एल् वि एम् -३ विक्षेपणं विजयप्रदम्। ३६ उपग्रहाः भ्रमणपथेषु। चरित्रमारच्य ऐ एस् आर् ओ।
OUR YouTube Channel 1. SampratiVartah |
marquee
Sunday, October 23, 2022
Saturday, October 22, 2022
अरुणाचलप्रदेशे स्थलसेनायाः उदग्रयानं भग्नम्। चत्वारः सैनिकाः वीरमृत्युं प्राप्ताः।
गुहावति> अरुणाचलप्रदेशे सियाङ्जिल्लायां स्थलसेनायाः उदग्रयानं प्रभज्य चत्वारः सैनिकाः वीरमृत्युमुपगताः। मिग्गिङ् इति प्रदेशे ह्यः प्रभाते १०.४ ३ वादने एव अपघातः दुरापन्नः। चतुर्णां सैनिकानां मृतशरीराणि प्रत्याहृतानि। पञ्च सैनिकाः उदग्रयाने आसीत्। रक्षाप्रवर्तनानि अनुवर्तते।
अहितम् आर्थिकनयः - ब्रिट्टनस्य प्रधानमन्त्री लिस् ट्रस् स्थानं त्यक्तवती। 
लिस् ट्रस्
लण्टनं> अहितं आर्थिकनयं स्वीकृत्य राष्ट्रम् आर्थिकप्रतिसन्धिमानीता इति दुष्कीर्त्या ब्रिट्टनस्य प्रधानमन्त्री लिस् ट्रस् वर्या स्वस्थानात् त्यागपत्रं समर्पितवती। स्थानारोहणानन्तरं ४५ तमे दिने भवति तस्याः स्थानत्यागः।
स्थानारोहणे कृते एव विविधानां कराणां मानं अधिकतया न्यूनीकृतम्। अतः 'पौण्ट्' इत्यस्य मूल्यमपि अपचितम्। राष्ट्रे आर्थिकप्रतिसन्धिः तीव्र अभवच्च। किन्तु वित्तमन्त्रिणं क्वासि क्वार्टङ् इत्येनं निष्कास्य विवादशमनाय प्रयत्तवती तथापि निष्प्रयोजनमभवत्। अस्याः स्थानत्यागः अनिवार्यः जातः।
राष्ट्रे नूतनं प्रधानमन्त्रिणं अधिगन्तुं प्रक्रमाः आरब्धाः।
Friday, October 21, 2022
आविश्वं प्रबाधमानःआगामि सांक्रमिकरोगः द्रवीभूयमानात् हिमात् इति अध्ययनफलम्।
वार्ताहरा - रमा टि के
आगमि सांक्रमिकरोगः खगात् तथा जतुकात् न भवति द्रवीभूतहिमात् इति अध्ययनानि सूचयन्ति। आर्टिक् मण्डलस्थे शुद्धजलतडाकात् स्वीकृतस्य मृदस्य जनितकविवेचनम् आधारीकृत्य कृतमध्ययनप्रतिवेदनं एव बहिरागतः। हिमानि यत्र द्रवति तत्समीपे नूतन सांक्रमिकरोगाः प्रादुर्भविष्यन्ति। एषु मण्डलेषु वैराणूनां सान्निध्यम् अधिकतया संदृष्टः अस्ति।
Thursday, October 20, 2022
अर्थनाः अङ्गीकृताः; दयाबायी निराहारसत्यग्रहं समापितवती।
अनन्तपुरी> एन्डोसल्फान् क्लेशबाधितेभ्यः उन्नीताः अर्थनाः अङ्गीकर्तुं केरलसर्वकारः सन्नद्धतां प्राकटयत् इत्यतः दयाबायिवर्यया १८ दिनैः अनुवर्तमानः निराहारसत्यग्रहः परिसमाप्तिं प्राप। अर्थनानाम् अङ्गीकारनिर्णयस्य प्रमाणपत्रं मन्त्रिण्यौ वीणाजोर्जः आर् बिन्दुश्च आतुरालयं समागत्य दयाबाय्यै दत्तवत्यौ। अनेन विधानसभायाः पुरतः १८ दिवसात्मकेन अनुवर्तमानः आन्दोलनसमित्याः निराहारान्दोलनाय विजयपरिसमाप्तिः।
