OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, June 9, 2021

 पूर्वलडाके चीनस्य युद्धविमानानां डयनप्रदर्शनम्। जाग्रतया भारतम्।

  नवदिल्ली> पूर्वलडाके चीनस्य व्योमसेनायाः डयनप्रदर्शनम्। चीनस्य युद्धविमानैः कृतान् डयनप्रदर्शनसंबन्धिकार्यान् सूक्ष्मतया निरीक्ष्यमाणः अस्ति इति भारतेन प्रोक्तम्। लडाके भारतीयसीमाप्रान्तव्योमक्षेत्रेषु एव एषा घटना।

 चीनस्य जे११, जे१६ इत्यादिभिः द्वाविंशति युद्धविमानैः एव डयनप्रदर्शनं कृतम्। चीनस्य होतन्, गार गुण्स, कष्कर् इत्यादि व्योमपत्तनस्थविमानाः व्योमडयनप्रदर्शने भागं स्वीकृतवन्तः। समीपकाले चीनेन एतानि विमानपत्तनानि विविधविमानानां अनायासोड्डयनाय नवीकृतानि आसन्। चीनस्य व्योमपरिधौ एव डयनप्रदर्शनमिति भारतीयसेनावृन्दैः प्रोक्तम्।