OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, September 9, 2018

शिवकाश्यां स्फोटकनिर्माणशालायाम् अग्निबाधा-  द्वौ मृतवन्तौ। 
-रम्या पि यु
   शिवकाशी > तमिल्नाटु राज्ये शिवकाश्यां स्फोटकनिर्माणशालायां अग्निबाधया  द्वौ मृतवन्तौ। मारियप्पन्(35), कृष्णः(43) एतौ मृतवन्तौ। द्वयोः अवस्था गुरुतरा। पोन्नुस्वामी पाण्ड्यराजः नामकौ  भवतः गुरुतरावस्थायाम्। 90% अधिकम्  दग्धाः द्वावपि शिवकाश्याः सर्वकारातुरालयं प्रवेशितवन्तौ। शिवकाश्याः समीपे कक्किवाटन्पट्ट्यां शनिवासरे आसीत् अपघातः।  कर्मकरेषु स्फोटकनिर्माणं कुर्वत्सु  एव अपघातः । अग्निशमनसेना एक हाेराभ्यन्तरे  अग्निबाधां नियन्त्रणविधेयमकरोत्। मधुरायाः आरक्षकाः अन्वेषणम् आरब्धवन्तः।

Saturday, September 8, 2018

रूप्यकाणां मूल्यशोषणम् - ऋणस्य प्रत्यर्पणे ८०,०००० कोटि रूप्यकाणाम् अधिकभारः।
    मुम्बै> रूप्यकाणां मूल्यशोषणेन वैदेशिक- ह्रस्वकालिक ऋणानां प्रत्यर्पणे ७०,००० कोटि रूप्यकाणां अधिकभारः भविष्यति इति भारतीय स्टेट् बैंक संस्थायाः अनुसन्धान विभागेन गण्यते। भारतोद्योग संस्थानां विदेशऋणं विदेशेवर्तमानानां भारतीयानां निक्षेपः च आहत्य प्रत्यर्पणाय २१७६० डोलर् मितं भवतीति २०१७ तमस्य गणना। अस्मिन्  २०१८ तमस्य द्वितीय पादे ७.१ लक्षं कोटि रूप्यकाणि प्रत्यर्पणाय आसीत्I डोलर् धनस्य विनिमयमूल्यम् ६५.१ इति परिगण्यते चेत् भवति इदम् ।
जगति अद्य अन्ताराष्ट्रियसाक्षरतादिनत्वं समायोज्यते
-पुरुषोत्तमशर्मा
    यूनेस्को इति संस्थया पञ्चषष्ट्युत्तरैकोनविंशे वर्षे नवम्बरमासस्य सप्तदश दिनाङ्के अन्ताराष्ट्रियसाक्षरतादिनस्योद्घोषणा कृता। तदनु सर्वादौ १९६६ तमाब्दे सितम्बरमासस्य अष्टमे दिने जगति अन्ताराष्ट्रियसाक्षरतादिवस: समामानित:। अस्योद्देश्यं वैयक्तिक-सामुदायिक-सामाजिकस्तरेषु साक्षरताया: महत्वप्रकाशनं इति विद्यते। 
https://hi.m.wikipedia.org/wiki/अन्तर्राष्ट्रीय_साक्षरता_दिवस इत्यन्तर्जालसङ्केते प्रतिपादितं यत्   ७७.५ कोटि युवान: साक्षरताया: न्यूनतावशात् वशात् अप्रभाविताः सन्ति। ६.७ कोटि बाला: विद्यालयं नैव गच्छन्ति। अनियमितताभावादि-विविधकारणै: बाला: विद्यालयं परित्यजन्ति ।

