घोषितम् । निर्देशित देशीय मार्गेषु यानचीटिकाया: मूल्यं 868/- इति उद्घोषितम् । दिनद्वयस्य कृते निर्देशितं एतत् पूर्वप्रापणं द्वारा 2017 जनवरी 11 त: एप्रियल् 11 पर्यन्तं कदापि वायुयाने यात्रां कर्तुं शक्यते । गतमासे 80 लक्षादिक जना: इण्डिगो वायुयाने यात्रां कृतवन्त: । आधुनिक काले जना: वायुयाने यात्रां कर्तुम् उत्सुका: भवन्ति तदनुसृत्य विमानयानसंस्था: अपि विविधानि पूर्वप्रापणानि आनयन्ति । गो एइर् संस्था अपि संस्थाया: एकादशीय वार्षिकोत्सवावसरे 611/- रूप्यकाणामेव यत्राचीटिकां यच्छन्ति ।

Monday, November 7, 2016

आसिया समुद्रतीर-क्रीडायां भारतम् आतिथेयः
 चेन्नै > केन्द्र, प्रन्तीय सर्वकारयो: अनुमति: लप्स्यते चेत् २०२० मध्ये आसिया समुद्रतीर क्रीडाभ्यः भारतम् आतिथ्यं यच्छतीति भारत ओलंपिक् क्रीडाध्यक्ष: रामचन्द्रन् महोदय: उक्तवान् । आगामि आसिया समुद्रतीर क्रीडा: महाराष्ट्रे भविष्यतीति उद्घोषितम् । एतस्या: क्रीडाया: कृते भारतसर्वकारस्य अनुज्ञा आवश्यकमिति उक्तम् । अस्मिन् वर्षे वियन्नायां समुद्रतीर क्रीडायां प्रत्येकस्य देशस्य २००० क्रीडाकारा: भागग्रहणं स्वीकृतवन्त:।

सी राधाकृष्णमहोदयाय एष़ुत्तच्चन् पुरस्कार: 
        कोच्चि > केरळसर्वकारस्य एष़ुत्तच्चन् पुरस्कार: श्री सि राधाकृष्णमहोदयाय। सार्धैकलक्षरुप्यकाणि फलकं च पुरस्कारे अन्तर्भवति। आगामि जनुवरीमासे केरळराज्यस्य मुख्यमन्त्रिणा पिणरायी महोदयेन सि राधाकृष्णवर्य: पुरस्कृत: भविष्यति । कैरळीभाषायै तथा साहित्यस्य च कृते अस्य योगदानं परिगणयन्नेव स: पुरस्काराय चित:। केरळसाहित्य अक्कादमी अध्यक्ष: श्री वैशाखन् महोदय:,चयर्मान् श्री सुगतकुमारी,डा.के एन् पणिक्कर्, प्रभावर्मा, सांस्कृतिकविभागमन्त्रि श्री राणिजॉर्ज् आदि विजेतु: नाम्न: चयनवेळायां समित्यां आसन्। महोदयास्यास्य कृतय: सर्वा: अत्युत्तमा: इति समित्यङ्गै: अवलोकिता:। एतत् २४तम एष़ुत्तच्चन् पुरस्कार: अस्ति।लेखक: ,चलचित्रकार: इत्यादि मण्डलेषु वय्यक्तिकमुद्रया सुप्रतिष्ठित: श्री सी राधाकृष्णमहोदय: १९३९ तमे फरवरी पञ्चादशदिने मलप्पुरं जनपदे  चम्रवट्टप्रदेशे अजायत। कथा:,कवितासमाहारा:, नाटकानि,वैज्ञानिकरचना:,     परिभाषा,प्रबन्धसमाहारा: च तस्य सर्गक्रियाया: उत्तमफलानि एव। मलयाळभाषापितु: नाम्नि अयं पुरस्कार: प्रतिवर्षं दीयते।


