OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, June 21, 2021

 शतकोट्यधिकमात्रायाः कोविड् सूच्यौषधं प्रदाय चीनेन नवपदं प्राप्तम्।

  बेय्जिङ्> शतकोट्यधिकमात्रायाः कोविड् सूच्यौषधं प्रदाय चीनेन वक्सिनीकरणप्रक्रियायां सुप्रधानस्थानं सम्पादितम्। शनिवासरपर्यन्तं चीनेषु कोविड्वाक्सिनस्य १,०१,०४,८९,००० मात्रामितानि सूच्यौषधानि अदात् इति राष्ट्रियस्वास्थ्यायोगेन (एन् एच् सि) आवेदितम्।

   लोके सर्वत्र इतः पर्यन्तं कोविड्वाक्सिनस्य २५० कोटिमितः वाक्सिनः एव प्रदत्तः। तेषु प्रतिशतं चत्वारिंशत् मितं सूच्यौषधं चीनेषु एव दत्तम्। तेषु शतकोटिमितस्य सूच्यौषधस्य प्रयोगः शनिवासरात्पूर्वं पञ्चदिवसाभ्यन्तरे एव पूर्तीकृतः इति राष्ट्रियस्वास्थ्यायोगम् उद्धृत्य सिन्हुवा वार्तासंस्थया आवेदितम्।