OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, June 21, 2021

 ब्रसीले कोविड्मरणानि पञ्चलक्षमतीतानि; निस्संगतया सर्वकारः। 

   रियो डि जनैरो> रोगव्यापने तीव्रे, वाक्सिनीकरणे मन्दे च ब्रसीलराष्ट्रे कोविड्बाधया मृतानां संख्या ५लक्षमतीता। यू एस् राष्ट्रस्यानन्तरं विश्वे अधिकाधिकं कोविड्मरणानि जायमानं राष्ट्रमस्ति ब्रसीलः। 

   उपगम्यमाने शिशिरकाले रोगव्यापनमतितीव्रं भविष्यतीति स्वास्थ्यविचक्षणाः पूर्वसूचनां दत्तवन्तः तथापि शारीरिकदूरपालनमभिव्याप्य कोविड्मार्गनिर्देशान् प्रवृत्तिपथमानेतुं राष्ट्रस्य जैर् बोल्सनारो सर्वकारः निस्संगत्वं भजते इति वृत्तान्तः अस्ति। विषयेSस्मिन् जनाः शनिवासरे प्रतिषेधमकुर्वन् च।

  ब्रसीले २१.३कोटिषु जनेषु केवलं १२ प्रतिशतं जना एव वाक्सिनीकृताः।