OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, October 11, 2018

'तित्ली' वातः ओडीषातीरं प्राप- गोपालपुरे अधिकानि नाशनष्टानि।

   भुवनेश्वरम् > बंगसमुद्रे जातः तित्ली' चक्रवातः ओडीषातीरं प्राप। होरायां १२६ किलोमीट्टर् इति वेगेन आसीत् चक्रवातस्य आगमनम्। अद्य (गुरुवासरः) उषसि आसीत् वातस्य दुरागमनम्। सुराक्षानुबन्धतया लक्षत्रयं जनाः ततः सुरक्षितस्थानं प्रति प्रेषिताः आसन्। गोपालपुरे १५० कि०मी वेगेन वाति स्म  इति आवेद्यते। अधिकानि नाशनष्टानि गोपालपुरे अभवत्। ओडीषातीरेषु पादपाः विद्युत् स्थम्भाश्च विशीर्णः। भूमार्गगतागतनि स्थगितानि। गञ्जं, गजपतिः, पुरी, खुर्द, जगद् सिङ्पुरप्रदेशेषु वृष्टिः अनुवर्तते।
संस्कृताभियानम् ।
-प्रा.डॉ. विजयकुमार: मेनन् 
नमांसि,
       भाषा तु माध्यमम्, साधनम्। साध्यं तु अन्यत् किञ्चित् महत् भवतिॆ। जातिमतादिरूपेण या: भेदभावना: सन्ति ता: यदि संस्कृतभाषाया: द्वारा निवारिता: भवन्ति, न्यूना: वा भवन्ति, सा काचित् महती उपलब्धि: भवेत्। समाजस्य उपेक्षितवर्गं संस्कृतं पाठयित्वा तेन एतं परिणामं साधयितुं शक्नुयाम। या भाषा समाजस्य न्यूनतानां निवारणं करोति, समस्यानां परिहारं च करोति सा सर्वै: आदृता भवति। मित्राणि, संस्कृतद्वारा सामाजिकसमरसता इत्येतद् अद्यतने राष्ट्रियपरिप्रेक्ष्ये अत्यन्तं महत्वभूतम्। 
जयतु संस्कृतं  जयतु भारतम्।  🙏

Wednesday, October 10, 2018

उत्तरप्रदेशे रेल्यानदुर्धटना- पञ्चजनाः मृताः, बहवः व्रणिताः।

  लख्नौ>  उत्तरप्रदेश राज्यस्थे रास्बरेलि प्रदेशे रेल्यानदुर्घटनायां पञ्चजनाः मृताः। बहवः व्रणिताः।  माल् डयिल् देशात् दिलीं प्रति आगतं न्यू फराक्का एक्स्प्रस् यानम् एव अपघाते पतितम्। राय्बरेल्यां हरच्छन्द्रपुरस्थ  रेल् निस्थानस्य समीपे बुधवासरे उषसि षट् वादने आसीत् इयं दुर्घटना। व्रणिताः समीपस्थम् आतुरालयं प्रवेशितवन्तः। रक्षाप्रवर्तनानि अनुवर्तन्ते
अफ्‌गानिस्थाने आत्मघातिनः आक्रमणम्। स्थानाशिना साकम् अष्टजनाः हताः।
       काबूल्> अफ्‌गानिस्थाने निर्वाचन-पथसञ्चलने स्थानाशिना सह आहत्य अष्टजनाः हताः। अगण्याः व्रणिताः च। हेल्मण्ड् प्रविश्यायाः 'लेष्कर् गाह् ' इति प्रदेशे एव घटना जाता। प्रतिनिधिसभा स्थानाशी सेलं मुहम्मद् अचिकेशिं लक्ष्यीकृत्य आसीत् आक्रमणम्। आत्मघातिः स्वयं विस्फुटितः। तस्मिन्नेव क्षणे अच्केसिः अपि हताः। इतः पर्यन्तम् आक्रमणस्य उत्तरदायित्वं केनाऽपि न स्वीकृतम्। तालिबान दलस्य अधीनतायां वर्तमानः प्रदेशः भवति हेल्मण्ट्।
आयसागारे वातनलिकाविस्फोटनम्
-बिजिलाकिषोरः
       भीलाय् > चत्तीस् गढे राय् पुरतः ३०की मी दूरे नगरे विद्यमाने आयसागारे प्रवृत्ते उग्रस्फोटने षट्जनाः मृताः,१४जनाः व्रणिताश्च। व्रणितान् आतुरालयं प्रति नीतम्। आरक्षकाः सन्नद्ध सेवकाश्च सेवानिरताः वर्तन्ते।
यू ए ई राष्ट्रे एकीकृतवाहनचालनप्रमाणपत्रम् परिगणनायाम्।
               - रम्या पी यू          
      दुबाय्> वाहनचालनपरीक्षाम् एकीकृत्य प्रमाणपत्रस्वीकाराय सर्वेषु राज्येषु (एमिरेट्) सामान्यमानदण्डानि प्रचारयितुम् आलोच्यते।  राष्ट्रे सप्तराज्येषु  अपि वाहनचालनप्रमाणपत्रम् प्राप्तुं विभिन्नमानदण्डानि परीक्षाः च प्रचाल्यन्ते। एतां रीतिमुत्पाट्य प्रमाणपत्रप्राप्त्यै एकीकृतसंविधानस्य निर्माणः परिगणनायामस्तीति खान्टूट्टे प्रचलति सेर्को मिडिल् ईस्टस्य वार्षिकमार्गसुरक्षासम्मेलने अधिकारिणः आवेदयन्। एतदर्थम् आभ्यन्तरमन्त्रालयेन एका समितिः रूपीकृता इति चालकपरिशीलनं तथा गुणनिर्णयविभागस्य नियुक्तनिदेशकः हिन्द् अल् मुहैरी उक्तवान्।

