OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, June 23, 2021

 सङ्गीतज्ञा पारश्शाला पोन्नम्माल्, गानरचयिता पूवच्चल् खादरश्च दिवंगतौ। 


अनन्तपुरी> केरलसङ्गीतमण्डल ह्यः नष्टद्वयम् अभवत्। प्रसिद्धा कर्णाटकसङ्गीतज्ञा पारश्शाला पोन्नम्माल् [९६] वार्धक्यसहजतया अस्वस्थतया ह्यः अनन्तपुर्यां वलियशाला ग्रामस्थे स्वभवने दिवंगता। 

  ९४ वयःपर्यन्तं पोन्नम्माल् वर्या विविधस्थानेषु सङ्गीतालापकार्यक्रमान् अवतारितवती। कोट्टक्ककं नवरात्रिमण्डपे प्रथमतया सङ्गीतकार्यक्रमम् अवतारितवती महिला इति बहुमतिः तस्याः नाम्नि वर्तते। २०१७ तमे पद्मश्री, २००९ तमे स्वातिपुरस्कारः, केन्द्र-संगीत-नाटक-अक्कादमी-पुरस्कारः, इत्यादिभिः बहुभिः पुरस्कारैः समादृता आसीत्। 

 पूवच्चल् खादरः।

अपारे काव्य संसारे कविरेव प्रजापतिः।
   शतशः आर्द्रमधुरगानानां रचनया केरलचलच्चित्रमञ्चे स्थिरप्रतिष्ठामवाप्तः पूवच्चल् खादरः हृद्रोगेण परलोकं प्राप्तवान्। कोविड्बाधितः सः अनन्तपुरी चिकित्साकलालये  परिचर्यायामासीत्। कोविड्मार्गनिर्देशान् परिपाल्य औद्योगिकबहुमानैः अन्त्येष्टिक्रियाः सम्पन्नाः।