OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, November 19, 2021

 अरुणाचले पुनरपि चीनेन भवनानि निर्मितानि।


नवदिल्ली> अरुणाचले पुनरपि चीनेन भवनानि निर्मितानि। ५० संख्याकानि भवनानि निर्मितानि इति नूतनोपग्रहचित्राणि संसूचयन्ति। २०१९ तमे संवत्सरे एतादृशानि भवनानि न आसन्। किन्तु नूतनतया प्रकाशितेषु उपग्रहचित्रेषु  चीनेन  निर्मितानां भवनानां चित्राणि द्रष्टुं शक्यन्ते।  चीनेन निर्मितानि इमानि भवनानि अधिकृत्य जनुवरि मासे एन् डि टि वि प्रतिवेदितमासीत्। पश्चात् पेन्टगणेन घटना एषा दृढीकृता च। तदनन्तरमेव पुनरपि चीनेन ६० अधिकानि भवनानि अपि अरुणाचले एवं निर्मितानि इति प्रतिवेदनमपि बहिरागतम् ।

अपरराष्ट्रस्य भूमेः स्वायत्तीकरणं भारतस्य स्वभावः न। येन केनापि राष्ट्रेण वा भवतु भारतं नाशयितुं विरुद्धतया सीमातिक्रमो वा गूढतन्त्रेण अन्येन वा प्रवर्त्येत तेषां उचितां प्रतिक्रियां लभ्येत, नैवात्र संशयः।  भारतभूमिं संरक्षितुं अस्माकं धीराः सैनिकाःशक्ताः सज्जाः च इति प्रतिरोधमन्त्रिणा राजनाथसिंहेन निगदितम्।