Tuesday, October 9, 2018

'सिका' रोगाणुः व्याप्यते, जय्पुरे जाग्रतानिर्देशः।
    जयपुरम् > राजस्थान राज्यस्य राजनगरे जयपुरे सिकानामकवैरस् रोगाणुः व्याप्यते। सप्तसु जनेषु रोगाणुबाधा  स्थिरीकृता। सेप्तंम्बर् २४ दिनाङ्के कस्यांचित् महिलायां वैरस् रोगबाधा निर्णीता। ततः २२ रोगादर्शा अपि पूनेस्थां वैरोलजी संस्थां प्रति प्रेषिताः। तेषु सप्तेषु जनेषु सिकाबाधा निर्णीता। एषु बीहारीयो छात्र अपि अन्तर्भूतः। 
    रोगस्थिरीकरणात्पूर्वम् एषः जन्मग्रामं प्राप्तवान् इत्यतः तस्य परिवाराङगाः अपि निरीक्षणे वर्तन्ते। अपि तु बीहारस्य ३८ जनपदेष्वपि जाग्रतानिर्देशः कृतः। रोगव्यापनात् प्रधानमन्त्रिकार्यालयात् स्वास्थ्यमन्त्रालयाच्च आवेदनपत्रम् अपेक्षितम्।  Q भुवने ८६ राष्ट्रेषु सिकावैरस् रोगबाधा व्यापृता वर्तते।
अर्थशास्त्रे नोबेल् पुरस्कारः - नोड् हौस् , रोमरः च सम्प्राप्तौI
पुरस्कारः पर्यावरण व्यत्यय मधिकृत्य कृतार्थिकाध्ययनाय। 
       स्टोक्कों> अर्थशास्त्र विभागस्य नोबेल् पुरस्कारः अस्मिन् वर्षे  अमेरिकाराष्ट्रस्य आर्थिकवैज्ञानिकाभ्यां यच्छतः। विल्यं नोड् हौसः पोल् रोमरः च एतौ वैज्ञानिकौ। पर्यावरणव्यत्ययः तन्त्रांशानुबन्धतया आर्थिकप्रगतिः इति विषये कृताध्ययनाय भवत्ययं पुरास्कारः। प्रत्येकं राष्ट्रैः बहिर्गमयतां हरितगृहवातकानां मानानुसारं 'कार्बण् टाक्स्' इति करसम्प्रदायः समारम्भणीयः इति नोर्डहौस् महोदयस्य सिद्धान्तः। 'एन्टोजिनस् ग्रोथ् तियरि' इति ज्ञातस्य अस्य आधारः पोल् रोमरस्य निरीक्षणानि एव। मनुष्याणां कर्मकौशलं, नूतनदर्शनानि, ज्ञानम् इत्यादीन् प्रति निक्षेपः आर्थिकस्थितेः वर्धनाय शक्तिः प्रददाति इति 'एन्डोजिनस् ग्रोथ्' सिद्धान्तस्य आधाराशयः। दशलक्षं डोलर् मितं भवति पुरस्कारराशिः।
अधार्मिकवृत्तिः, ब्रह्मोस् उद्योगस्थः बन्धने।
-बिजिलाकिषोरः
         नवदिल्ली> नागपुरे विद्यमानायां ब्रह्मोस् प्रक्षेपास्त्रसंस्थायां उद्योगस्थः  निषान्त् अगर्वाल् अधार्मिकवृत्तेः नाम्नि आघेटकविरुद्धसंघेण बन्धितोजातः। उत्तरप्रदेशस्य महाराष्ट्रस्य च ए टि एस् संघानां संयुक्तप्रवर्तनेन अयं बन्धनस्थोऽभवत्।। वर्षचतुष्टयं  यावत् अत्र उद्योगस्थः भवति निषान्तः।
        नागपूर् प्रतिरोध- गवेषण-विकसनकेन्द्रे ब्रह्मोस् प्रक्षेपास्त्रस्य प्रेपोलन्ट्, इन्धनस्प विकसितकेन्द्रात् सः बन्धितवान् । शीघ्रगमनक्रुयिस् प्रक्षेपास्त्रस्य निगूढता विनष्टं वा इति सन्देहो वर्तते। ब्रहमोस् प्रक्षेपास्त्रस्यनिगूटता सर्वं सः जानीयात् इत्यतः विषयेस्मिन् विवरशेखरणम् अनिवार्यमिति ए टि एस् विभागेन सूचितम्।

