OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, November 14, 2021

 महाराष्ट्रे २६ मावोवादिनः प्रतिद्वन्द्वे निहताः। 


मुम्बई> महाराष्ट्रस्य गड्चिरोलि जनपदस्थे वनमण्डले आरक्षकसेनया सह प्रवृत्ते भुशुण्डिप्रयोगे २६ मावोवादिनः निहताः। नागपुरात् २०० कि मी दूरे छत्तीसगढ सीम्नि वर्तमाने वनान्तर्भागे शनिवासरे प्रभाते आसीत् भुशुण्डिप्रयोगः प्रवृत्तः। सायं चतुर्वादनपर्यन्तं प्रतिद्वन्द्वः अभवत्। २६ मृतशरीराणि अधिगतानीति महाराष्ट्रस्य आरक्षकाधिकारिणा उक्तम्। 

  मावोवादिसंघं प्रतिरोद्धुं सविशेषपरिशीलनं लब्धवन्तः ४०० आरक्षकभटाः सेनायाः जनपदीयसहाधीशस्य सौम्य मुण्टे इत्यस्य नेतृत्वे प्रतिद्वन्द्वे भागं कृतवन्तः। दशाधिकाः मावोवादिनः चत्वार‌ः आरक्षकाश्च व्रणिताः।