OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, October 21, 2018

भारतीपूजा सुसम्पन्ना
बिजिलाकिषोरः
     तामरश्शेरी > तामरश्शेरी स्थानीयसमित्याः भारतीपूजा कार्यक्रमः रविवासरे प्रातः तामरश्शेरि लक्ष्मीनारायणमन्दिरे अभवन्। संस्कृतभारत्याः उत्तरसम्भागस्य कार्यदर्शी श्री रणजित् महाभागः मुख्यभाषणं कृतवान्। यत्र संस्कृतं नास्ति तत्र संस्कृतिः न भवति, अखण्डभारतस्य निर्मितिः तदा एव भवति यदा सर्वै सस्कृतेनभाषणं करोति। कार्यक्रमेस्मिन् पञ्चाशदधिकाः भागं गृहीतवन्तः। स्थानीयसमितेः अध्यक्षः श्री दामोदरः अध्यक्षपदमलंकृतवान्।कार्यदर्शी श्री उण्णिकृष्णः स्वागतं श्री जयदेवः कृतज्ञतां च समर्पितवन्तौ।
एन् डि तिवारी दिवं गतः। 

   नवदिल्ली  >  कोण्ग्रस् दलस्य विरिष्ठनेता तथा उत्तरप्रदेशस्य उत्तरखण्डस्य च भूतपूर्वः मुख्यमन्त्री एन् डि तिवारी [९३]  हृदयाघातेन दिवं गतः।  संवत्सराधिकेन सः रोगशय्यावलम्बी आसीत्। 
    अविभक्ते उत्तरप्रदेशे तिवारी त्रिवारं मुख्यमन्त्रिपदम् अलङ्कृतवान्। ततः उत्तरखण्डराज्यस्य मुख्यमन्त्री अभवत्। राजीव् गान्धिनः प्रधानमन्त्रित्वस्य अधीने केन्द्रमन्त्रिसभायां आर्थिक-वाणिज्य-विदेशकार्यविभागेषु मन्त्री आसीत्। आन्ध्रप्रदेशस्य राज्यपालपदं च अनेनालंकृतम्।
कृषकाणां ऋणधनम् बच्चन् महोदयेन प्रत्यर्पयते।  
यु पि राज्यस्य ८५० संख्यकानां कृषकाणां वित्तकोशस्य ऋणधनम् अमिताभ् बच्चन् महोदयेन प्रत्यर्पयते।
 मुम्बै> उत्तर प्रदेशस्य कृषकेभ्यः शान्ति-वाक्यमुक्त्वा महानटः अमिताभ् बच्चन् महोदयः। यु पि राज्यस्य ८५० कृषकाणां धनऋणानि अमिताभ् बच्चन् महोदयेन प्रत्यर्पयन्ते। समीपकाले महाराष्ट्रस्य  ३५० कृषकाणां ऋणानि तेन प्रत्यर्पितानि  इति महोदयस्य 'ब्लोग्' माध्यमतः ज्ञायते। स्वस्य ईदृशप्रवर्तनानि आराष्ट्रं कर्तुं प्रत्नः करोति  इति तेन ब्लोग् माध्यमे लिखितम्।