Friday, September 7, 2018

विश्वसंस्कृतप्रतिष्ठानस्य शिक्षक-प्रशिक्षण-शिबिरं तृश्शूर् जनपदे।
     कोटिलिङ्गपुरम्> विश्व संस्कृतप्रतिष्ठानेन आयोक्ष्यमाणं राज्यस्तरीय शिक्षक प्रशिक्षणशिबिरम् अस्मिन् संवत्सरे तृश्शिवपेरूर् जनपदे भविष्यति। डिसंबर्मासस्य विरामदिनेषु भविष्यमाणे शिबिरे भागं कर्तुं सर्वेषां संस्कृतज्ञानां सन्दर्भः अस्ति। शिबिरे भागं कर्तुं  ये इच्छन्ति तेषां कृते भाषाबोधनवर्गः निश्चितः अस्ति।
सेप्तंबर् २०, २१, २२, २३ दिनाङ्केषु एव भाषाबोधनवर्गः। भाषाबोधनवर्गे उपस्थितेभ्यः एव प्रशिक्षणशिबिरप्रवेशः। तत्परैः दूरवाणिद्वारा सम्पर्क: करणीय : इति शिक्षणविभागेन उक्तम्। दूरवाणी- 944630 3586, 9539058960   ॥
बंगलूरु विमाननिलयः मुखं दृष्ट्वा यात्रायै अनुज्ञां प्रदास्यति।
     बंगलूरु> यात्रिकाणां मुखं दृष्ट्वा यात्रायै अनुज्ञां दातुं बंगलूरस्थविमाननिलयेन नूतनविद्या सज्जीक्रियते। अनया सुविधया यात्रानुज्ञापत्रस्य कृते समयनष्टः न भविष्यति। विमानिलयस्य द्वारे प्रवेशनकाले एव प्रत्यभिज्ञाभविष्यति। नूतन संविधानानुबन्धतय लिस्बणस्थ डिजिट्टल् आन्ट् बयोमेट्रिक् सोलूषन्स् इति संस्थया सह सन्धिः कृता अस्तीति बंगलूरु अन्ताराष्ट्र विमान-निलयाधिकारिभिः उक्तम्। बयोमेट्रिक् रीत्या यात्रानुज्ञाप्रक्रिया सुकरा इति तैः उक्तम्। प्रमाणपत्राणाम् आधिक्यं विना यात्रानुज्ञा सुललिता भविष्यति।
    केन्द्रसर्वकारेण निर्दिष्टा 'डिजि' यात्रायोजनायै साहाय्यकी भवति इयं सुविधा। २०१९ तमे एप्रिल्मासात् पूर्वं काकदरहितं  कर्तुम् इयं सुविधा प्रबलं भविष्यति।

चीनः भारतात् भीतः भविष्यति।
निगुढचलनानि भारतं प्रति अमेरिकेन आवेद्यते।
     नवदिल्ली > चीनादयानां शत्रुराष्ट्राणां अन्तर्वाहिनीनां युद्ध नौकानां निगूढप्रक्रमान् प्रत्यभिज्ञातुं भारत नाविकसेनायै अमेरिका राष्ट्रस्य साह्यःभविष्यति। अमीरिकीय सख्यराष्ट्रान् प्रति दीयमाना CENTRIXS इति विशेषविद्या भवति इयम्।
   भारत-यु एस् बन्धं प्रबलं कृत्वा उभयोः राष्ट्रयोः मिथः हस्ताक्षरीकृतस्य COMCASA - Communications Compatibility and Security Agreement सम्मतिपत्रस्य हस्ताक्षरीकरणस्य भागतया भवति इयम् सुविधा। अनया शत्रुराष्ट्रस्य युद्धनौकायाः अन्तर्वाहिन्यः वा सन्निधिः स्यात् चेत्‌ तदधिकृत्य विवरणानि भारत नाविकसेनायै लब्स्यते इत्येव लाभः।

