OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, June 12, 2021

 ए टि एम्  परिपालनव्ययः  उपयोक्तृणां सकाशात् स्वीकर्तुम्  अनुज्ञा दत्ता।

ए. टि. एम्. (धनादानयन्त्रम्) सुविघापरिपालनव्यये वर्धिते अधिकव्ययः उपयोक्तृणां सकाशात् व्ययीकर्तुं रिज़र्ववित्तकोशेन अनुज्ञा दत्ता।

धनं प्रतिग्रहीतुं (withdrawal) शुल्कः पञ्चदश रूप्यतः सप्तदशरूप्यकाणि तथा आर्थिकेतरविनिमयाय पञ्चरूप्यतः षट्रूप्यकाणि इति क्रमेण वर्धयिष्यते। आगस्त् मासस्य प्रथमदिनादारभ्यैव नवीकृतमूल्यानि प्रबलं भविष्यति।  निशुल्कपरिधेः अतिरिच्य ए टि एम्  विनिमयस्यैव एषा वर्धना। स्वकीय वित्तकोशस्य धनादानयन्त्रद्वारा प्रतिमासं पञ्चवारं धनस्वीकरणं निश्शुल्कम् अनुवर्तते। अन्तर्वित्तकोशविनिमयाय विनिमयशुल्कः विंशति रूप्यकाभिः एकविंशति रूप्यकाणि भविष्यति।  २०२२ जनुवरिमासस्य प्रथमदिनाङ्कादारभ्य एतत् प्रबलं भविष्यति।