Monday, October 8, 2018

ट्विविट्टर् माध्यमद्वारा इन्धनमूल्यं नियन्त्रयितुं न शक्यते- जय्ट्ली।।
          - रम्या पी यू। 
           नवदिल्ली- इन्धनमूल्यवर्धने विपक्षम् उपहास्य केन्द्रधनमन्त्री अरुणजय्ट्ली। राष्ट्रान्तरतले क्रूडतैलस्य मूल्यं नियन्त्रयितुम् विपक्षनेतृणां ट्वीट्द्वारा उत दृश्यवाहिनी बैन्ट् द्वारा न शक्यते इति तस्य उपहासः। केन्द्रस्य इन्धनकरः एकया रीत्या अनुवर्तते। किन्तु राज्याणि मूल्यवर्धितकरे परिवर्तनम् आनयन्ति। इन्धनमूल्ये स्वीक्रियमाणं वर्धनं राज्याणि कानिचन केन्द्रेण कृतवर्धनवशात् इति आरोपयन्ति। । कानिचन भा जा दलभिन्न शासकराज्याणि एतस्मिन् करे ऊनतामानेतुं नैव सन्नद्धानि।
महाराष्ट्रे उत्तरणपथः भग्नः अभवत् - 
     मुम्बै> महाराष्ट्रस्थे  मानखुरद् देशे नवीकरणप्रवर्तनसमये उत्तरणपथः अतः पतितः। रविवासरे सायं सार्ध चतुर्वादने एव घटना। नवीकरणाय उपयुज्यमानायाः यन्त्रश्रेण्याः उपरि एव उत्तरणपथस्य पतनमभवत्।  यः कोऽपि न व्रणितः। रविवासरः इत्यनेन पथि यानसम्मर्दः न्यूनः भविष्यति इति कारणेन नवीकरणप्रवर्तनाय दिनमिदं चयितम्। मासद्वयात् पूर्वामपि अन्धेरिप्रदेशेऽपि अनेन प्रकारेण अपघातः अभूत्। तदानीं सप्तजनाः व्रणिताः अभूवन्।
भारतस्य करप्रतिमानं विमृश्य ट्रम्पः। यु एस् राष्ट्रेरेण सह व्यापारसन्धिः स्थापनीया।
   -रम्या पी यू
          नवदिल्ली- अमरीकायाः उत्पन्नानां कृते अधिककरप्रतिमानानि स्वीकुर्वन्ति इति आरोपणेन सह पुनरपि डोणाल्ड् ट्रम्पः। भारतं सहसा अमेरीकया सह व्यापारचर्चाः आरभतु इति ट्रम्पः। मेक्सिको, कानडा, अमरीका एतैः राष्ट्रैः सह व्यापारसन्धिः प्रख्यापिता इति वार्तासम्मेलने ट्रम्पः उक्तवान्। अमेरीकायाः उत्पन्नानां कृते भारतम् अधिककरं स्वीकरोति। उभययोः राष्ट्रयोः सन्तृप्तिः चिरस्थापनीया इत्येतत् प्राथमिकं कार्यम्।

