राष्ट्रिय ऊनविंशपादकन्दुकम्
केरलं वीरतापदे।
ऊनविंशानां राष्ट्रियकिरीटं प्राप्तः केरलसंघः।
नारायणपुरं> छत्तीसगढे सम्पन्ने ऊनविंशतिवयस्कानां राष्ट्रिय पादकन्दुकक्रीडायाः अन्तिमप्रतिद्वन्द्वे केरलं विजयीभूतम्। मिसोरामसंघं ४ - २ इति लक्ष्यकन्दुकेन पराजित्य आसीत् केरलस्य विजयः।
डो टि ए रञ्जितस्य परिशीलने क्रीडाङ्कणं प्राप्तः केरलसंघः अपराजितः एव किरीटं प्राप। प्राथमिकचरणस्य सर्वान् प्रतिद्वन्द्वान् विजित्य प्रपूर्वान्त्ये मेघालयं (२-१), पूर्वान्त्ये पञ्चाबं (४-१) च पराजित्य आसीत् केरलस्य अन्त्यस्पर्धाप्रवेशः।
केरलस्य विजये मुख्यभागम् ऊढवान् षेरिल् षाजी तोमसः अन्तिमप्रतिद्वन्द्वे लक्ष्यकन्दुकद्वयं सम्प्राप्तवान्। स एव क्रीडापरम्परायाः प्राप्ताङ्काग्रिमः [Top scorer]। आहत्य १३ लक्ष्यकन्दुकानि तेन प्राप्तानि।