Saturday, October 20, 2018

मान् बुक्कर् पुरस्कारः अन्ना बेण्सिन् कृते।  
       - रम्या पी यू।            
            लण्डन्- अस्य वर्षस्य मान् बुक्कर् पुरस्कारः उत्तर अयर्लण्डस्थायै लेखिकायै अन्ना बेण्स् कृते। "मिल्क् मान्"(क्षीरविक्रेता) इति परीक्षणात्मकधारावाहिन्यै पुरस्कारः प्राप्तः। बुक्कर् पुरस्कारेण आद्रियमाणा प्रप्रथमा ऐरिष् लेखिका भवति अन्ना। लण्डने गैड्शालायाम् प्रवृत्ते कार्यक्रमे ब्रिटिशकिरीटाधिकारिणः चाल्सस्य भार्या कामिला पारकरः अन्नायै पुरस्कारं समर्पितवती। पञ्चाशत् सहस्रम्(५००००) ब्रिटिशपौण्ड् एव पुरस्कारधनम्। ब्रिटणतः अमरीकातः च द्वौ लेखकौ कानडातः एकश्च अन्नया सह पुरस्काराय अन्तिमपट्टिकायाम् आसन्। बेल्फास्ट् स्वदेशिन्याः अन्नायाः तृतीया धारावाहिनी भवति "मिल्क्मान्"। ऐरिष्पश्चात्तले प्रवृत्ता कथा एव धारावाहिन्याः इतिवृत्तम्।
राजस्थाने सिक्का रोगाणुबाधितानां संख्या १०९  अतिगता
       जयपुरम् > राजस्थाने  सिक्का रोगग्रस्तानां संख्या नवाधिकशतम्  अधिगताः। जयपुरे नूतनतया नवाः रोगग्रस्थाः। एक नवति रोगिणः समीचीनया चिकित्सया रोगान्मुक्तिः अभवत् इति राज्यस्थरीय स्वास्थ्यविभागेन आवेदितम्। रोगसंक्रमितप्रदेशेषु मशकनाशक प्रवर्तनानि  त्वरितरीत्या क्रियन्ते। राज्य राजधानीसमीपे शस्त्रीनगरे एव रोगाणु सङ्क्रमः अधिकतया व्याप्तःI सेप्तम्बर् मासस्य २१ दिनाङ्के आसीत् राजस्थानस्य  सिकारोगाणु सङ्क्रमणस्य प्रथमावेदनम् बहिरागतम्। ईडिस् ईजिप्ति मशकाः सिकारोगाणुव्यापनं कुर्वन्ति।  गर्भवत्यः स्त्रियः एव अणुव्यापनेन अधिकतया पीडिताः।

Friday, October 19, 2018

पञ्चाबे रेल् यानदुर्घटना - ५० अधिकाः जनाः हताः। 
    अमृतसर्   >  पञ्चाबराज्ये अमृतसरसमीपे धोबीघाट् मध्ये महती रेल् यानदुर्घटना। अत्र सम्पन्ने दसरा आघोषवेलायां रेल् यानं जनसमूहं प्रति उत्प्रविश्य पञ्चाशदधिकाः जनाः हताः। आघोषमनुबन्ध्य रावणरूपं रेल् मार्गे अग्निसात्क्रियमाणम् आसीदिति श्रूयते। 
    धोबीघाट् मध्ये सायं ६.३० वादने आसीत् दुर्घटना। तत्र इदानीं महान् जनरोषः अनुभूयते।
सीमारक्षणाय नूतनविद्या, २४ होरापर्यन्तम् सुरक्षाकार्याय घटीबन्धनं नावश्यकम्।
          बिक्कानीर् >सीमारक्षणाय नूतनविद्यायाः नियोजनायै  केन्द्रसर्वकारः उद्युक्तो भविष्यति इति आभ्यन्तरमन्त्रिणा राजनाथसिंहेन उक्तम् । अनेन अहर्निशं सुरक्षायै सैनिकानां क्लेशः लधूकर्तुं शक्यते । जम्मुकाश्मीरे प्रयोगं कृत्वा  विजयं प्रप्ता भवति (Integrated boarder management system)
इयं विद्या। सीमा सैनिकान्‌ प्रति अयुधपूजापर्वणि भाषमाणः आसीत् राजनाथसिंहः। सीमायां परिधायकं निर्माय सीमापालनं सुकरं सफलं च मा भविष्यतः I किन्तु नूतनातन्त्रांशविद्या सीमारक्षणं पूर्णतया सफलं करिष्यति इत्यपि मन्त्रिणा उक्तम्।

Thursday, October 18, 2018

युवतीप्रवेशः - शबरिगिरौ सङ्घर्षः , निरोधाज्ञा। 
    पम्पा >  शबरीशमन्दिरे अपि वयोभेदं विना महिलाः प्रवेष्टुम् अर्हाः इति सर्वोच्चन्यायालयस्य विधिं प्रतिरुध्य शबरिगिरिपरिसरे सङ्घर्षान्तरिक्षः। सङ्घर्षः परिधिम् उल्ललंघयत् इत्यतः चतुर्षु प्रदेशेषु जनपदाधिकारिणा निरोधाज्ञा प्रख्यापिता। 
      निलक्कल् , इलवुङ्कल्, पम्पा , सन्निधानम् इत्येतेषु प्रदेशेषु एव निरोधाज्ञा उद्घोषिता। ह्यः निलक्कल् प्रदेशे सम्पन्ने सङ्घर्षे चतस्रः वनिताः अभिव्याप्य ११ माध्यमप्रवर्तकाः आहताः। अधुनातनकाले वर्तमानान् आचारान् उल्लङ्घयन् शास्तृदर्शनं कर्तुम् काश्चन महिलाः आगतवत्यः इति संघर्षस्य हेतुः।
सम्प्रतिवार्ताः -संस्कृताभियानम्
प्रा.डॉ. विजयकुमार: मेनन्  