Wednesday, October 19, 2022
के जयरामन् नम्पूतिरिः शबरिगिर्यां मुख्यार्चकः।
शबरिमला> अस्य संवत्सरस्य 'मण्डलकाले' शबरिगिरि श्रीधर्मशास्तृमन्दिरे कण्णूर् जनपदस्थे तलिप्परम्पप्रदेशीयः के जयरामन् नम्पूतिरिः - ४८ वयस्कः - अर्चकमुख्यः भविष्यति। समीपस्थे मालिकप्पुरं मन्दिरे कोट्टयं जनपदस्थे वैक्कं निवासी हरिहरन् नम्पूतिरिः [५०] अर्चकमुख्यः भविष्यति।
ह्यः मन्दिरसन्निधाने सम्पन्ने दैवेच्छानिर्णये आसीत् एतयोः मुख्यार्चकत्वं विहितम्।
विश्वस्मिन् प्रथमं बृहत्तमं प्रतिरोधवस्तुनिर्माणकेन्द्रःभविष्यति भारतम् इति प्रतिरोधमन्त्री राजनाथसिंहः।
गान्धीनगर्> आगामि पञ्चविंशतिसंवत्सराभ्यन्तरे विश्वस्मिन् प्रथमं बृहत्तमं प्रतिरोधवस्तुनिर्माणकेन्द्रः 'भविष्यति भारतम् इति प्रतिरोधमन्त्री राजनाथसिंहः अवदत्। गान्धीनगरे प्रचलितं डिफेन्स् एक्स्पो२०२२ इति कार्यक्रमम् अभिसंबुध्य प्रभाषणमाणः आसीत् अयम्। अभिमानं प्रति पन्था: इति एक्स्पो २०२२ प्रदर्शिन्याः आशयः वृथा न भाषितं भविष्यति किन्तु नूतनभारतस्य नूतनलक्ष्यमेव इति तेन निगदितम्।
Tuesday, October 18, 2022
केदारनाथे दुरापन्ने उदग्रयानापघाते षट् जनाः मृताः।
उत्तराखण्डः> उत्तराखण्डे केदारनाथस्य समीपे दुरापन्ने उदगयानापघाते द्वौ वैमानिकौ चत्वारः तीर्थाटकाः च मृताः। गरु छत्ति मण्डलेषु एव उदग्रयानं प्रभज्य पतितम्। षण्णां मृतशरीराणि प्रत्याहृतानि। रक्षाप्रवर्तनानि अनुवर्तन्ते। केदारनाथात् प्रस्थानानन्तरं विलम्बं विना उदग्रयानम् अग्निबाधितमभवत्।
ओ आर् एस् जीवरक्षा लवणस्य संयोजकः डा दिलीप् महलनाबिसः दिवङ्गतः।
कोल्कत्ता> कोलरा व्याधेः अतिव्यापनकाले जनानां जीवरक्षायै ओ आर् एस् इति संयुक्त लवणस्य सम्योगम् उपयुज्य जनानां जीवान् अरक्षत् डा. दिलीप् महलनाबिसः। ८८ वयस्क: एषः महोदय: वार्धक्य सहजया अस्वास्थेन ह्यः दिवङ्गतः। 1964 तमे तेन कृतं प्रथमं ORS लवणपरीक्षणम् विजयप्रदमासीत्।
Monday, October 17, 2022
कोण्ग्रस् अध्यक्षनिर्वाचनम् अद्य। 
मल्लिकार्जुनखार्गे शशि तरूरः च
नवदिल्ली> इन्ड्यन् नाषणल् कोण्ग्रस् नामकराजनैतिकदस्य आभारतीयाध्यक्षनिर्वाचनाय अद्य मतदानप्रक्रिया सम्पद्यते। जनाधिपत्यरीत्या सम्पद्यमाने निर्वाचने ९३०८ मतदानिनः विद्यन्ते। मल्लिकार्जुन खार्गे इति अशीतिवयस्कः शशि तरूर् नामकः षष्टिवयस्कश्च अध्यक्षपदाय स्पर्धमानै स्तः। विविधराज्येषु तेषां प्रचरणं सामान्येन सम्पूर्णमभवत्।
