यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
भारतस्य पञ्चदशत्तमराष्ट्रपतिपदे माता द्रौपदी मुर्मू चिता॥
ओस्ट्रेलियायां कोविड्रोगः वर्धते। 'गृहतः उद्योगनिर्वहणं पुनरानेतुं निर्देशो दत्तः।
कूर्माय सेवाफलं विभज्य दत्तवान् वनमानुषः। चलनचित्रखण्डः सामूहिकमाध्यमे त्वरितप्रसरमभवत्।
जम्मु मध्ये मेघविस्फोटनं - विद्यालयं समेत्य १३ भवनानि प्रवाहितानि।
भादैर्वा [जम्मू]> जम्मु मध्ये दोड जनपदे मेघविस्फोटनानन्तरं सञ्जाते वृष्टिजलप्रवाहे एकं विद्यालयं समेत्य १३ भवनानि प्रवाहितानि। उपविंशति भवनानि भागिकतया विशीर्णानि। प्राणविनष्टाः न प्रस्तुताः।
दोडा जनपदस्थे टन्तप्रदेशे आसीदयं प्रकृतिकोपः दुरापन्नः। अल्लाम इक्बाल् स्मारक विद्यालयः, एकं वासगृहं, त्रयः आपणाः, अष्टसंख्याकाः इतरसंस्थाश्च प्रवाहिताः इति अधिकारिभिः निगदितम्।
विश्वस्मिन् अष्टमम् अद्भुतम्। मसायिमारेषु पशूनां महादेशाटनं समारब्धम्।
रेनिन् विक्रम सिंगे श्रीलङ्कायाः राट्रपतिपदे नियुक्तः। प्रतिषेधं प्रकटितानां जनानाम् उपरि कठिनप्रक्रमाः भविष्यन्ति।
परिस्थितिसमस्याः समुद्रान् तथा तीरदेशवासिनः च अधिकतया प्रबाधन्ते।
अनन्तपुरी> परिस्थितिसमस्यया समुद्राः तथा तीरदेशजनाः च अधिकतया दुरितमनुभवन्ति इति परिस्थितिसंरक्षणसमित्याः अखिलभारतसंयोजकेन गोपाल् जि आर्येण प्रोक्तम्। मत्स्यबन्धनकर्मकरान् जीवजालान् च संरक्षितुं सर्वे पुरतः आगन्तव्याः इति तेन निगदितम्। समुद्रतीरान् पलास्तिकात् मुक्तं कर्तुम् आविश्वं प्रचाल्यमानस्य समुद्रतीरशुचीकरणयज्ञस्य आयोजकमितिरूपीकरणम् उद्घाटयित्वा भाषमाणः आसीत् सः।
वर्षत्रयाभ्यन्तरे भारतीयनागरिकत्वं परित्यक्तानां संख्या ३.९२ लक्षम्। अर्धाधिके अमेरिक्का राष्ट्रस्य नागरिकत्वं स्वीकृताः।
संस्कृताध्येतृभ्यः संगणके ई-संसाधने च दक्षता अनिवार्या।
संस्कृताध्येतारः संगणके ई-संसाधने च दक्षा भवन्तु, प्राचीनतमज्ञान-विज्ञानादीनाम् अद्यतनज्ञानविज्ञानैः सह सामञ्जस्यं स्यात्, संस्कृतसंवर्धने ई-संसाधनानां सम्यक्तया प्रयोगकर्तारः अधिकाधिकजनाः स्युः तदर्थम् उत्तरप्रदेशसंस्कृतसंस्थानेन निःशुल्कं संगणक-ई-संसाधन-कार्यशालायाः शुभारम्भः कृतः अस्ति। राट्रियशिक्षानीति: २०२० इत्याधारिते नवीनपाठ्यक्रमेष्वपि संगणकेन सह ई-संसाधनानां ज्ञानम् अपेक्षितमस्ति। अतः संस्कृतविकासाय संगणकस्य, ई-संसाधनानाञ्चोपयोगिता- विषयिणी सप्तदिवसीया कार्यशाला जुलै मासस्य १४ दिनाङ्कतः प्रवर्तमाना वर्तते। प्रथमदिने संस्थानस्य माननीया अध्यक्षमहोदयाः आचार्या वाचस्पतिमिश्रमहोदयाः स्वविशिष्टसम्बोधनेन संस्कृतज्ञान् आहूतवन्तः। एकस्मिन् हस्ते संस्कृतम् अपरे संगणकं स्थाप्य स्वकीयबौद्धिकी यात्रा करणीया भविष्यति। अतः एतादृशी कार्यशाला अग्रेऽपि आवश्यकी भविष्यति।