OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, June 12, 2021

 भारत - बङ्लादेशसीमनि चीनस्य नागरिकः  संग्रहीतः।

      नवदिल्ली> सन्देहजनकसाहचर्येषु भारत-बङ्लादेशसमीपसीमनि  दृष्टः चीनस्य नागरिकः सुरक्षासेनया संग्रहीतः। पश्चिमवङ्गदेशसीमनि सन्देहजनकप्रवर्तनेषु व्यापृतः हान् जुन्वे एव संग्रहीतः इति भारत-सीमारक्षासेनया आवेदितम् ।

 बङ्लादेशस्य प्रवेशानुमतिपत्रसहितस्य तस्य सकाशात् चीनस्य पारपत्रम्, अङ्कसङ्गणकं, त्रीणि सिं पत्राणि इत्यादीनि सुरक्षासेनया संग्रहीतानि। गुरुवासरे प्रातः एषः संग्रहीतः इति आवेद्यते। तस्मै आङ्गलेयं न जानाति इत्यतः मान्डरिन् भाषायां प्रवीणं अधिकारिणं निमन्त्र्य परिप्रश्नं करोति। गुप्तान्वेषणविभागः अपि  परिप्रश्नं  कुर्वन्नस्ति।  अस्य बङ्लादेश-सन्दर्शनस्य उद्देश्यं किम् इति ज्ञातुम् अधिकारिणः प्रयत्नं कुर्वन्ति। विशदरीत्या परिप्रश्नं कृत्वा एव कार्याणि अवगन्तुं शक्यते इति अधिकारिणः वदन्ति। तेन साकं अन्यबड्लादेशजनाः अपि भारतीयसीमां उल्लङ्घयितुं प्रयत्नाः कृताः किं  इति सुरक्षासेना परिशोधयन् अस्ति।