OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, November 10, 2021

 चिलिदेशे वस्त्राचलः। परिस्थितिमलिनीकरणस्य अपरं रूपम्।

चिलिदेशे अट्टक्काम मरुप्रदेशे परित्यक्तानि वस्त्राणि शैलाकारं प्राप्नोति। उपयोगरहितानि तथा विक्रयणरहितानि वस्त्राणि एव परित्यक्तानि। उपयोगरहितानां विक्रयणरहितानां वस्त्राणाम् आकारेण सम्पन्नः भवति चिलिदेशः। एतेषां वस्त्राणाम् अत्र उपभोक्तारः सन्ति। चीनेषु तथा बंग्लादेशेषु च निर्माय यूरोप्पेषु अमेरिक्केषु च भ्रमणं कृत्वा अन्ते चिलिदेशे आयाति। लाट्टिनमेरिक्कादेशेषु पुनः विक्रीयते। किन्तु विक्रयणरहितानि शिष्टानि ३९,००० टण् वस्त्राणि मरुप्रदेशे निक्षिपन्ते। एतानि वस्त्राणि भूमौ न लीयन्ते। वस्त्रेषु अन्तर्गतानि रासवस्तूनि अपि पारिस्थितिकां समस्यां जनयन्ति ।