Sunday, October 7, 2018

महागर्तपतनेन वाहनापघातः
-बिजिला किषोरः
कश्मीरः >  जम्मुकश्मीरे शनिवासरे प्रवृत्त लोकयानस्य गर्तपतनेन २०जनाः मृताः।बनिहातः रम्पान् पर्यन्तं चलन्नासीत् यानम्।  जनबाहुल्यं भवति अपघातस्य कारणमिति आरक्षकैः सूचितम्।
               अपघाते अनेके व्रणिताः। व्योममार्गेण एकादशजनान् रक्षितवन्तः। मृतपरिवारस्य पञ्चलक्षं रुप्यकाणि तथा व्रणितैः ५०'००० रुप्यकाणि च दातुं निश्चितमिति आरक्षकसेनायाः उन्नतोगस्थेन श्री षोकत् ऐजास् महाशयेन उक्तं वर्तते।
आगोलतलेषु अन्त्रर्जालीय युद्धम् - रष्यां विरुद्ध्य पाश्चात्यराष्ट्राणि
         लण्टण्> रष्याराष्ट्रस्य चाराः लोकेसर्वत्र अन्तर्जालिक विपर्ययः प्रवर्तितवन्तः इति दोषारोपः।
आरोपणविधेयाः रष्याराष्ट्रस्य चत्वारः प्रतिनिधयः नेतर्लान्ट् राष्ट्रेण बहिः प्रेषिताः। एतस्याः घटनायाः पश्चात् अमेरिकाराष्ट्रस्य नैतिकविभागेन ईदृशारोपणेन समागतम्। एतदनुबन्ध्य रष्याराष्ट्रस्य सप्तान् रहस्यान्वेषणप्रतिनिधीन् विरुद्ध्य दोषारोपणम् उन्नीतम् अमेरिकेन।
          अन्ताराष्ट्रान्तर्जालीयाक्रमण-परिक्रमणे   आगोल-रासायुध निरीक्षणदलम्, आगोल उत्तेजकौषध-निरीक्षण-समितिः, अमेरिकस्य आणवसंस्था च अन्तर्भवन्ति आरोपणे। आगोलतले सुसंघटितान्तर्जालाक्रमणं रष्याराष्ट्रं केन्द्रीकृत्य प्रचलति इत्यस्ति आरोपणम् इति बि बि सि संस्थया आवेदितम्।
पञ्चसु राज्येषु निर्वाचनं प्रख्यापितम्। 

राजस्थानं, मध्यप्रदेशः, मिसोराम्, छत्तीसगढ् , तेलुङ्कानम्। 

     नवदिल्ली> आगामिसंवत्सरे वर्तमानस्य लोकसभानिर्वाचनस्य पूर्वपीठिकारूपेण पञ्च राज्येषु विधानसभानिर्वाचनानि प्रख्यापितानि। नवम्बर् १२ तमदिनाङ्कादारभ्य डिसम्बर् सप्तमदिनाङ्कपर्यन्तं विविधदिनाङ्केषु मतदानप्रक्रिया विधास्यते। सर्वेषु राज्येषु मतगणना डिसम्बर् एकादशदिनाङ्के भविष्यति। 
    प्रथमं निर्वाचनं छत्तीसगढ राज्ये सोपानद्वयेन विधास्यते। प्रथमसोपानं नवंबर १२ [१८ स्थानानि], द्वितीयं च नवंबर २० [७२ स्थानानि]। ततः मध्यप्रदेशे मिसोरामे च नवं- २८, राजस्थाने तेलुङ्काने च डिसम्बर् सप्तमे दिनाङ्के च मतदानं सम्पत्स्यति। भाजपा, कोण्ग्रस् इत्यादि राजनैतिकदलानां आगामिसंवत्सरे संपत्स्यमानस्य लोकसभानिर्वाचनस्य निकषः भवति इमानि निर्वाचनानि। 