नमस्ते,
 सर्वेभ्य: मित्रेभ्य: विजयदशमी-शुभकामना:।
    जीवने ध्येयप्रवेश: नाम किम्? अहं संस्कृतक्षेत्रं प्रविष्टवान् इति न। अपि तु मम जीवने  संस्कृतभाषा प्रविष्टा इति। मदर्थं संस्कृतम् इति प्रारम्भ: , संस्कृतार्थम् अहं इति प्रगति:। मदर्थं कृतानि कृत्यानि तात्कालिकानि,संस्कृताय कृतानि कृत्यानि इहपरपाथेयानि, अनन्त-चिरन्तनानन्ददायकानि च। मित्राणि, कविवाक्यं स्मराम: -" एहि रे समर्पयेम मित्र! मातृचरणयो: तनुतृणं धनचयं, भवतु रुधिरतर्पणम् "। जयतु संस्कृतं जयतु भारतम् । 
'मी टू' विवादः - एम् जे अक्बरः स्थानभ्रष्टः। 
नवदिल्ली  >  'मी टू' नामकस्य लैङ्गिकपीडनारोपणप्रचरणस्य अंशतया आरोपणविधेयः केन्द्रविदेशकार्यसहमन्त्री एं जे अक्बरः स्थानं त्यक्तवान्। आरोपणम् उन्नीतवतीं माध्यमप्रवर्तकां प्रियारमणीं विरुध्य अक्बरेण समर्पितः मानहानिव्यवहारः नीतिपीठेन परिगणनाप्रायः इत्यस्मिन् काले एव तस्य स्थानत्यागः। 
    १५ वनितामाध्यमप्रवर्तकैः  इतःपर्यन्तं एं जे अक्बरं विरुध्य लैङ्गिकपीडनारोपणं कृतम्। आरोपणानि केवलं राजनैतिकप्रेरितानीति मन्त्रिणा पौनःपुन्येन उक्तमासीदपि भा ज पा दलस्य सर्वकारस्य च समम्मर्देन एव त्यागपत्रं समर्पितमिति विश्वस्यते। राजनैतिकप्रेरितम् आरोपणमिति न्यायेन  गतदिनपर्यन्तं स्थानत्यागविषये सः विमुखः आसीत्।