Thursday, September 6, 2018

पर्यावरणव्यतियानम्-  पश्चिमघट्टे इतोपि आघाताः सम्भवेयुरिति विदग्धाभिप्रायः।  
    कोच्ची > पर्यावरणव्यतियानेन पश्चिमघट्टे इतोपि आघाताः सम्भवेयुरिति विदग्धाभिप्रायः। कोच्ची शास्त्रसाङ्केतिकविश्वविद्यालयस्य  पर्यावरणानुसन्धानविभागः केरलीयधीवरैक्यवेदिश्च मिलित्वा सञ्चालितायां शिल्पशालायामेव एषः अभिप्रायः प्रादुरभूत्।
   आरबसागरे प्रादुर्भूयमानः न्यूनमर्द्दः केरलराज्यमेव अधिकाधिकम् बाधते। तीरसंरक्षणम्, पश्चिमघट्टसंरक्षणं च अतिजाग्रतया जनसहकारेण च कुर्यात्। राज्येन साक्षीभूतस्य महाप्रलयस्य कारणं प्रकृतिचूषणं  जलबन्धनिर्वावाहकसमित्याः अनवधानता तथा अशास्त्रीयनिर्माणानि च। पर्यावरणव्यतियानसम्बन्धीनां सूचनानानां  परिगणना न कृता इत्यपि अपघातस्य व्याप्तिमवर्धयत् इति च शिल्पशालायाः निरीक्षणम्।
जापानराष्ट्रे भूचलनम् - १९ जनाः अदर्शनं गताः।
  टोक्यो > उत्तरजापानस्य हो क्कायिडो द्वीपे जायमानेन भूचलनेन १९ जनाः अदर्शनं गताः इत्यावेद्यते। रिक्टर् मापिन्यां शक्तिः ६.७ इति अङ्कितं भूचलनं गुरुवासरे प्रभातात् पूर्वमेव अभूत्। भूचलनानुबन्धतया जायमानेन मृत्पातेन संख्याधिकानि गृहाणि विशीर्णानि। विद्युत्बन्धः विनष्टाः। १२० जनाः क्षताः अभवन्। पट्टिकायानविमानादिसेवाः स्थगिताः च।
गुरुणा समं न गूगिलः - वेङ्कय्यनायिडुः।
      नवदिल्ली> राष्ट्रस्य शिक्षामण्डले उत्तरोत्तरं वर्धमाने सत्यपि गुरुणा तुल्यः गुरुरेव। न गूगिलः इति उपराष्ट्रपतिना वेङ्कय्यनायिडुवर्येण उक्तम्। राष्ट्रिय अध्यापक-पुरस्काराणां वितरण-वेदिकायाम्  आसीत् उपराष्ट्रपतेः परामर्शः। प्राथमिकशिक्षा मातृभाषायां दातव्या इति अध्यापकैः मनसि सदा कल्पनीयम्। विषयेस्मिन् राज्य-केन्द्रसर्वकारैः उपक्रमाः स्वीकरणीयाः इत्यपि तेन महोदयेन उक्तम्। अन्ध्राप्रदेशस्य नेल्लूर्देशे गुरोः पुरतः सिकतायां विलिख्य अध्ययनमारभ्य, मम भारतस्य द्वितीयस्थानं प्राप्तुम् अवसरः लब्धः इति सः साभिमानेन उक्तम्। 

Wednesday, September 5, 2018

कोलक्कत्ताराज्ये गतागत सेतुः भग्नीभूय एकः हतः।
       कोल्कत्ता > दक्षिण कोल्कत्तादेशे बहु सम्मर्दयुक्तमार्गस्य गतागतसेतोः कश्चन भागः भग्नः अभवत्। एकः हतः। क्षताः नवजनाः आतुरालयं प्रविष्टाः। अलिपुरप्रदेशस्थ 'मजेर्हट्' सेतोः भागः एव मङ्गलवासरे सायंकाले आसीत् इयं दुर्घटना। नैकाः द्विचक्रिकाः कार्यानानि च सेताः भग्नावशिष्टानां मध्ये बद्धाः अभवन्I पञ्चविंशति जनाः ततः रक्षिताः इति पि टि ऐ वार्तासंस्थया निगदितम्। यन्त्रखनित्राणि उपयुज्य रक्षाप्रवर्तनानि अनुवर्तन्ते।
      घटनायां पञ्चजनाः हताः इति आवेदनम् आगतं चेदपि राज्यसर्वकारेण न प्रमाणीकृतम्। ४० वर्षाणां पुरातनत्वमस्ति सेतोः। समीप प्रदेशं प्रति गतागताः स्तगिताः। सैनिकाः स्वेच्छया सुरक्षाप्रवर्तनाय अवतरिताः।

