सङ्गीतज्ञा पारश्शाला पोन्नम्माल्, गानरचयिता पूवच्चल् खादरश्च दिवंगतौ।
९४ वयःपर्यन्तं पोन्नम्माल् वर्या विविधस्थानेषु सङ्गीतालापकार्यक्रमान् अवतारितवती। कोट्टक्ककं नवरात्रिमण्डपे प्रथमतया सङ्गीतकार्यक्रमम् अवतारितवती महिला इति बहुमतिः तस्याः नाम्नि वर्तते। २०१७ तमे पद्मश्री, २००९ तमे स्वातिपुरस्कारः, केन्द्र-संगीत-नाटक-अक्कादमी-पुरस्कारः, इत्यादिभिः बहुभिः पुरस्कारैः समादृता आसीत्।
पूवच्चल् खादरः।
अपारे काव्य संसारे कविरेव प्रजापतिः।