Wednesday, October 17, 2018

संस्कृतमेवजीवनम्-आमुखपटले संस्कृतज्ञानप्रश्नोत्तरी- प्रतियोगिता सम्पन्ना
     सीवान(बिहारप्रान्त)। मानवमात्रस्य प्राचीनतमः इतिहासः संस्कृतभाषायामेव सुरक्षितः। एषा भाषा ज्ञानेन विज्ञानेन च पूर्णा वर्तते। अद्यापि भारतीयजीवने संस्कृतभाषायाः अपरिमित प्रभावो$वलोक्यते। संस्कृतभाषायाः प्रचाराय प्रसाराय च रविवासरे संस्कृतमेवजीवनम् -आमुखपटले संस्कृतज्ञानप्रश्नोत्तरी प्रतियोगिता आयोजिता।बिहारस्य सीवानतः डा० सुशील नारायण तिवारीवर्यः अस्याः प्रतियोगितायाः आयोजकः।डा० तिवारीवर्यः उक्तवान् यत् संस्कृतभाषायामेव ज्ञानविज्ञानयोः निधिः विद्यते।अस्माकं प्राचीन - मौलिक-संस्कृतिरस्यामेव प्रतिबिम्बिता दृश्यते।न तु केवलाः भारतीयाः प्रत्युत् पाश्चात्याः विद्वांसो$पि संस्कृतं श्रद्धावन्तः सन्ति।प्रतियोगितायाः सञ्चालनं महेशकुमारेण कृतम्। प्रतियोगितायां सहयोगं दीपकवात्स्यः महेशकुमारश्च कृतवन्तौ।
 विजयकुमारशर्मा, प्रथमः|                      सुनीलकुमारशर्मा, द्वितीयः|                 रजनीशकुमारपाण्डेयः ,तृतीयः|
          भौमवासरे(१६/१०/१८) पुरस्कारस्य उद्घोषणा अभवत्। तत्र प्रथमस्थाने विजयकुमारशर्मा (हरियाणातः), द्वितीयस्थाने सुनीलकुमारशर्मा(राजस्थानतः), तृतीयस्थाने रजनीशकुमारपाण्डेयः (विहारतः) क्रमशः वर्तन्ते। समेभ्यः विजेतृभ्यः पुरस्कारप्रायोजकेन चिन्मयसुशीलेन(विहारतः) पुरस्कारत्वेन अतीवोपयोगिपुस्तकानि दास्यन्ते।
खषोगिनः तिरोधानं - अभ्युपगमाय सौदिराष्ट्रम्। 
    वाषिङ्टण्  >  वरिष्ठः माध्यमप्रवर्तकः जमाल् खषोगी व्यापादित इति अपराधाङ्गीकारं स्वीकर्तुं सौदीराष्ट्रेण सन्नद्धमस्तीति सूचना। तुर्कीराष्ट्रस्थे सौदीस्थानपतिकार्यालये कृतायाः परिपृच्छायाः  मध्ये खषोगी हतः इति पापनिवेदनं सौदीराष्ट्रेण सिद्धमानमस्तीति सि एन् एन्, न्यूयार्क टैंस् इत्येताभ्याम् अन्ताराष्ट्रियमाध्यमाभ्यां निवेद्यते। 
    सौदी प्रशासनस्य तीक्ष्णः विमर्शकः , 'वाषिङ्टण् पोस्ट्' नामिकायाः पत्रिकायाः पङ्क्तिकारश्च जमाल् खषोगी ओक्टोबर् द्वितीयदिनाङ्के एव तिरोभूतः अभवत्। एतत्सम्बध्य तुर्कीस्थे सौदीस्थानपति कार्यालये तद्राष्ट्रयोः संयोजितपरिशोधना कृता आसीत्। अमेरिका राष्ट्रपतिः डोणाल्ड् ट्रम्पः अपि खषोगिनः हत्यामधिकृत्य सूचनां कृतवान्।
नवकेरलनिर्माणाय आर्थिकसमाहरणं -  मन्त्रिणां विदेशगमनम् अपाकृतम्। 
    मुख्यमन्त्री अद्य यू ए ई राष्ट्रं प्रतिष्ठति। 
अनन्तपुरी  >  प्रलयदुरितानन्तरं नवकेरलनिर्माणाय प्रवासिकेरलीयेभ्यः आर्थिकयोगदानं समाहर्तुं केरलस्य १७ मन्त्रिणां विदेशयात्रा अपाकृता। मुख्यमन्त्रिणं विहाय अन्येषां सर्वेषां मन्त्रिणां विदेशयात्रायै केन्द्र विदेशमन्त्रालयस्य अनुज्ञा न लब्धा इत्येव हेतुः। मुख्यमन्त्री पिणरायि विजयः अद्य यू ए ई राष्ट्रं प्रति प्रस्थास्यति। 
     मुख्यमन्त्रिणं विना १७ मन्त्रिणः विदेशगमनार्थं केन्द्रसर्वकारस्य अनुज्ञायै अपेक्षिताः यात्रार्थं सन्नद्धाः च  आसन्। किन्तु  मन्त्रिणां सन्दर्शनम् आयोजितवत्यः प्रवासिकेरलीयसंस्थाः नैकाः अपञ्जीकृताः अनङ्गीकृताः वा इति कारणेन आसीत् केन्द्रसर्वकारस्य अनुज्ञातिरस्कारः।
जम्मूकश्मीरे शान्तिपूर्णं मतदानम्
-पुरुषोत्तमशर्मा
      श्रीनगरम् > जम्मू-कश्मीरे नगरनिगमानां निर्वाचनाय मतदानं पर्यवसितम्। चतुर्थान्तिमचरणस्य मतदानं मङ्गलवासरे शान्तिपूर्णरीत्या सम्पन्नम्। मतगणना शनिवासरे भविष्यति। श्रीनगरस्य नगरपालिकाया: गान्दरबलनिकायसमितेश्च षड्त्रिंशत् आसनानां कृते चतु: दशमलव द्वि प्रतिशन्मितं मतदानमभवत्। स्रोतोभिस्सूचितं यत् गान्दरबलक्षेत्रे एकादश दशमलव त्रि प्रतिशतन्मितम् अथ च श्रीनगरे प्रतिशतं ४ मितं मतदानं सञ्जातम्।

