शान्तिः दूरे; ईरान-युद्धः मासत्रयः अतीतः।
तेहरान:> ईरान-युद्धस्य आरम्भात् इदानीं मासत्रयः अतीतः। यद्यपि शान्ति चर्चाः सक्रियाः प्रचलन्ति, तथापि युद्धस्य विरामं कर्तुं पक्षद्वयमपि सज्जं नास्ति। होरमुस्- समुद्रसड़कोचस्य (Strait of Hormuz) नियन्त्रणविषये, ईरानस्य परमाणुपरियोजनानां स्थगनविषये च अमेरिका-ईरानदेशौ अद्यापि दृढं हठपूर्णं च दृष्टिकोणं धारयतः स्तः। युद्धस्य मासत्रयान्ते एतत् वैश्विक अर्थव्यवस्थां गम्भीररूपेण बाधितुम् आरब्धमस्ति। विश्वस्य प्रमुख-तैलवाहनमार्गस्य (होरमुज्-जलसङ्कोचः) विवादः अन्तर्राष्ट्रियविपण्याम् इन्धनमूल्यस्य तीव्रवृद्धये कारणम् अभवत्। वितरणशृङ्खलायाः (supply chain) बाधया विविधदेशेषु आवश्यकवस्तूनां मूल्यवृद्धिः अपि तीव्रा संजाता। युद्धस्य दीर्घकालीकरणं वैश्विक-आर्थिकमन्दतायै कारणं भवेत् इति आशङ्कायां सन्ति विश्वराष्ट्राणि।