एष्यन् वनिता चाम्प्य्नस् होकिक्रीडायां च ड्रोफि  
                            एष्यन् वनिताचाम्प्यन्स् होकिक्रीडायां च ड्रोफी ।                         सिंगप्पूर् > एष्यन् चाम्प्यन्स् ड्रोफी होकीक्रीडायां भारतदेशाय युगळ्ड्रोफी। पाकिस्तानदेशं पराजित: मलयाळिक्रीडकस्य श्री पी आर श्रीजेषस्य नेतृत्वे भारतस्य पुरुषक्रीडकसंघ: विजयीघोषित:। तै: सह वनितासंघ: अपि विजयी अभवत्। शनिवासरे संपन्नायां क्रीडायां चतस्रवनिता चाम्प्यन्स् ड्रोफी अन्त्ये भारतीयवनिता: २- १ इति अङ्कै: चीनां जितवन्त:। एतत् भारतीयवनिता: प्रथमचाम्पन्स् ड्रोफी अस्ति। कठिनस्पर्धाया: अन्तिमसमये स्ड्रैकर् दीपिकाठाक्कूर् प्राप्य कन्दुक: एव भारतदेशं विजयपथे अनयत्। डोप्स्कोरर् दिपिकास्ति। होकीइन्ड्या भारतडीमङ्गानां द्विलक्षरुप्यकाणि पारितोषिकत्वेन अकीर्तयत्।

Sunday, November 6, 2016

एन् डि टि वी प्रणालिं विरुध्य सर्वकारप्रतिक्रियायां शक्तः प्रतिषेधः।
नवदिल्ली > एन् डि टि वि नामकस्य दृश्यमाध्यमस्य हिन्दीवार्ताप्रणालीं प्रति केन्द्रसर्वकारेण कृते एकदिनात्मके सम्प्रेषणनिरोधे विपक्षदलानां वार्तामाध्यमपरिषदां च प्रतिषेधः शक्तः। नवंबर् नवमदिनाङ्कस्य सम्प्रेषणमेव निवारितम्।
     पठान्कोट्ट् तीव्रवादि आक्रमणम् अधिकृत्य वार्तासम्प्रेषणमध्ये व्योमनिलयस्य रहस्यरेखाः अपि सम्प्रेषिताः इत्यारोप्य एव इयं प्रतिक्रिया।
    सर्वकारस्य अयं क्रियाविधिः मतस्वातन्त्यलङ्घनमिति मुख्यप्रकाशकानां समित्या एडिटेर्स् गिल्ड् इत्यनया उक्तम्।

Saturday, November 5, 2016

PS 2वस्तुसेवकरपरिषदोपवेशनं सम्पन्नम् 
नवदेहली> मंत्रिणा अरूण जेटलिना प्रतिपादितं यत् इदानीं यावत्  दशमहत्वपूर्णप्रकरणानि समासाधितानि | वस्तुसेवकरान्तर्गतं १.५ कोटिरुप्यकाणां  करमूल्यांकनं विधातुं राज्यप्रशासनाधिकारिणः केन्द्रप्रशासनाधिकारिणश्च उत्तरदायित्वं निभालयिष्यन्ति |
PS 3
राष्ट्रिय-हरित-प्राधिकरणेन दिल्लीप्रशासनं तर्जितम् 
 नवदेहली > दिल्ल्यां प्रदूषणदूरीकरणे  विफलतायै राष्ट्रियहरितप्राधिकरणेन दिल्लीप्रशासनं तर्जितम् |राष्ट्रियहरितप्राधिकरणेन राजधान्यां प्रदूषणनियंत्रणाय केंद्रीय-प्रदूषण- नियंत्रणाभिकरणं दिल्ली-प्रदूषण-नियंत्रण-समिति च समुचितपदक्षेपाय समादिष्टौ | अपि च  गभीरप्रदूषणस्थितिमालक्ष्य प्राथमिकविद्यालयाः शनिवासराय पिहिताः |