Tuesday, October 16, 2018


सम्प्रतिवार्ताः -संस्कृताभियानम्
प्रा.डॉ. विजयकुमार: मेनन्  

नमस्ते, स्वीकृतस्य लक्ष्यस्य पूर्त्यर्थं,सातत्येन परिश्रमाय च ध्येयबद्धता अनिवार्या। सा बद्धता न व्यक्त्यै समर्पिता भवेत्, न च स्थानाय समर्पिता भवेत्, न वा कार्यविशेषाय समर्पिता। बद्धता ध्येयनिष्ठा, संस्कृतनिष्ठा च भवेत्। संस्कृतसेवायै  बद्धता, समाजसंस्कृतिधर्माणां संरक्षणाय संवर्धनाय च या बद्धता, सा समयसीमायुक्ता न। सा तु जीवनस्य प्रतिबद्धता। मित्राणि, वयं संस्कृतध्येयबद्धा: भवेम ।जयतु संस्कृतं जयतु भारतम् ।

Monday, October 15, 2018

अतिमानुषाः आगमिष्यति, मनुष्याः नाशं यास्यन्ति -स्टीफन् होकिङ्स्।
      लण्टन्> जनितकांशे व्यत्ययं कृत्वा विसृष्टेन अतिमानुषसमूहेन मनुजवंशः नाशयिष्यते इति वैज्ञानिकेन स्टीफन् होक्किङ्सेन उच्यते। विगते मार्च् मासे आसीत् होकिङ्स् वर्यस्य निधनता। ततः पूर्वं तेन लिखिते लेखे एव इदं प्रवचनम्। अस्य लेखानां समाहारः विलम्बं विनैव प्रकाशयिष्यति।
    अतिमानुषस्य जन्मना मनुष्या: दुर्बलाः तथा अप्रसक्ताः च भूत्वा अप्रत्यक्षाः भविष्यन्ति इति स्टीफन् होकिङ्सेन उच्यते । आयुर्दैर्घ्यः प्रतिरोधशक्तिः स्मृतिशक्तिः च प्राप्तुं योग्यं जनितक व्यत्ययनि संबन्ध्य सर्वविधज्ञानानि विलंबं विना एव समार्जयिष्यन्ति मानवाः । मनुष्याणां नाशाय भविष्यति ईदृशानुसन्धानः इति तस्य अभिमतम्।
अलहबादस्य प्रयाग इति पूर्वनामस्वीकारः। 
     लख्नौ> अलहबाद् जनपदस्य प्रयागराज् इति नामकरणं भविष्यति मुख्यमन्त्री योगी आदित्यनाथः। २०१९ जनुवरिमासादारभ्य  मार्च् मसपर्यन्तं अनुवर्त्यमानायां कुम्भमेलायां प्राचीननाम अस्य पुनस्वीकरणं भविष्यति। तदर्थं अनुज्ञायै प्रयतते इति मुख्यमन्त्रिणा योगी आदित्यनाथेन उच्यते। आगामि विधानसभामेलने निर्णयः भविष्यति। कुम्भमेलायै सुविधाः सज्जाः भवन्ति इत्यपि तेन संसूचितम्।
ऐक्यराष्ट्रसभया सुरक्षासंस्थापुनर्निमाणं करणीयम् इति भारतम्।
-बिजिलाकिषोरः
      जनीवा> आतङ्कवादः,अभयार्थिसमस्या, पर्यावरणव्यत्‍ययः च बहुप्राधान्यमर्हतीत्यतः ऐक्यराष्ट्रसभायाः सुरक्षासंस्था झटिति पुनर्निर्मातव्यमिति भारतस्य निर्देशः। ऐक्यराष्ट्रसभायां भारतस्य प्रतिनिधिना श्री सयिद् अक्बर् महोदयेन इदम् उद्बोधितम्। अधुना विद्यमानाायं व्यवस्थायां परिमितिर्विद्यतेत्यतः परिवर्तनमनिवार्यमिति तस्य मतम्। सुरक्षायाः  विषये विद्यमाना न्यूनता शीघ्रमेव परिवर्तनीया भवति।
अभयार्थिसमस्या तथा आतङ्कवादश्च सविशेषश्रद्धां अर्हन्ति। अतः अलसतां विना प्रयत्नः करणीयः। तदर्थं  सर्वे राष्ट्राः एकीभूय अग्रेगन्तव्याः इत्यवोचत्I

