OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, November 11, 2021

 मुल्लप्पेरियार् - वृक्षखण्डनादेशः निरस्तः; उन्नताधिकारिणे वृत्तिनिरोधः।

अनन्तपुरी> केरले मुल्लप्पेरियार् सेतोः 'बेबी डाम्' नामकबालसेतुं शक्तीकर्तुमुद्दिश्य तस्य समीपे वर्तमानान् १५ वृक्षान् खण्डयितुं तमिल्नाट् सर्वकाराय अनुज्ञां दीयमानः केरलवनंविभागस्य आदेशः केरलमन्त्रिमण्डलेन निरस्तः। 

   घोषणापत्रप्रख्यापकः वनविभागस्य मुख्यवनपालकः बेन्निच्चन् तोमस् इत्याख्यः सर्वकारेण वृत्तिनिरोधाय कल्पितः। केरलस्य राजनैतिकमण्डले साप्ताहिकं यावत् निरन्तरवादप्रतिवादाय कारणभूतस्यास्य प्रकरणस्य अन्तिममयं क्रियाविधिः अधिकारिणं बलिदानं कृत्वा सर्वकारस्य रक्षाप्रप्तिरिति आक्षेपः जातः अस्ति। 

  वृक्षखण्डनाय केन्द्रपरिस्थितिविभागस्य अनुज्ञा तथा अस्मिन् विषये केरलमन्त्रिमण्डलस्य च अनुज्ञा नाभवदिति कारणेनैव मुख्यवनपालकस्य घोषणापत्रं निरस्तम्।