केन्द्रप्रशासनम् आततावस्थायां - वित्तमन्त्रिणी।
मुम्बई> भारतस्य आर्थिकावस्था प्रबला वर्तते अपि पश्चिमेष्यीयसन्दिग्धता विदेशधनमुद्राणाम् आर्जनीयसञ्चयविषये शक्ता आततायावस्थां कारयतीति वित्तमन्त्रिण्या निर्मला सीतारामन् वर्यया प्रोक्तम्।
भौगोलिकोत्पन्नविपण्याः अनिश्चितत्वमालक्ष्य विदेशमुद्रापत्राणि यावच्छक्यं समार्जयितुं मिलित्वा प्रयत्नः अपेक्षितः इति मुम्बय्यां लघुतरोद्योगविकसनबाङ्कस्य [SIDBI] वार्षिकोत्सवे भाषमाणा आसीत् निर्मला वर्या। अन्ताराष्ट्रविपण्याम् इन्धन-उर्वरक-सुवर्णेषु अप्रतीक्षितं मूल्यवर्धनमेव जायते। रूप्यकेषु एतेषां व्यापारः न साध्यः। विदेशमुद्राः एवापेक्षिताः। अतः आयायव्ययः वर्धते। रूप्यकस्य मूल्यशोषणस्य हेत्वन्तरम् एतदेव। सा अवदत्।