OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, June 16, 2021

 समुद्रहत्याप्रकरणे दशकोटि- परिहारधनस्य विषये निर्णयः। नियमप्रक्रमाणां परिसमाप्तिः।

     नवदिल्ली> भारते समुद्रहत्याप्रकरणे प्रचाल्यमानाः सर्वे प्रक्रमाः सर्वोच्चन्यायालयेन समापिताः। इट्टलीराष्ट्रेण परिहारधनत्वेन दत्तानि दशकोटिरूप्यकाणि धीवरयोः कुटुम्बाभ्यां तथा नौकायाः स्वामिने च दातुं केरलस्य उच्चन्यायालयाय उत्तरदायित्वम् अदात्। इट्टलीदेशे प्रचाल्यमानेषु विचारणा प्रक्रमेषु केन्द्रसर्वकारस्य केरलसर्वकारस्य च परस्परसहकारित्वम् आवश्यकम् इत्यपि सर्वोच्चन्यायालयेन निगदितम्। २०१२ फेब्रुवरिमासस्य१५ तमे दिने द्वौ केरलीयधीवरौ इट्टलीदेशस्य नाविकसेनायाः गोलिकाप्रहरेण मारितौ। अस्मिन् प्रकरणे अनुवर्तमानाः न्यायालयप्रक्रमाः एव सर्वोच्चन्यायालयेन समापिताः। केन्द्रसर्वकारस्य प्रार्थनां परिगणय्य एव न्यायालयस्य आदेशः। प्रकरणस्य समाप्तये केरलसर्वकारः अपि अनुकूलयत्। नाविकानां गोलिकाप्रहरेण मृतस्य जलस्तिनस्य, अजेष् पिङ्केः च कुटुम्बाय प्रत्येकं चतुष्कोटिरूप्यकाणि तथा नौकायाः स्वामिने परिहारधनत्वेन द्विकोटिरूप्यकाणि च लप्स्यन्ते। सर्वोच्चन्यायालयस्य आदेशम् अनुसृत्य दिल्लीस्थे 'पाट्याल-गृहन्यायालये' संभूतानि सर्वाणि प्रकरणानि इदानीं समापितानि।