OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, June 15, 2021

 कोविड् - 'डेल्टा'विभेदः ७५ राष्ट्रेषु।

   लण्टन्> भारते प्रथमं दृष्टः कोविड्विषाणुविभेदः 'डेल्टा' इति कृतनामधेयः एतदाभ्यन्तरे ७४ राष्ट्रेषु संक्रमित इति वृत्तान्तः। डेल्टायाः केचन उपविभागाःचीनम्, आफ्रिक्का, यू एस्, स्कान्डिनेविया, पसफिक्प्रान्तः इत्यादिषु स्थानेषु अधिगताः इति आवेदनानि वर्तन्ते। 

  अमेरिक्कायां नूतनतया दृढीक्रियमाणेषु १०% डेल्टाविभेद इति सूच्यते। किञ्च तत्र साप्ताहिकद्वये रोगिणां संख्या युगलीकरोति च। ब्रिट्टने नूतनरोगिषु ९० प्रतिशतं डेल्टाविभेदः भवति। इतःपर्यन्तं प्रत्यभिज्ञातेषु विभेदेषु अधिकतमः व्यापनशक्तिमत्तः एष इति यू एस् मध्ये ब्रौण् विश्वविद्यालये गवेषकप्रमुखः आशिष् जाहः उक्तवान्।