Saturday, October 6, 2018

संस्कृताभियानम्
- प्रा.डॉ. विजयकुमार: मेनन् 
     नमांसि, संस्कृतभाषया अद्यतनान् सर्वान् अपि व्यवहारान् कर्तुं महता प्रमाणेन नवीनपदानाम् (प्राचीनानं वा! ) आवश्यकता अस्ति।संस्कृतस्य तु असंख्यकोटिपदनिर्माणसामर्थ्यम् अस्ति। अस्माकं संस्कृतज्ञानां तादृशपरिश्रमकरणस्य सामर्थ्यम् अपेक्षितम्। आगामिनि काले अस्माभि: महता प्रमाणेन व्यावहारिकपदनिर्माणं करणीयम्, प्राचीनप्रयोगाणां गवेषणं करणीयं च। मित्राणि, "संस्कृतस्य रक्षणाय बद्धपरिकरा वयम्। संस्कृते: प्रवर्धनाय दृढनिधिर्भवेदिदम्"। जयतु संस्कृतं  जयतु भारतम्। ,🙏

Friday, October 5, 2018

महात्मागान्धिने परमोन्नत पौरत्वबहुमतिं समर्पयितुम् अमेरिक्काराष्ट्रम्। 

   वाषिङ्टण्> महात्मागान्धिने परमोन्नत-पौरत्वबहुमतिं समर्पयितुम् अमेरिक्काराष्ट्रस्य प्रतिनिधिसभया निश्चितम्। चत्वारः भारतवंशजाः सन्ति प्रतिनिधिसभायाम्। शान्तिम् अहिंसां च प्रसारयितुं गान्धिना कृतस्य यत्नस्य कृते भवति अयं समादरः। कोण्ग्रषणल् गोल्ड मेडल् इति विख्यातोऽयं पुरस्कारः अंगुलीपरिमिताः विदेशिनः एव प्राप्ताः। मदर् तेरेसा, नेल्सण् मण्डेल, पोप् जोण् पोल्२ , दलैलाम, आङ्‌ साङ्‌ सूची, मुहम्मद्‌ यूनस्, षिमोण् पेरेस् च भवन्ति भूतपूर्वाः आदरभाजः वैदेशिकाः।
 तैलेन्धनमूल्ये २.५ रुप्यकस्य न्यूनता 
-बिजिला किषोरः        
      नवदिल्ली > केन्द्र मन्त्री अरुण् जेट्ली महोदयेन उद्घोषितं यत् इन्धनमूल्ये २.५० रुप्यकं न्यूनीकरिष्यति इति। १.५० रुप्यकस्य करमपि न्यूनीकर्तुं प्रयतते केन्द्रसर्वकारेण। पेट्रोलिय संस्थयापि रुप्यकमेकं न्यूनीक्रियते इति धनमन्त्रिणा सूचितम्। अनेन २१०००कोटि रुप्ययकाणां नष्टो भविष्यतीति गणना। क्षणेनैव भवत्ययं परिवर्तनम्। राज्यस्तरीय सर्वकारेणापि करे २.५० रुप्यकं न्यूनीकरणीयमिति मन्त्रिणा उद्घोषितम् वर्तते।
एस् ४०० विमानवेधप्रक्षेपास्त्राणि भारत - रूस् सन्धिपत्रहस्ताक्षरीकरणम् अस्मिन् सप्ताहे।
     नवदिल्ली >  भारतं रूस् राष्ट्रात्  कोटिशः रूप्यकाणां  विमानवेधप्रक्षेपास्त्राणि क्रीणीतुं सन्धिपत्रे हस्ताक्षरीकरणाय सिद्धमिति रूस् राष्ट्रेण स्थिरीकृतम्। रूस् राष्ट्रपतेः व्लादिमिर् पुतिनस्य भारतसन्दर्शनवेलायां पञ्चशताधिकं कोटिडोलर् मितानाम् अभिसन्धौ हस्ताक्षरं क्रियते। तद्राष्ट्रेण २००५ तमे संवत्सरे  विकसितानि 'एस् - ४०० ट्रयम्फ्' नामकानि पञ्च  विमानवेधप्रक्षिपास्त्राणि एव भारतेन क्रेतुम् उद्दिष्टानि।
    ४०० कि मी परिमिते वर्तमानानि ३०० लक्ष्यान् एकस्मिन्नेव समये प्रत्यभिज्ञातुं तथा ३६ शत्रुविमानानि एकस्मिन् काले एव पातयितुं च शक्यानि भवन्ति एतानि मिसैल् शस्त्राणि। ओक्टोबर् ४, ५ दिनाङ्कयोरेव पुतिनस्य भारतसन्दर्शनम्। रूस् शासनात् युद्धमहानौकाः अपि क्रीणातुं सन्धिपत्रं  भविष्यतीति उच्यते।
रञ्जन् गोगोय् भारतस्य मुख्यन्यायाधीशः। 'मेन्षनिंङ्' सम्प्रदायं समाप्य प्रथमपरिष्कारः। 
    नवदिल्ली  >  भारतस्य ४६ तम मुख्यन्यायाधिपरूपेण न्याय. रञ्जन् गोगोय् स्थानं स्वीकृतवान्। राष्ट्रपतिभवने सम्पन्ने समारोहे राष्ट्रपतिः रामनाथकोगिन्दः शपथोक्तिम् अकारयत्। स्थानारोहणानन्तरं प्रथमे दिने एव प्रथमं परिष्कारम्  आयोजितवान् यत् व्यवहारान् नीतिपीठस्य सत्वरश्रद्धामानीय क्रियमाणम् 'अनुक्रमणिकाकरणं' [Mentioning] सम्प्रदायः तेन समापितः। 
       परिसमाप्तिं प्रतीक्ष्यमाणानां व्यवहाराणां विधिनिर्णये एव स्वस्य प्रथमपरिगणना इति गोगोय् वर्येण कथितम्। सर्वेष्वपि विषयेषु सार्वजनीनतात्पर्याभियाचिकासमर्पणे अपि सः असंतृप्तिं प्रकटितवान्।