वानरवसूरिः> विदेशात् आगताः सर्वे स्वास्थ्यपरिशोधनाविधेयाः भवितव्याः इति केन्द्रसर्वकारः।
नवदिल्ली> राष्ट्रे द्वितीयं वानरवसूरिप्रकरणं केरलेऽपि प्रतिवेदिते सन्दर्भे पूर्वोपायप्रक्रमान् प्रबलं कर्तुं केन्द्रसर्वकारेण निर्देशो दत्तः। सर्वेषु विमानपत्तनेषु नौकाश्रयेषु च यात्रिकान् निर्बन्धितारोग्यपरिशोधनाविधेयं कर्तुं केन्द्रसर्वकारेण निर्देशो दत्तः। विमानपत्तन - नौकाश्रयविभागस्य कर्मकरैः साकं स्वास्थ्यविभागनिर्दैशकैः आयोजिते मेलने एव निर्देशाः दत्ताः।
सिङ्गप्पुरं ओप्पण् पिच्छकन्दुकस्पर्धा - पि वि सिन्धू विजिता।
सिङ्गप्पुरं> सिङ्गप्पुरं ओप्पण् सूपर् ५०० नामकपिच्छकन्दुकक्रीडापरम्परायाः अन्तिमे चक्रे भारतस्य पि वि सिन्धू विजयकिरीटं प्राप्तवती। अन्तिमक्रीडायां 'एष्यन् चाम्प्यन् षिप्' सुवर्णपदकप्राप्तां चीनस्य वाङ् षी नामिकां पराजितवती।
अस्मिन् क्रीडाकाले सिन्धुवर्यायाः तृतीयं किरीटप्राप्तिः एषः। सय्यिद् मोदी अन्ताराष्ट्रियक्रीडायां तथा स्विस् ओपण् क्रीडायामपि सिन्धुरेव श्रेष्ठत्वं प्राप्तवती।
राजनैतिक -आर्थिकसमस्यादिभिः पतितायां श्रीलङ्कायां समस्यापरिहाराय भारतं प्रयत्नान् करिष्यति।
राजनैतिक - आर्थिकसमस्यादिभिः पतितायां श्रीलङ्कायां समस्यापरिहाराय भारतं प्रयत्नान् करिष्यति। तदर्थं केन्द्रसर्वकारेण मङ्गलवासरे सर्वदलयोगम् आयोजितमस्ति। तमिल्नाडुदेशात् ए ऐ ए डि एम् के, डि एम् के इत्येतयोः राजनैतिकदलयोः अभ्यर्थनानुसारमेव अयं निश्चयः। वर्षाकालसम्मेलनम् आधारीकृत्य संसदसभायाम् आहूते सर्वदलयोगे भारतं समस्यापरिहाराय प्रयत्नः करणीयः इति तमिलनाडुराज्यस्थैः दलैः अभ्यर्थिम् आसीत्।
बुन्देलखण्ड अतिशीघ्रवीथिः उद्घाटितः।
जलोन् [उत्तरप्रदेशः]> मध्यप्रदेशस्थे चित्रकूटात् दिल्लीं प्राप्यमाणः बुन्देलखण्ड अतिशीघ्रवीथिः प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटितः। २९६ कि मी दूरपरिमितेन अनेन मार्गेण चित्रकूट - दिल्ली यात्रासमयाय त्रिचतस्रहोराणां अपचितिः भविष्यति। सप्तसु जनपदेषु व्यावर्तमानस्यास्य नूतनमार्गस्य निर्माणाय १४,८५० कोटिरूप्यकाणां व्ययः अभवत्।
अग्निपथयोजनायाः कृते ७.५ लक्षं युवानः अवेदनपत्रं प्रेषितवन्तः।
