एबोला-वैराणुव्याप्तिः अतीव तीव्रा इति विश्वस्वास्थ्यसङ्गठनम्
कोङ्गो> एबोला-वैराणुव्याप्तिः अतीव तीव्रा गतिं प्राप्नोतीति विश्वस्वास्थ्यसङ्गठनेन निवेदितम्। डेमोक्रेटिक् रिपब्लिक् आफ् कोङ्गो (DR Congo), उगाण्डा (Uganda) देशयोः च एतावत्पर्यन्तं २२० (विंशत्यधिक द्विशतं) जनाः अनेन व्याधिना मृताः। एबोला-रोगलक्षणानां अन्वेषणे अभवन् विलम्बः एव अस्य वैराणोः तीव्रव्यापनस्य मुख्यकारणम् अभवत्। तेन सह काङ्गो देशेन सह सीमां संलग्नेषु अन्येषु देशेषु अपि अस्य रोगस्य तीव्रसङ्कटसाध्यता अस्तीति विश्वस्वास्थ्यसङ्गठनेन पूर्वसूचना दत्ता।
अस्मिन् अन्तरे, कोङ्गो देशे एबोला-रोगिणां परिचर्यां कुर्वत्सु चिकित्सालयेषु आक्रमणानि अभवन्। मृतानां शरीराणि स्वास्थ्यमानदण्डान् अनादृत्य एव बन्धुभिः नीयन्ते। असुरक्षितानि श्मशानानि, अनुचिताः शवसंस्कारपद्धतयः च रोगव्याप्तये कारणं भवन्तीति विश्वस्वास्थ्यसङ्गठनेन स्पष्टीकृतम्।
