एस् ऐ आर् व्यवस्थानुसारं - सर्वोच्चन्यायालयः।
नवदिल्ली> केन्द्र निर्वाचनायोगेन विधायमानं समग्र मतदायकावलीपरिष्करणं [एस् ऐ आर्] नीतिन्यायव्यवस्थानुसारम् इति सर्वोच्चन्यायालयस्य नीतिपीठेन विहितम्। बिहारे आरभ्य विभिन्नराज्येषु क्रियमाणायाः एस् ऐ आर् प्रक्रियायाः नियमसाधुतां परिपृच्छ्यमानाः अभियाचिकाः परिशोधिवता नीतिपीठेन प्रक्रियायां निर्वाचनायोगस्य अधिकारम् अनुकूलितम्। एस् ऐ आर् इत्यस्य संविधानसाधुता अपि नीतिपीठेन अङ्गीकृता।
मुख्यन्यायाधिपः सूर्यकान्तः, न्यायाधिपौ जोय् माल्य बाग्चि, विपुल् एम् पञ्चोली इत्येतेषां नीतिपीठस्य अस्ति अयं विधिः। तीव्रपरिष्करणाय निर्वाचनायोगेन उन्नीताः वादाः नीतिपीठेन अङ्गीकृताः।