सौदी अमेरिक्का राष्ट्रद्वयेन १८ सन्धिषु हस्ताक्षरं कृतम्।
अबुदाबी> सौदी अरेबिया अमेरिक्का च विविधक्षेत्रेषु सहयोगाय १८ सुप्रधानसम्मतपत्रेषु हस्ताक्षरमकरोत्। जिद्दायां सम्पन्ने अरबशिखरसम्मेलने सौदीराष्ट्रस्य मन्त्रिणः अमेरिक्कायाः विविधविभागानां कार्यदर्शिमण्डलेन सह कृतायां चर्चायामन्ते सन्धिषु उपशमः जातः। ऊर्जः, निक्षेपः, बहिराकाशः, वार्ताविनिमयः, स्वास्थ्यमित्यादिषु क्षेत्रेषु आसीत् सहयोगदृढीकरणं सम्पन्नम्।
यू ए ई राष्ट्रपतिः शैख् मुहम्मद बिन् सायिदः अमेरिक्कायाः राष्ट्रपतिना जो बैडनेन 'वैट् हौस्' प्रति आमन्त्रितः। शिखरसम्मेलने इरानः, इराखः, ओमानः, यू ए ई,सौदी, जोर्दानः,खत्तरं, कुवैट् इत्यादीनाम् अरबराष्ट्राणां अधिकारिणः भागं स्वीकृतवन्तः।
केरले वर्षा शक्तिरार्जिता; दुष्प्रभावे ४ मरणानि।
अनन्तपुरी> केरलराज्ये वर्षाकालः शक्तिं प्राप्तवान्।। कोष़िक्कोट्, वयनाट्, कासर्कोट् इत्येतेषु जनपदेषु वर्षदुष्प्रभावेण चत्वारः जनाः मृताः।
केरलस्य उत्तरजनपदेषु अतिवृष्टिः अनुवर्तते। वृष्ट्या सह प्रचण्डवातोSपि वाति इत्येतत् अधिककष्टनष्टानां कारणमभवत्। वृक्षाः वीथीः पतित्वा मार्गस्थगनमभवत्। वाहनान्यपि विशीर्णानि। बहुत्र विद्युत्स्थगनमपि सञ्जातम्।
अतिवृष्टिदुष्प्रभावेण जलोपप्लवः जातः इत्यस्मात् सहस्राधिकाः जनाः अभयस्थानानि नीताः। पालक्काट् जनपदस्थस्य मलम्पुष़ा सेतोः अधिकजलनिर्गमनद्वाराणि सर्वाणि उद्घाटितानि।
दक्षिणकेरले शक्ता वृष्टिः भवत्यपि नाशनष्टाः तारतम्येन न्यूनाः वर्तन्ते।
राज्ये स्वतन्त्रतादिवसीयविरामदिनम् उतरप्रदेशसर्वकारेण निरस्तम्। विद्यालयाः उद्घाटयिष्यन्ति। शुचीकरणप्रवर्तनानि आयोजयिष्यन्ति।
लख्नौ> स्वतन्त्रतादिवसस्य विरामः उत्तरप्रदेशसर्वकारेण निरस्तम्। सर्वकारः, सर्वकारेतरसंस्थाः विद्यालयाः, महाविद्यालयाः, विश्वविद्यालयाः, आपणानि इत्यादीनि सर्वणि स्वतन्त्रतादिने उद्घाटयिष्यन्ति। स्वतन्त्रतायाः पञ्चसप्ततितम संवत्सरीयमहोत्सवानुबन्धितया स्वतन्त्रतादिनाचरणं विशेषकार्यक्रमैः साकं समाचरिष्यन्ति इति उत्तरप्रदेशास्य मुख्यमन्त्रिणा योगी आदित्यनाथेन आवेदितम्।
भारते वानरवसूरिरोगः दृढीकृतः।
अनन्तपुरी> भारते इदंप्रथमतया वानरवसूरिरोगः दृढीकृतः। दिनद्वयात्पूर्वं यू ए ई राष्ट्रात् स्वराज्यं प्राप्तस्य कोल्लं प्रदेशीयस्य केरलीयस्य शरीरे परिशोधिते एवास्य रोगस्य स्थिरीकरणम्।
