OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, June 14, 2021

 साहचर्यप्रमाणानि चीनं विरुद्धय। वैराणुप्रसरणं  व्यूहान् जनपदात् एव- डो. मोनाली रहन्कारः।

  व्यूहान्-परीक्षणशालायां सञ्चित्य संरक्षितः सार्स् को वि २ वैराणुः  अप्रतीक्षतया प्रसार्य कोविड्-१९ आविर्भावस्य हेतुरभवत् इति  भारतीयवैज्ञानिका दृढीकृतवती। कोविडस्य उद्भवस्थानम् अधिकृत्य आगोलतले गवेषणपरीक्षणानि अनुवर्तमाने अवसरे अस्मिन् कोविड्वैराणुः प्रकृत्या जातः इति ऊहः अविश्वसनीयः इति पूनादेशस्य अघार्कर् रिसर्च इन्स्टिट्यूट् बयो एनर्जी संस्थायाः वैज्ञानिका डोक्टर् मोनाली रहन्कार् सूचयति। साहचर्यप्रमाणानि चीनस्य उत्तरदायित्वं दृढीकुर्वन्ति तदपि तेषां सकाशात् जातानि गुरुतराणि स्खालित्यानि  आच्छादयितुं चीनस्य राष्ट्राधिकारिणां सम्मर्दः अन्वेषणसंघाङ्गानां उपरि जायमानः आसीत् इत्यपि तया स्पष्टीकृतम्।  अस्मिन् विषये चीनेन लोकसमक्षं न्यायरहितानि बहूनि वादानि प्रस्तुतानि सन्ति इत्यपि सा अवोचत्। बहुनि साहचर्यप्रमाणानि सन्ति चेदपि वैराणोः आविर्भावः चीनस्य परीक्षणशालायाः वा न वा इति अन्वेषणसंघेन अतिचातुर्येण आच्छादितः इति लोकस्वास्थ्यसंघटनस्य आवेदने सुव्यक्तं दृश्यते इति मोनाल्या निगदितम्।