Tuesday, September 4, 2018

भारताय धनसाहाय्यः- ब्रिट्टीष् विधानसभायां प्रतिषेधः।
      लन्टन् > चन्द्रयानादयः बृहत्याः योजनायाः यजमानाय  दातुं निश्चितं  आर्थिकसाहाय्म् विरुद्ध्य ब्रिट्टीष् विधानसभायाम्  प्रतिषेधः अभवत्I प्रशाशासनदलीयः कण्सर्वेट्टीव् दलस्य केचन अङ्गाः एव एवं विप्रतिपत्तिं प्रकाशितवन्तः । भारताय साक्षात् धनसाहाय्यं ब्रिट्टनेन अवसितं आसीत्। चेदपि नूतन-विकास-परियोजनायै कोटिशः पौन्ट् धनम् इदानीमपि ददाति स्म। २०१८-१९ संवत्सरे ५२ दशलक्षं पौण्ट्, २०१९-२० संवत्सरे ४६ दशलक्षं पौण्ट् च राष्ट्रान्तरविकसन विभागेन भारताय साहाय्यं ख्यापितम्। ईदृशसाहायं संसूच्य आसीत्  विप्रतिपत्ति प्रकाशनम्।
      ९५.४ दशलक्षं पौण्ट् व्ययीकृत्य भवति चन्द्रयानपरियोजना। अवसरेस्मिन् दीयमानः आर्थिक साहाय्यः तेषां परियोजनायाः प्रायोजक रूपेण परिणीयमानाः वयं इति भावनोत्पादनाय हेतुः भविष्यति इति कण्सर्वेट्टीव् दलस्य अङ्गेन डेविड्डेविसेन उक्तम्।
उत्तरध्रुवे आधार-निलयसंस्थापनाय ISRO; प्रथम वैदेशिकनिलयः निर्मीयते।
      बेङ्गलूरु> भारत बाह्याकाश अनुसन्धान संस्थया उत्तर ध्रुवे भौमाधारनिलयस्य संस्थापनाय सज्जः भवति। ऐ एस् आर् ओ संस्थायाः प्रथम वैदेशिकाधारनिलयः भवत्येषः इति अधिकृतानां नाम्नि टैंस् आफ् इन्ट्यया आवेदितम्।
    वर्षद्वयात् पूर्वं चीनः उत्तरध्रुवे आधरनिलयस्य स्थापनमकरोत्।
'इन्ट्यन् रिमोट् सेन्सिङ् ओपरेष़न्स्' सुविधा संवर्धनीया इत्यस्ति निलयसंस्थापनस्य लक्ष्यः। तथापि अन्ताराष्ट्रानुज्ञा आवश्यकी इत्यनेन योजनायाः संस्थापने कालविलंबः भाविष्यति इति वैज्ञानिकवृत्तानां पक्षतः लब्धा सूचना ।

Monday, September 3, 2018

म्यान्मर् राष्ट्रे रोयिट्टर् वार्ताहरयोः ७ वर्षपर्यन्तं कारागारवासः।
      यङ्कूण् > म्यान्मर् राष्ट्र सुरक्षायै हानिकररीत्या गुप्त विवरणानि चोरितानि इति अभियोगे द्वौ वार्ताहरौ गृहीतवन्तौ। एतौ रोयिट्टर नाम वार्तासंस्थायाः कर्मकरौ भवतः। वालोण् (३२) क्योसोवो (२८) इति नामकौ कार्यालयरहस्यनियमः उल्लङ्खितवन्तौ इति याङ्कूणस्य न्यायालयेन निरीक्षितम्। म्यान्मरस्य 'राखिनिल्' सैन्यै:अरक्षकसेनाया च मिलित्वा कृतेन प्रक्रमेण  दश-रोहिङ्क्यवंशजाः हताः अपि च सुरक्षासेनया रोहिङ्क्यान्  विरुद्घ्य कृतान् अतिक्रमान् च आवेदयितुमागतौ  तौ वार्ता हरौ। एतौ मोचितव्यौ इति ऐक्यराष्ट्रसभया यूरोप्यन् यूणियनेन च अभ्यर्थितौ। २०१७ डिसम्बर्मासस्य १२ दिनाङ्के एव तौ गृहीतौ। 
भीकरान् विरुद्ध्य प्रक्रमाः न सन्ति - पाकिस्थानाय घ्यापितं साहाय्यम् अमेरिक्का राष्ट्रेण उप-संहृतम्। 
    वाषिङ्टण् > भीकरदलान्  विरुद्ध्य निशित-प्रक्रमाय न उद्युक्तः इति कारणेन पाकिस्थानाय अमेरिक्काराष्ट्रेण घ्यापितं साहाय्यं स्थगितम्। ३०० कोटि डोलर् धनस्य साहाय्यमेव अमेरिकीय सैन्येन विनिवर्तितम्। वार्तामिमां रोयिट्टेर्स् वार्तासंस्थया आवेदितम्। अफ्गानिस्थाने आक्रमणं कृतवद्भ्यः पाकिस्थान् सुरक्षितस्थानं प्रददाति इत्येव अमेरिक्काराष्ट्रस्य आक्षेपः। किन्तु अयम् आरोपः पाकिस्थानेन निरस्यते। सख्यसंङ्घः इति परिगणनायामेव साहाय्य धनं  प्रख्यापितम्।
     भीकरान् विरुद्ध्य प्रक्रमाः समारभ्य एव धनसाहाय्यं दास्यते इत्यासीत् सन्धिः। अस्मिन् वर्षस्य समारम्भे अमेरिकाराष्ट्रपतिना डोणाल्ड् ट्रम्पेन एव साहाय्यं घ्यापितम्।

