OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, June 20, 2021

 कवये अनिल् पनच्चूरान् वर्याय वाचनदिने संस्कृतानुरागिणां समादरः। 

      केरलीयानां प्रियकवये अनिल् पनच्चूरान् वर्याय वाचनदिने संस्कृतानुरागिणां समादरः। कोविद्रोगग्रस्तः सः विगते जनुवरि मासे दिवङ्गतोभवत्। तस्मै जनप्रियकवये समादरमादायागच्छति आक्कुलं केन्द्रीयविद्यालयस्य संस्कृतशिक्षकः श्री षिबुकुमारः। अनिल् पनच्चूरान् वर्यस्य चोर वीण मण्णिल् निन्नुम् इति विश्वप्रसिद्धस्य मलयाळगीतस्य संस्कृतानुवादं कृत्वैव प्रियकवये समादरो विहितः। अनिल् पनच्चूरान् वर्यस्य मृतिदिने (3.1.21) एव षिबुकुमारः अस्य संस्कृतानुवादम् अकरोत्। अडूर् केन्द्रीयविद्यालयस्य संगीतशिक्षिका श्रीमती जया एस् एवास्यालापनम् अकरोत्। ह्यः वाचनदिनस्य शुभावसरे दक्षिणभारतस्य विख्यातः संगीतनिदेशकः श्री बिजिबाल् वर्यः तथा नियमसभासामाजिकः श्री वि.के प्रशान्तवर्यः चस्य गीतस्य प्रकाशनमकुरुताम्। shibus Sanskrit इति युट्यूब् चानल् मध्ये एवेदं गानं प्रकाशितं वर्तते। षिबुकुमारः पूर्वमपि इतरभाषाणामनेकेषां गीतानां संस्कृतानुवादमकरोत्। तेषु समीपभूते किम् किम् किम् इति गीतं प्रचुरप्रचारमवाप्नोत। मनोहरम् इदं गीतं युट्यूब् चानल् मध्ये श्रूयताम् -

https://youtu.be/BrnREc8wwYI