निर्वाचनसज्जीकरणं सर्वं पूर्तीकृतमिति कोण्ग्रसः राष्ट्रीयनिर्वाचनसमित्याः अध्यक्षः मधुसूदनमिस्त्री अवोचत्। विविधराज्येषु पूर्वमेव निर्णीतेषु स्थानेषु मतदानपेटिकाः सज्जीकृताः। पूर्णतया रहस्यरीत्या एव मतदानं सम्पत्यते। मतदानानन्तरं मतदानपेटिकाः सर्वाः दिल्लीमानीय मतदानपत्रिकाणि सम्मिश्रीकृत्य बुधवासरे दशवादने गणनाप्रक्रिया आरप्स्यते। यः कोSपि विजयं प्राप्नोति तर्हि २४ संवत्सरानन्तरं प्रथमतया नेह्रुकुटुम्बाद्बाह्यतः कश्चन कोण्ग्रसदलं नेष्यतीति सविशेषता अस्ति।
Sunday, October 16, 2022
एष्याचषकवनिताक्रिक्कट् - भारतं विजितम्।
सिल्हेट्> वनितानां विंशति-२० एष्याचषक क्रिक्कट् स्पर्धापरम्परायाः अन्तिमस्पर्धायां श्रीलङ्कां पराजित्य भारतं सप्तमवारमपि किरीटमलभत। ६६ धावनाङ्कानां विजयक्ष्यं ८. ३ क्षेपणचक्रैः केवलं ताडकद्वयं विनश्य ७१ धावनाङ्कान् प्राप्तं भारतेन।
रेणुका सिंहः श्रेष्ठक्रीडिकापदं प्राप्तवती। चतुर्भिः क्षेपणचक्रैः ५ धावनाङ्कान् प्रदाय क्रीडिकात्रयं बहिर्नीतवती सा। आहत्य २३ क्रीडिकाणां बहिर्नयनं ९४ धावनाङ्कान् च लब्ध्वा दीप्ती शर्मा परम्परायाः श्रेष्ठकीडिकेति पदं प्राप्तवती।
नवदिल्ल्यां वायुमलिनीकरणेन सह जलमलिनीकरणञ्च।
Saturday, October 15, 2022
हिमाचले विधानसभानिर्वाचनोद्घोषणा।
निर्वाचनं नवम्बर् १२तमे; फलं डिसम्बर् ८ तमे।
नवदिल्ली> हिमाचलप्रदेशस्य विधानसभानिर्वाचनं नवम्बरमासस्य १२तमे दिनाङ्के सम्पत्स्यति। मतगणना डिसम्बरमासस्य अष्टमे दिने भविष्यतीति निर्वाचनायोगेन निगदितम्।
हिमाचले ६८ अंगसदस्ययुक्ता सभा वर्तते। राज्ये व्यवहारनियमः प्रवृत्तिपथमागतः। विज्ञापनं १७तमे दिनाङ्के करिष्यति। नामनिर्देशपत्रिकासमर्पणस्य अन्तिमं दिनं नवंबर २५। सूक्ष्मपरिशोधनं नवंबर् २७।
आविश्वं वन्यजीविनां संख्या त्रिषु एकः इति क्रमेण आकुञ्चिता इति अध्ययनप्रतिवेदनम्।
१९७० संवत्सरात् परम् आविश्वं वन्यजीविनां संख्या त्रिषु एकः इति क्रमेण आकुञ्चिता इति प्रतिवेदनम्। वेल्ड् वैल्ड्लैफ् फण्ट् इति संस्थया प्रकाशितां गणनामनुसृत्यैव निगमनमिदम्। प्रतिसंवत्सरं २.५% इति क्रमेण आकुञ्चति इति २०२० तमे संवत्सरे आयोजिते अध्ययने निर्णीतः आसीत्। जनसंख्यावर्धनेन जायमानः आवासव्यवस्थानाशः, मलिनीकरणम्, वातावरणपरिवर्तननि इत्यादयः एव अस्याः समस्यायाः कारणानि इति सूचयन्ति।जनमनांसि हठादाकर्षयन् केरलेषु नीलसहचरे कुसुमोद्गमः।