Sunday, September 2, 2018

भारते संस्कृतमहोत्सवः


    सतनायां स्थितस्य द्वितीय क्रमांकस्य केन्द्रीयविद्यालये अगस्तमासस्य त्रयोविंशतिदिनांकत:एकोनत्रिंशत् दिनांकं यावत्  संस्कृतसप्ताहं दिवसंचाभिलक्ष्य विविधा:कार्यक्रमा:आयोजिता:। कार्यक्रमस्य विवरणम् केन्द्रीयविद्यालयसंघटनम् दिल्लीत:पूर्वमेव सुनिश्चितं कृत्वा आगतं आसीत्। यस्यानुपालनं विधाय संस्कृतस्य प्रचार:प्रसार:करणीय:आसीत्।  
आवेदनम् - आशुतोष: संस्कृतशिक्षक: |
संस्कृतभारती-चित्तौडप्रान्तस्य वनविहारकार्यक्रमः जातः
    चित्तौडा > संस्कृतभारत्याः चित्तौडप्रान्तस्य अजयमेरु-शाहपुराजनपदयोः वनविहारकार्यक्रमः  भीलवाड़ाजनपदस्थे चँवलेश्वरजैनतीर्थे सुसम्पन्नः। कार्यक्रमे प्रतिभाप्रदर्शनम् समायोजितम्। कार्यकर्तारः संस्कृत-गीत-नृत्य-नाट्यादीनां मनोरमाः प्रस्तुतीः दत्तवन्तः। प्रान्तस्य विद्वत्परिषत्संयोजकः श्रीपरमानन्दशर्मा स्वरचितानि संस्कृतगीतानि श्रावयन् काव्यामृतधारां प्रावाहयत्। क्रीडासत्रे संस्कृतमाध्यमेन विविधाः क्रीडाः कुर्वन्तः सर्वे नितराम् अमोदन्त।
     चर्चासत्रे प्रान्तसङ्घटनमन्त्री श्रीदेवेन्द्रपण्डया  स्वस्वस्थाने संस्कृतसप्ताहस्य आयोजनाय कार्यकर्तृबन्धून् प्रेरितवान्। प्रान्तसम्पर्कप्रमुखः श्रीमहेशचन्द्रशर्मा 'गृहं गृहं संस्कृतम्' इति नाम्ना लोकसम्पर्काभियानम् आयोजयितुं प्रेरितवान्। प्रान्तशिक्षणप्रमुखः श्रीमधुसूदनशर्मा सम्भाषणशिविराभियानविषये चर्चाम् अकरोत्। भीलवाड़ाविभागसंयोजकः श्रीपरमेश्वरकुमावतः अजयमेरुजनपदसंयोजकः श्रीदेवराजकुमावतः च स्वजनपदस्य आगामिनीं कार्ययोजनां प्रस्तुतवन्तौ।  नूनम् आनन्दोत्साहाभ्यां परिपूर्णः आसीत् वनविहारोsयम्। कार्यक्रमेsस्मिन् पञ्चनवतिः कार्यकर्तारः सम्मिलिताः अभवन्।
वार्ताहरौ - मधुसूदन: शर्मा दीपक: शास्त्री च।

