OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, May 25, 2026

  •  पाकिस्थाने रेल् याने स्फोटनं - २४ जनाः हताः। 
    बलूचिस्थाने दुरापन्नस्य रेल् यानस्फोटनस्य दृश्यम्। 
    स्फोटनस्य उत्तरदायित्वं स्वीकृत्य बि एल् ए। 

क्वटा> पाकिस्थाने बलूचिस्थानप्रान्तप्रदेशे सैनिकान् ऊढ्वा सञ्चरत् रेल् यानं प्रति स्फोटकवस्तूपेतं कार् यानं संघट्य विधत्ते स्फोटने २४ जनाः मृताः। स्फोटनस्य उत्तरदायित्वं 'बलूचिस्थान् ललिबरेशन् आर्मी' - बि एल् ए - नामकेन भीकरसंघटनेन स्वीकृतम्। सैनिकाः आसन् तेषां लक्ष्यमिति सूच्यते। 

  पेषवारतः क्वटां प्रति गच्छत् यानं विरुध्य आसीत् आक्रमणम्। बक्रीद् उत्सवाय स्वपुरं गच्छन्तः सैनिकाः परिवाराश्च आसन् रेल् याने। यानस्य यन्त्रं, कक्षात्रयं च स्फोटने विशीर्णम्। 

  आक्रमणम् अपलपितवान् पाकिस्थानस्य प्रधानमन्त्री षहबास् षरीफः भीकरवादैः पाकिस्थानं दुर्बलीकर्तुं न शक्यते इति प्रस्तुतवान्।