Sunday, October 14, 2018

हिन्दुस्थानि सङ्गीतज्ञा अन्नपूर्णादेवी दिवंगता। 
   मुम्बई  >   पद्मभूषणपुरस्कारजेत्री विख्याता हिन्दुस्थानीसङ्गीतज्ञा अन्नपूर्णादेवी [९१] स्मृतिपथं गता। हिन्दुस्थानीसङ्गीतमण्डलस्य मुख्यधारासु अन्यतमायाः 'मय्हर् कराना' इत्यस्यायाः आचार्यस्य बाबा अलावुदीन् खानस्य पुत्री तथा सित्तार् विदग्धस्य पण्डिट् रविशङ्करस्य भूतपूर्वपत्नी च अस्ति अन्नपूर्णादेवी। १९७७ तमे संवत्सरे पद्मभूषण् , १९९१ तमे केन्द्रसङ्गीत नाटक अक्काटमी पुरस्काराभ्याम् आदृता आसीत्।
इन्दोनेष्याराष्ट्रे पुनरपि प्रलयः २२ जनाः हताः।
       जक्कार्ता> इन्दोनेष्याराष्ट्रे पुनरपि जायमाने  प्रलये द्वाविंशति जनाः मारिताः। मृत्युमुपगतेषु अधिकाः विद्यालयछात्राः एव। पञ्चदश जनाः अप्रत्यक्षाः अभवन्I मीट्टर् द्वयं यावात् जलम् उपरि आगतम्। सुमात्रायाः मुवारसलदि ग्रामस्य इस्लामिक विद्यालयस्य एकादश छात्राः जलोपप्लवे मृताः। मृत्पङ्कादीनाम् अधस्थात्  मृतशरीराणि लब्धानि। इन्दोनष्यायाः उत्तरपश्चिमभागात्‌ ५०० गृहाणि जलेन निसृताः सन्ति। त्रयः सेतवः भग्नाः च।

Saturday, October 13, 2018

SampratiVartah |Sanskrit News|Episode 91| 2018 October13



ए टि एम् यन्त्राणि प्रभञ्ज्य ३५ लक्षं रूप्यकाणि चोरितानि। 
   ए टि एम् यन्त्राणि प्रभञ्ज्य ३५ लक्षं रूप्यकाणि चोरितानि। 
कोच्ची  >  केरले द्वयोः जनपदयोः राजवीथीपार्श्वे वर्तमानानि धनपूरितानि 'ए टि एम्' यन्त्राणि भञ्जयित्वा एकस्यामेव निशायां पञ्चत्रिंशत् लक्षं रूप्यकाणि अपहृतानि। तृश्शिवपेरूर् , एरणाकुलं जनपदस्थयोः द्वे एटिएम् यन्त्रे 'ग्यास् कट्टर' नामकमुपकरणमुपयुज्य भञ्जनं कृत्वा एव ३५ लक्षं रूप्यकाणि स्तेयानि। कोट्टयम् एरणाकुलं जनपदस्थेषु इतरेषु ए टि एम् यन्त्रेष्वपि चौर्यश्रमः तस्यामेव रात्रौ  कारितः च। 
     सर्वेषां लुण्ठनश्रमाणां पृष्ठतः एक एव संघः प्रवर्तित इति सि सि टि वि दृश्यैः अनुमातुं शक्यत इति आरक्षकाधिकारिभिः उक्तम्। एरणाकुलस्थे इरुम्पनं प्रदेशस्थात् एस् बि ऐ वित्तकोशस्य  धनस्वीकरणयन्त्रात् २५ लक्षं , तृश्शूर् कोरट्टी स्थानात् यन्त्रात् [सौत्तिन्ड्यन् बैंक् ए टि एम्] १०.६० लक्षं रूप्यकाणि च चोरितानि। चोराः इतरराज्यस्थाः इति आरक्षकाणां प्राथमिकनिगमनम्। 
    कोट्टयस्थात् चोरितेन केनचित् ट्रक् यानेन चतस्रः होराः अटनं कृत्वा एव लुण्ठकाः चौर्यं कृतवन्तः इति अनुमीयते। चोरितं यानं चालक्कुटी प्रदेशे त्यक्तरूपेण दृष्टममस्ति।
विरामं मा स्वीकुरु, सदा सिन्निहितो भव - सर्वोच्च न्यायालयस्य शुद्धीकरणाय मुख्यन्यायाधीशः । 
    नवदिल्ली> न्यायालयस्य प्रवृत्तिदिनेषु विरामं मा स्वीकरोतु। प्रवर्तनकाले न्यायालयप्रकोष्टे सदा  सिन्निहितो भवतु। स्वकर्मसु श्रद्धा दातव्या। नियमसंविधानं अलीकविमुक्तंकुरु। सर्वोच्चन्यायालयस्य मुख्य-न्यायाधीशत्वपदं स्वीकृत्य रञ्जन् गोगोय् वर्येण  दिनद्वयानन्तरं दृश्यसुविधाम् उपयुज्य उच्चन्यायालयस्य मुख्य-न्यायाधिपैः साकं कृते मेलने  उक्तमासीत्। न्यायव्यवहारस्य अनिश्चितत्वम् नियम व्यवस्थायै  अपकीर्तिं जनयति इति तेन न्यायाधिपाः स्मारितवन्तः। न्यायालयस्य प्रवर्तनेषु श्रेष्ठत्वलब्ध्यर्थं दशविधमार्गाः तेन निर्दिष्टाः।

