OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, November 5, 2021

 "वाचाटोपं प्रशमयन्तु , प्रयत्नं कुर्वन्तु" - विश्वनेतॄः प्रति चतुर्दशवयस्कायाः आवेदनम्। 

ग्लास्गो > सारशून्यानि वाग्दानानि वाग्धोरणिं च समाप्य कार्यारम्भं कुर्वन्तु इति विश्वनेतृजनान् समुद्बोधयन्ती भारतीयछात्रा काचन चकुर्दशवयस्का। परिस्थिति ओस्कार्  इत्याख्यातस्य 'एर्त् षोट्' पुरस्कारस्य अन्तिमपट्टिकायामन्तर्भूता तमिल्नाट् निवासिनी विनिषा उमाशङ्करः भवति ग्लास्को शिखरमेलने कृतेन  उज्वलप्रभाषणेन सर्वेषामभिमानभाजनं सम्पन्नम्। 

  प्रधानमन्त्री नरेन्द्रमोदी, ब्रिट्टनस्य प्रधानमन्त्री बोरिस् येत्सनः, यू एस् राष्ट्रपतिः जो बैडनः इत्यादीनां प्रमुखानां सान्निध्ये आसीत् विनिषायाः प्रभाषणम्। भूमिं संरक्षितुं  प्रयत्न एव कार्यः न प्रभाषणमिति सा स्पष्टीकृतवती।