OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, June 19, 2021

 अन्टोणियो गुट्टरसः पुनरपि यू एन् सचिवमुख्यः।

 न्यूयोर्क्> संयुक्तराष्ट्रसभायाः सचिवमुख्यरूपेण अन्टोणियो गुट्टरसः द्वितीयवारमपि पदं स्वीकृतवान्। गतदिने रक्षासमित्याः उपवेशने ऐककण्ठ्येन आसीत्तस्य चयनम्। 

  पोर्चुगलराष्ट्रस्य प्रधानमन्त्रिपदे विराजितः गुट्टरसः २००५ तः २०१५ पर्यन्तं यू एन् अभयार्थिक्षेमसंस्थायाः अधिकारी आसीत्। तदनन्तरं सः संयुक्तराष्ट्रसभायाः सचिवमुख्यरूपेण अवरोधितः। बृहद् वा लघु वा भवतु सर्वेषां राष्ट्राणां मध्ये मिथः विश्वासं सौहृदं च संवर्धयितुम् सर्वं करिष्यामीति द्वतीयवारस्थानलब्ध्यनन्तरं तेन प्रोक्तम्।