OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, November 4, 2021

 चीनः अण्वस्त्रसन्धानाय भूगर्भकेन्द्राणि सज्जीकरोति इति प्रतिवेदनम्।

वाषिङ्टण्> अण्वस्त्राणि अनुसन्धातुं क्षमतायुक्ते सैलोस् अग्निबाणसुविधासज्जीकरणे चीनः अतिशीघ्रप्रगतिं प्राप्नोति इति प्रतिवेदनम्। एफ्  ए एस् (Federation of American scientists) एव प्रतिवेदनम् प्रकाशितम्। बालिस्टिक् अग्निबाणानां सञ्चयनाय अनुसन्धानाय च भूमेः अन्तर्भागे लम्बायमानः नलिकारूपेण निर्मितः अनिबाणप्रेषणाय निर्मिता सुविधा भवति सैलोस्। षिन्जियाङ् मण्डलस्य पूर्वभागस्थे हामिदेशात् सैलोकेन्द्राणां निर्माणस्य उपग्रहचित्राणि बहिरागतानि।  युमेन्, ओर्डोस् इत्यत्रापि सैलो केन्द्राणि निर्माति इति प्रतिवेदनमस्ति। युमने१२० सैलोकेन्द्राणि निर्मान्ति इत्येव ज्ञातुं शक्यते।