यू एसेन सह चर्चा इरानेन समापिता।
इस्रयेलस्य लबननं विरुध्य कृतम् आक्रमणं हेतुः।
टेहरानं> इरान-यू एस् इत्येतयोर्मध्ये समाकलिते युद्धविरामसन्धौ मुख्यव्यवस्थासु अन्यतमः 'लबनने युद्धविरामः' इत्ययं इस्रयेलेन उल्लंघितः इत्यारोप्य यू एसेन सह शान्तिचर्चा इरानेन समापिता। इरानीय वार्ताप्रतिनिधिः 'तस्निम्' इत्यनया संस्थया निगदितं यत् मध्यस्थद्वारा प्रचाल्यमानानि सर्वाणि आशयविनिमयानि सम्भाषणानि च इरानस्य चर्चासंघेन समापितानि इति।
रविवासरे चरित्रप्रसिद्धं 'ब्ल्यू फोर्ट् कासिल्' [Blueu fort castle]नामकं दुर्गं सन्निगृह्य इस्रयेलः लबनने स्वाधिनिवेशं प्रबल्यकुरुत।लबननस्य राजधानीनगरस्य - बेय्रूत् - दक्षिणप्रदेशम् आक्रमितुं सैन्यं प्रति बञ्चमिन् नेतन्याहुः आदिशत् च। लबननं प्रति सैनिकप्रक्रमाय यू एसस्य सहयोगः लब्धः इति इस्रयेलमाध्यमैः वृत्तान्तीकृतम्।