Thursday, October 4, 2018

इन्टोनेष्याराष्ट्राय भारतसाहाय्यः। भिषजः अवश्यवस्तूनि च 'पालु' नगरं प्रति।
     नवदिल्ली> भूकम्पेन 'सुनामी' इति जलोपप्लवेन नाशिताय इन्तोनेष्याराष्ट्राय भारतस्य त्वरित-साहाय्ययम् । अवश्यवस्तुभिः भिषक्भिः सह नाविकसेनायाः तिस्रः नौकाः व्योमसेनायाः विमानद्वयं च इन्दोनेष्यराष्ट्रं प्रति प्रस्थिताः। भवननिर्माणवस्तूनि ३०००० लिट्टर् पेयजलम् ५०० लिट्टर् मितं क्षीरम् १५०० लिट्टर् फलरसः, ८०० किलोमितम् 'बिस्कट्' च नीयन्ते। ओक्टोबर् मासस्य षष्टे दिनाङ्गे मध्यसुलवेसिं प्राप्स्यन्ते इति विदेश मन्त्रालयेनोक्तम्।
     भिषजः भेषजः पेयजलं आतुरालयोपकरणानि च विमान मार्गेण प्रेषितन्तः प्रधानमन्त्रिणा नरेन्द्रमोदिना सह इन्तोनेष्य राष्ट्रपतेः  जोको विडोडस्य दूरवाणी सम्भाषणानन्तरमेव ऐषमः साहाय्यः।