Friday, October 12, 2018

गङ्गास्वच्छतायै अनशनसत्यग्रहं कुर्वन् परिस्थितिप्रवर्तकः दिवङ्गतः।
    हरिद्वारम् > गङ्गानद्याः स्वच्छतायैः गतचतुर्मासं यावत् अनशनसत्यग्रहं कुर्वन्  परिस्थितिप्रवर्तकः स्वामी ज्ञानस्वरूप-सानन्दः (प्रो० जि डि अगरवालः)(८७) दिवङ्गतः। Clean Ganga इति आवश्यं उक्त्वा मासचतुष्टयं यावत्‌ अनशनसत्यग्रहे आसीत् सः। ऋषिकेशस्थ एयिम्स् आतुरालये गुरुवासरे मध्याह्ने आसीत् तस्य देहत्यागः। हृदयाघातः एव मृत्युकारणम्।
     अनशनकाले मधुनायुक्तजलम्   पीत्वा आसीत् तस्य जीवनयापनम्। गङ्गानद्याः खनन-जलवैद्युत परियोजनाः बन्धनीयाः इत्यासीत् तस्य अभिलाषः। काण्पूरस्थ ऐ ऐ टि मध्ये आचार्यः आसीत् सःI गङ्गानद्याः संरक्षणाय एषः बहुवारं समरं कृतवानासीत् । स्वास्थ्यहानिकारणेन उत्तराखण्डस्य आरक्षकैः महोदयः आतुरालयं नीतः आसीत्। 
जलोपप्लवः - भूस्वामिनां कृते गृहनिर्माणाय लक्षचतुष्टयं दातुम् आदेशः कृतः। 
   अनन्तपुरी >  केरले जलोपप्लवदुरन्ते विशीर्णगृहेषु येषां स्वकीया भूमिरस्ति  तेषाम् एकैकस्मै गृहनिर्माणाय चतुर्लक्षं रूप्यकाणि दातुं जनपदाधिकारिणां कृते उत्तरदायित्वं कृत्वा  केरलशासनेन आदेशः कृतः। भूस्वामिनः ये वर्तन्ते, ते साहाय्यद्रव्याय जनपदाधिकारिणं प्रति अपेक्षां समर्पयेयुः। 
    प्रलयदुष्प्रभावे  यानि भवनानि पूर्णतया नाशितानि तथा प्रतिशतं पञ्चसप्तत्यधिकं विशीर्णनं सम्भूतानि तेषां कृते एव दलद्वयेन चतुर्लक्षं रूप्यकाणि उपलभ्यानि। नाशितानां गृहाणां समग्रवृत्तान्तः सर्वकारस्य तद्देशविभागेन समाकलितः अस्ति। 
    १६,६६१ गृहाणि प्रलये पूर्णतया विशीर्णानि। ९५४ जनानां गृहाणि तत्स्थानैः सह विनष्टानि। विशीर्णानां गृहाणां निर्माणं पुनरुद्धारणप्रवर्तनं च त्वरितरीत्या करणीयमिति मुख्यमन्त्रिणा पिणरायि विजयेन समाकारिते अवलोकनयोगे तेन निर्दिष्टम्।