Saturday, September 1, 2018

रञ्जन् गोगोय् सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशः भविष्यति। 

     नवदिल्ली> भारतस्य सर्वोच्च-न्यायालयस्य मुख्य न्यायाधीशस्थाने न्यायाधीशः रञ्जन् गोगोय् निर्दिष्टः। अस्य नाम मुख्य-न्यायाधीशेन दीपक् मिश्रेण एव निर्दिष्टः। अग्रिमन्यायाधीशस्य नामनिर्देशाय  नियममन्त्रालयेन दीपक् मिश्रा संपृष्टवान् आसीत्। 
   न्यायाधीशः गोगोय् सहिताः त्रयः न्यायाधीशाः जनवरि मासस्य १२ दिनाङ्के मुख्य न्यायाधीशं विरुद्ध्य वार्ता मेलनम्  आहूतवन्ताः। याचिकायाः विभजनमधिकृत्य आक्षेपयुक्त मासीत् वार्ता मेलनम्। गोगोय् वर्येण सः वार्तामेलने आसीनः चेलमेश्वरःआसीत्  वरिष्ठः न्यायाधीशः। किन्तु सः मेय् मासस्य अष्टादश दिनाङ्के निवृत्तः अभवत्l
मुल्लप्पेरियार्- भीषया सह तमिल् नाट् मुख्यमन्त्री 
    कालटी > महाप्रलयात् मन्दमन्दं पारं गन्तुं प्रयतन्ते केरलाः। सन्दर्भेऽस्मिन् मुल्लप्पेरियार् जलबन्धस्य जलवितानं १४२ पादमानतः १५२ इति वर्धयिष्यते इति तमिल्नाट्  मुख्यमन्त्रिणा एटप्पाटि पलनिस्वामिना  उक्तम्। उच्चन्यायालयस्य अनुज्ञा लब्धे सति जलविधानं १५२ इति वर्धयिष्यते, जलबन्धस्य भितेः प्रबलीकरणं समारब्धम् इति च तेनोक्तम्।
   वृष्टिकालात् पूर्वं दोषपरीक्षां कृत्वा जलबन्धस्थ बलक्षयः नास्ति इति प्रमाणपत्रम् अदात्। वृष्ट्याकेरलस्य  जलबन्धाः  सर्वं पूर्णाणाः अभवत्। जलं जलबन्धात् बहिर्गत्वा जलोपप्लवमभवत्I  मुल्ल पेरियार् जलबन्धात् जायमानप्रवाहः एव जलोपप्लवस्य कारणम् इति केरलेषु  अनृतारोपाः प्रचलन्ति इति पळनिस्वामिना उक्तम्।

