OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, November 29, 2021

 कोविडस्य नूतनप्रभेदः - राष्ट्रे अतिजाग्रता ; अन्ताराष्ट्रयात्रिकाणां नियन्त्रणम्। 

नवदिल्ली> दक्षिणाफ्रिक्कायां प्रत्यभिज्ञातः 'ओमिक्रोण्' नामकः कोविड्प्रभेदः डेल्टा  इत्यस्मात् तीव्रः दुर्घटनाकारकः इति विश्वस्वास्थ्यसंघटनेन पूर्वसूचना दत्ता। भारते एतदनुसृत्य अतिजाग्रता प्रख्यापिता। अन्ताराष्ट्रयात्रिकाणां नियन्त्रणम् विहितम्। 

  प्रधानमन्त्रिणा नरेन्द्रमोदिना समायोजिते अधिकारिप्रमुखाणां समुपवेशने राष्ट्रान्तरविमानानि कोविडनुशासनानि अनुसृत्य परिशोधनां कर्तुं निर्देशः कृतः। विमानयात्रिकाणां कृते यात्रानुशासनानि परिष्कृतानि। डिसम्बर् प्रथमदिनाङ्कादारभ्य नूतनानुशासनानि प्राबल्ये भविष्यन्ति।  

   सर्वेभ्यः राज्येभ्यः एतदुपलक्ष्य आदेशान् प्रदातुं निर्णयः कृतः।