Friday, October 14, 2022
व्याजवार्तां रोद्धुं नियमाः निर्मीयन्ते तुर्किना ।
व्याजवार्ताप्रलयान् प्रतिरोद्धुं तुर्कीराष्ट्रेण नियमाः निर्मीयन्ते। एतान् व्याजवार्ता-विरोधनियमान् अनुसृत्य व्याजवार्ता संस्थाभ्यः, सामाजिकमाध्यमानाम् उपयोक्तृभ्यश्च दण्डः भविष्यति। संवत्सरत्रयाणां कारागृहवासः एव दण्डः। स्वतन्त्र - पत्रकारितायाः उपरि हस्तक्षेपः भवन्ति अयं नियमाः इति आक्षेपाः इदानीम् उद्गच्छन्ति। नियमविधेयकं राष्ट्रपतेः पुरतः अङ्गीकाराय समर्पितम् अस्ति। तुर्कीराष्ट्रे कतिपयमासानन्तरं राष्ट्रपतिनिर्वाचनं भविष्यति। ततः पूर्वं भवति अयं रोधनप्रक्रमः इत्येतत् चिन्तनीयः विषयः इति तुर्किस्थाः पत्रकाराः अभिप्रयन्ति॥
Wednesday, October 12, 2022
भारत-दक्षिणाफ्रिक्का क्रिकेट परम्परा भारतेन स्वायत्तीकृता।
नवदिल्ली> भारत-दक्षिणाफ्रिक्कयोः क्रिक्कट् दलयोः मिथः सम्पन्नेषु त्रिषु एकदिनप्रतिद्वन्देषु द्वयमपि विजित्य भारतेन परम्परा स्वायत्तीकृता। गतदिने दिल्ल्यां सम्पन्ने तृतीये प्रतिद्वन्द्वे भारताय एकपक्षीयं विजयं करगतमभवत्।
तृतीयस्पर्धायाः प्रथमे चरणे दक्षिणाफ्रिक्कां भारतं ९९ धावनाङ्केषु संकोचनमकरोत्। ततः प्रतिचरणे २० क्षेपणचक्रात्पूर्वमेव ताडकत्रयस्य विनष्टे लक्ष्यं प्राप्तम्।
गुलिकाप्रहारितोऽपि न प्रतिनिवृत्तः। द्वयोः भीकरयोः वधाय मार्गदर्शकः करसेनायाः शुनकः अतिव्रणितः।
श्रीनगर्> द्वौ लष्कर् इ तोय्बा भीकरयोः वधाय मार्गदर्शकः स्थलसेनायाः शुनकः अतिव्रणितः। स्थलसेनायाः असोल्ट् डोग् सूम् एव कश्मीरराज्ये अनन्तनागे भीकराणां सुरक्षासेनायाः च मिथः जाते प्रतिद्वन्दे अतिव्रणितः जातः। प्रतिद्वन्दे एकः सैनिकः अपि व्रणितः। ह्यः प्रभाते एव भीकराः निलीय स्थिताः इति संशयिते गृहे सूं इति शुनकः प्रेषितः। भीकरान् प्रत्यभिज्ञातुं विशेषपरिशीलनं लब्धः शुनकः आसीदयम्।
Tuesday, October 11, 2022
युक्रैन् संघर्षे भारतेन आशङ्का आवेदिता। समस्यापरिहाराय भारतस्य साहाय्यम्।
नवदिल्ली> युक्रेने संघर्षे अतिरुक्षे जाते सन्दर्भे भारतेन आशङ्का प्रकाशिता। समस्यापरिहाराय कृतपरिश्रमान् अङ्कीकर्तुं भारतं सज्जमिति भारतेन पुनः प्रोक्तम्। युक्रैने रष्येन कृते आक्रमणे दश जनाः हताः। बहवः जनाः व्रणिताश्च। ततः परमेव भारतस्य प्रतिकरणम्॥
Monday, October 10, 2022
Sunday, October 9, 2022
अतिवृष्ट्या गृहं भग्नम् - त्रयः मृताः।



.webp)

.webp)
.jpg)
.webp)
.jpg)