Friday, August 31, 2018

लोकसभाया: राज्यविधानसभानाञ्च निर्वाचनानि सहैव सम्पादयितुं प्रस्‍ताव: 
- पुरुषोत्तमशर्मा
     नवदिल्ली > विध्यायोगेन प्रशासनाय प्रेषिते प्रतिवेदने लोकसभाया: अथ च राज्यविधानसभानां निर्वाचनानि सहैव सम्पादयितुं प्रस्‍ताव: अनुमोदित:। आयोगेनोक्तं यत् देशे निरन्तरनिर्वाचनप्रक्रियाया: निरसनाय एकमेव समाधानं विद्यत् । आयोगेन एतदर्थं संविधाने निर्वाचनविधौ च परिष्कार: अनुशंसित: । प्रतिवेदने स्पष्टीकृतं यत् सहैव वनिर्वाचनेन प्राशासनिकधनरक्षा, प्रशासनस्य सुरक्षाबलानां च समयलाभ: भविष्यति, येन प्रशासनिकनीतीनां क्रियान्‍वयनं भद्रतरं भविष्यति। सहैवोक्तंयत् संविधानस्य साम्प्रतिकस्वरूपेण सहैव निर्वाचनायोजनं सम्भवं नास्ति ।
म्यान्मर् राष्ट्रे जलबन्धभग्नेन जलोपप्लवः ; सहस्रशः भवनरहिताः।
    नय्पिट्टो >  म्यान्मर् राष्ट्रे बागो प्रविश्यायां स्वरषोङ् नामकः दल बन्धः अतिवृष्ट्या सञ्जातेन जलोपप्लवेन भग्नः जातः।शताधिकाः ग्रामाः निमग्नाः! षट् मरणानि सूचितानि। पञ्चाशत्सहस्रं जनाः भवनरहिताः अभवन्।
     सोमवासरादारभ्य एव जलबन्धः सम्भरणशेषिमतिक्रम्य प्रवहति स्म। किन्तु आशङ्काजनकः अवस्थाविशेषः नास्तीति अधिकारिभिः उक्तमासीत्। अतो जनाः स्व स्व भवनेषु वर्तमानाः आसन् I किन्तु बुधवासरे उषसि जलबन्धद्वाराणि प्रभञ्ज्य प्रवहता जलेन भवनानि क्षेत्राणि च निमज्जितानि आसन्।
एशियामहाद्वीपीयक्रीडोत्सवे भारतीयस्य भव्यं प्रदर्शनम्
गुरुवासरे भारतेन पञ्चपदकानि विजितानि
-पुरुषोत्तमशर्मा
       एशियामहाद्वीपीय-क्रीडोत्सवे द्वादशे दिवसे भारतीयक्रीडकैः भव्यं प्रदर्शनम् आचरितम् । गुरुवासरे भारतेन स्वर्णपदकद्वयं समेत्य पञ्चपदकानि विजितानि ।भारतपक्षतो जिनसनजॉनसनेन पुरुषाणां 1500 मीटरमिता धावनस्पर्धा 3:44.72 समये पूरिता। ऐषमः क्रीडायां जिनसनस्य द्वीतीयं पदकमिदं वर्तते। महिलानां 4×400 मीटरमितायां रिले-स्पर्धायां भारतस्य अनवरतं पञ्चमं स्वर्णपदकमिदं वर्तते । महिलानां 1500 मीटरमितायां धावनस्पर्धायां पीयूचित्रा रजतपदकं विजितवती। पुरुषाणां च 4×400 रिले स्पर्धायां भारतीयदलेनापि रजतपदकं विजितम् । डिस्कस-थ्रो इति स्पर्धायां सीमा पूनिया  भारताय  कांस्यपदकम् अधिगतवती।
मिथः पङ्काक्षेपाय सामाजिकमाध्यमाः न उपयोक्तव्याः - नरन्द्रमोदी 
    नवदिल्ली> मान्यजनतन्त्राय उचितः मार्गः न भवति मिथः पङ्काक्षेपः इति भास्तस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्।  सामाजिक माध्यमद्वारा कृतानुचिताभिमतप्रकाशनम् उद्दिश्य एव मोदिनः परामर्शः। वाराणसि प्रदेशस्थ भाजपादलीयैः सह कृते दृश्य सम्मन्द्रणोपवेशने भाषमाणः आसीत् सः। राष्ट्रस्य सुवार्ताः एव प्रसारणीयाः । समाजस्य शक्तीकरणाय उपयुक्ता वार्ता एव मिथः दातव्याः। किन्तु प्रदिवेशिकानां कुटुम्बव्यवहाराः राष्ट्रियवार्तारूपेण परिवर्तन्ते। एषः न केवलं यस्यकस्यापि राजनैतिक-दलस्य वा तेषाम् आशयस्य वा विषयः न, १२५ कोटि जनानाम् अपि चl
      विषयेऽस्मिन् स्वयमेव अनुशीलनं करणीयम् ।  स्वच्छभारत अभियान् नाम केवलं परिसरशुद्धिः इति न। मनसः विशुद्धिरपि भवति इति प्रधानमन्त्रिणा मोदिना भणितम्।
भारत-पाक् सिन्धू नदीजल सन्धिपत्रचर्चा श्वः प्रारब्स्यते। 

