OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, June 10, 2021

 विमानम् अपहृत्य पाकिस्थानं नेष्यति इति युवकस्य भीषा। युवकः आरक्षकेण संग्रहीतः।

भोपाल> भोपाल इन्डोर् इत्यादि विमानपत्तनात् विमानम् अपहृत्य पाकिस्थानं नेष्यति इति भीषयन्तः युवकः मध्यप्रदेशस्य आरक्षकेण संग्रहीतः। मङ्गलवासरे सायाह्ने लब्धां भीषां आधारीकृत्यैव युवकः रक्षिपुरुषेण संगृहीतः।

भोपाले राजा भोजविमानपत्तने एव दूरवाणीसन्देशः लब्धः। अनन्तरं विमानपत्तनाधिकारिणः आरक्षकालये वार्तां आवेदयत्। मङ्गलवासरे रात्रौ एव भोपालतः शतं कि. मि. दूरतः षुजल्पूर् देशात् युवक: संग्रहीतः कारागारे बन्धित: च इति गान्धिनगरस्य आरक्षककार्यालयस्य उपाधिपेन अरुण् शर्मणा आवेदितम् । भीषासन्देशानन्तरं भोपाले विमानपत्तनस्य सुरक्षाम् अवर्धयत्। मङ्गलवासरे भोपालतः मुम्बे देशं प्रति प्रस्थितं विमानं सूक्ष्मपरिशोधनानन्तरम् एव प्रस्थितम्।