यू ए ईस्थे मित्रे वानरवसूरिः स्थिरीकृतः इत्यस्मात् केरलं प्राप्तः कोल्लं प्रदेशीयः समीपस्थं आतुरालयं प्रविश्य परिशोधनां कृतवानासीत्। पूणैस्थं Virology Institute मध्ये शोधिते स्रवे वानरवसूरिरोगस्य सूक्ष्माणवः दृष्टाः। अतः सः इदानीं अनन्तपुरी मेडिक्कल् कोलज् आतुरालयं प्रवेशितः।
गोताबाय राजपक्से त्यागपत्रं समार्पयत्।
बुधवासरे राष्ट्रं त्यक्त्वा मालिद्वीपं प्राप्तवान् गोतबायः सुरक्षितस्थानमालक्ष्य गुरुवासरे सिङ्गप्पुरं प्राप्तः इति तद्देशीयविदेशमन्त्रालयेन स्थिरीकृतम्। किन्तु तेन अभयार्थित्वं नापेक्षितमिति अधिकृतैः उक्तम्।
उत्तरप्रदेशसंस्कृतसंस्थानेन संगणक-ई-संसाधन-कार्यशालायाः शुभारम्भः।
कार्यशालायाम् आभारताद् षड् शताधिकाः शिक्षकाः, छात्राश्च प्रतिभागितायै पञ्जीयनं कारितवन्तः सन्ति। अधिकजनानां जिज्ञासां दृष्ट्वा सत्रद्वये समायोजिता वर्तते कार्यशाला।
उद्घाटनानन्तरं प्रथमसत्रे दिल्ली विश्वविद्यालयतः डॉ॰ उमेशकुमारसिंहमहोदयाः संस्कृते लेखनाय विभिन्नटूल्स-लिपिविषये व्याख्यानं प्रयोगञ्च कारितवन्तः। द्वितीयसत्रे संस्थानस्य प्रशासनिकाधिकारिणः श्रीमन्तो जगदानन्दझामहोदयाः संगणकस्य परिचयं सविस्तरं बोधितवन्तः।
अन्ते पर्यवेक्षकरूपेणोपस्थिताः डॉ॰ नवलता-महोदयाः अपि सम्बोधितवत्यः। कार्यशालायाः सञ्चालनं संयोजकः डॉ॰ चन्द्रकान्तदत्तशुक्लवर्याः कृतवन्तः। आदौ प्रखरप्रांशुलपाण्डेयौ सरस्वतीवन्दनां प्रस्तुतवन्तौ। डॉ॰ अरविन्दकुमारतिवारी, डॉ॰ गीता शुक्ला, डॉ॰ विमलेन्दुत्रिपाठी, डॉ॰ अवनीन्द्रपाण्डेयप्रभृतयः समुपस्थिता आसन्।
१८ - ५९ वयस्कानां कृते कोविड्वाक्सिनस्य अधिकमात्राः निश्शुल्केन।
नवदिल्ली> १८ - ५९ वयस्कानां कृते कोविड्वाक्सिनस्य अधिकमात्राः निश्शुल्केन दातुं केन्द्रसर्वकारेण निर्णीतम्। जूलाय् मासस्य १५ तम दिनाङ्कादारभ्य ७५ दिनानि यावत् एतदानुकूल्यं लभते। राष्ट्रस्य स्वतन्त्रतायाः ७५ तम वार्षिकोत्सवस्य अंशतया एवायं निर्णयः।
सेप्तम्बर् २७ दिनाङ्कपर्यन्तं आराष्ट्रं सर्वकारातुरालयानां सूचीकरणकेन्द्रेषु सुवेधेयं लभते इति स्वास्थ्यमन्त्रिणा अनुरागठक्कुरेण निगदितम्।
आबन्धं सम्पूर्णं तारपुञ्जः नासया जेयिंस् जाले वाननिरीक्षिण्या आलेखितं चित्रं प्रकाशिम्।
राशिमूल्यशोषणं जूण्मासे ७. ०१प्रतिशतम्।
मुम्बई> भारते उपभोक्तृमूल्यसूचिकामाधारीकृत्य राशिवर्धनं २०२२ जूण् मासे ७. ०१प्रतिशतम् अभवत्। २०२१ जूण् मासे एतत् ६. २६ आसीत्।
मेय् मासे पेट्रोलियम् इन्धनानां मूल्ये केन्द्रसर्वकारः अपचितिमकारयत्। किन्तु तस्य प्रयोजनम् इतःपर्यन्तं न लब्धमिति आर्थिकविचक्षणैः अनुमीयते।