इन्टोनेष्याराष्ट्रे सुनाम्यनन्तरम् अग्निपर्वतस्फोटनम्
-बिजिला किषोरः
     जक्कर्ता > भूप्रकम्पनान्तरसुनाम्यां २५००जनानां जीवादानानन्तरं सुलवेस्यायां पालुद्वीपे सोप्ठन अग्निपर्वतस्फोटनं प्रवृत्तम्।  सुनाम्या विनष्टपालु नगरतः २००की मी दूरे वर्तते अग्निपर्वतप्रदेशः। स्फोटनेन ६००मीटर् औन्नत्यां धूमाग्निकणाः प्रसृताः । ततः जनान् सुरक्षितस्थानं प्रति न नीतम्। स्फोटनेनोत्पन्न धूमात् व्योमयानानां नाशं सम्भवतीन्त्यतः यानगतागतं स्थगितम्। २५ कोटि जनाः वर्तते इन्टोनेष्यायाम्। तत्र १२० अग्निपर्वताः अपि वर्तन्ते। 
कृषकपथसञ्चलनम् अवरुद्धं , संघर्षः, चर्चा पराजिता।
    नवदिल्ली  >  केन्द्रसर्वकारस्य कार्षिकनयान् विरुद्ध्य 'भारतीय किसान् यूणियन्' संघटनेन दिल्लीं प्रति आयोजितं प्रतिषेधपथसञ्चलनं उत्तरप्रदेशसीमायां गासियाबादे अवरोद्धुं  आरक्षकदलेन कृतः यत्नः संघर्षे समाप्तः। आरक्षकाणां दण्डप्रयोगेन बाष्पोद्गमशस्त्रप्रयोगेन च  नैकाः कृषकाः सप्त आरक्षकाश्च व्रणिताः। आन्दोलनव्यापनसाध्यतां परिगण्य पूर्वदिल्ल्यां निरोधनाज्ञा प्रख्यापिता।
     सेप्तम्बर् २३ दिनाङ्के आसीत् उत्तरप्रदेशः हरियाणा राज्येभ्यः 'किसान् क्रान्ति यात्रा' नामकं पथसञ्चलनम् आरब्धम्। गान्धिजन्मदिने राजघट्टं प्रवेष्टुम् उद्यमः निरुद्धः। दिल्ली-गासियाबादराजमार्गं विप्रतिबन्धकैः आरक्षकाः निरोधितवन्तः। अत एव संघर्षः जातः।
     कृषकाणाम् अपेक्षाः - एम् एस् स्वामिनाथन् आचरणस्य आदेशाः पालनीयाः , इक्षुकृषकाणां कृते पेषणशालास्वामिभिः दातव्यानि अनशिष्टदेयानि लब्धुं सर्वकारक्रियाविधिः भवितव्यः, कार्षिकर्णं अपाकुरुत, इन्धनमूल्यम् ऊनीकुरुत इत्यादयः।

Wednesday, October 3, 2018

आधारपत्रारान्तर्गतानां परिवर्तनं नियन्त्रितम्।
       नवदिल्ली > आधारपत्रायोगेन (UDIAI) अधारपत्रान्तर्गतानां विवरणानां परिवर्तनम् नियन्त्रितम्। नाम जन्मतिथिः लिङ्गः च परिवर्त्य लेखनाय एव नियन्त्रणम्। जन्मतिथिः लिङ्गः एकवारं परिवर्तितुं शक्यते। नाम तु द्विवारं परिवर्तितुं शक्यते। इदानीं आधारपत्रे विद्यमानजन्मतिथिः एकस्य  संवत्सरात् अधिकतया सङ्गलनं वा व्यवकलनं वा न शक्यते। अधिकतया परिवर्तनम् अपेक्ष्यते चेत् मण्डल कार्यायालयेषु अवश्यप्रमाणपत्रेण सह साक्षात् गत्वा निवेदनं समर्पणीम्।  प्रमाणपत्रे प्रमाणत्वं न भाति चेत् आवेदकस्य प्रादेशिकक्षेत्रेषु अन्वेषणं कृत्वा एव परिवर्तनाय अनुज्ञा प्रदास्यते। भारते मण्डलकार्यालयाः अहत्य नव एव। 
अनुगृहीत बाहुलीनकलाकारः दिवंगतः
-बिजिलाकिषोरः
       तिरुवनन्तपुरम्  > तीर्थयात्रायां वाहनापघातेन व्रणितः प्रमुख बाहुलीनकलाकारः तथा संगीतसंविधायकः  बालभास्करः मङ्गल वासरे  प्रातः अनन्तपुरी आतुरालये मृत्युंगतः।
      हृदयाघातः भवति मरणकारणम्। पुत्री पूर्वमेव मृता। पत्नी तीव्रपरिचरणविभागे चिकित्सायाम्  अस्ति। सप्तदशवयसि संगीतसंविधानम्  आरब्धम्। अनेकानि चलनचित्राणि , 'आल्बं' च कृतवानयं महाशयः।  केन्द्रसाहित्याकादमी पुरस्कारः बिस्मिल्लाघान् पुरस्कारः युवसंगीतपुरस्कारः (२००८ तमे वर्षे ) च गृहीतवानयं महाशयः। अनन्तपुर्यां  समूहदर्शनानन्तरं संस्कारः करिष्यति।