  इस्लामाबाद्> सिन्धू नदीजलसन्धिपत्र संबन्धतया भारत पाकिस्थानयोः मिथः भाषणं श्वः समारप्स्यते। झलं नद्यां भारतेन निर्मितां किषन् गङ्गा जलवैद्युतपरियोजनां विरुद्ध्य पाकिस्थानः तिष्ठति इत्येन इयम् उभयचर्चा निर्णायका एव।  पाकिस्थानस्य प्रधानमन्त्रीपदे इम्रान् खानस्य आरोहणानन्तरम् जायमाना  प्रथम चर्चा एव सा।  
     लाहोरे प्रचाल्यमानायं चर्चायां भारतस्य सिन्धू नदीजलसन्धेः अध्यक्षः पि के सक्सेना च भागं स्वीकुर्वन्ति। पाकिस्थानस्य पक्षतः सय्यत्‌ मोहर् अलि षा नेतृत्वं करिष्यति।
गते मार्च् मासे  नवदिल्याम् आसीत् सिन्धू नदी जल आयोगस्य प्रथम मेलनम्।
    सिन्धु नदी श्रृंखलायाः जलं पाकिस्थानायापि उपकारत्वेन भवितुं रूपीकृता सन्धिः एवभवति सिन्धू नदीजलसन्धिःI

Wednesday, August 29, 2018

जनं दृश्यमाध्यमे सम्प्रतिवार्ता कार्यक्रमस्य छात्र-वार्तावतारकाः 
  कालटी> सम्प्रतिवार्ता इति अन्तर्जालीयवाहिन्याः छात्रवार्तावतारकाः आगस्ट् मसस्य २९ दिनाङ्कतः चतुर्दिनपर्यन्तं वार्तावतारणं कुर्वन्ति। सर्वशिक्षा अभियानेन २०१७ संवत्सरस्य  श्रेष्ठपरियोजना इति अङ्गीकृतः भवति अयं कार्यक्रमःI छात्राः एव भवन्ति अस्मिन् वर्तावतारकाः। अष्टाशीति वार्ता-सोपानानि (Episode) इदानीं पूर्तीकृतानि सन्ति। 

    कार्यक्रमस्य छात्र-वार्तावतारकाराणां क्षमतां दृष्ट्वा एव जनं दृश्यमाध्यमेन छात्रेभ्यः वार्तावतारणाय सन्दर्भः प्रदास्यते। गत संवत्सरे आसीत् छात्रवार्तावतारकाणां प्रप्रथमं प्रसारणम्।  सर्वकारेतर-वार्तावाहिनिषु जनं दृश्यमाध्यमेन एव प्रप्रथमतया  संस्कृतवार्ताकार्यक्रमः समारब्धः। अन्तर्जालीय वार्ताप्रसारण कार्यक्रमेषु छात्राणां वार्तावतारणमपि विश्वे प्रथमतया एव।

    अद्य सायं पञ्चवादने जनंदृश्यमाध्यमस्य वार्ता संस्कृतं नाम कार्यक्रमेण छात्राणां वार्तावतारणं भविष्यति। श्रीकृण-जयन्ती पर्वणानुबन्धतया भवति छात्राणां भागभागित्वम् । नम्यालक्ष्मी आर्, नारायणी महादेवन्, विष्णु हरिकुमारः, निरञ्जना जे च अस्मिन् वार्तावतारकाः भवन्ति।
'एष्यन् गयिंस्' क्रीडायां भारताय सौभाग्यदिनम्। 
     जक्कार्ता > एष्यन् गयिंस्' क्रीडायाः दशमे दिने भारतेन नव कीर्तिमुद्राः  प्राप्ताः। पुरुषाणां अष्टशतं मीटर् धावनस्पर्धायां भारतस्य  मञ्जित् सिंहः सुवर्णमुद्रां जिन्सण् जोण्सण् रजतमुद्रां च  प्राप्तवन्तौ। वनितानां 'बाड्मिन्टण्' क्रीड़ायाः अन्तिमप्रतियोगितायां पि वि सिन्धू रजतमुद्रया तृप्तिं प्राप्तवती! भारतस्यैव सैना नेह्वाल् पित्तलमुद्रां प्राप्तवती। पटललानक्रीडायां (Table Tennis) इदं प्रथमतया भारतेन मुद्रा एका प्राप्ता - पुरुषाणां सङ्घविषये पित्तलमुद्रा। 
   'कुराष्' नामके विषये एकैकं रजतं , पित्तलं , ततः अस्त्रप्रक्षेपणे  रजतद्वयं च प्राप्य दशमे दिने नव मुद्राः भारतेन प्राप्ताः! इदानीं भारतम् अष्टमस्थाने वर्तते। सुवर्णानि - ९ ; रजतानि - १९ ; पित्तलानि - २२!