OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, November 16, 2021

 शबरिगिरितीर्थाटनाय अद्य शुभारम्भः - अतिवृष्टिहेतुना तीर्थाटकानां नियन्त्रणम्। 

पत्तनंतिट्टा> 'तत्त्वमसी'ति उपनिषद्वाक्यस्य आशयं स्वांशीकृत्य दक्षिणभारतस्य शबरिगिरितीर्थाटनमद्य आरभते। शबरिगिरि श्रीधर्मशास्तृमन्दिरं आचारक्रममनुसृत्य ह्यः उद्घाटितम्। भक्तानाम् अद्य आरभ्य दर्शनं साध्यं भवति। कोविडनुशासनानि परिपाल्य ये  'वेर्च्वल् क्यू' द्वारा  दर्शनाय अनुज्ञापत्रं प्राप्तवन्तः तेभ्यः एव प्रवेशानुमतिः विहिता। 

  केरले गतदिनत्रयेण अनुवर्तमानया अतिवृष्ट्या भक्तानां संख्या नियन्त्रिता भवेत्। पम्पानद्यां जलोपप्लवः जातः इत्यतः  पम्पास्नानं निरुद्धं वर्तते। 

  अय्यप्पभक्तानां सुखतीर्थाटनाय अपेक्षिताः पदक्षेपाः सर्वे पूर्तीकृताः इति सर्वकार-देवस्वं बोर्ड् अधिकारिभिः निगदितम्।