OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, November 7, 2021

 महाराष्ट्रस्थे आतुरालये अग्निबाधा- ११ कोविड्रोगिण‌ः मृताः। 

मुम्बई> महाराष्ट्रे अहम्मदनगरस्थे सर्वकारातुरालये दुरापन्नया अग्निबाधया ११ कोविड्रोगिणः मृताः।  तीव्रपरिचर्याविभागे प्रभाते ११ वादने  अग्निबाधा जाता।  

  कोविड्बाधया १७ आतुराः तीव्रपरिचर्यायामासन्। शिष्टानामवस्था तृप्तिकरीति अहम्मदनगरजनपदाधिकारिणा राजेन्द्र भोसले इत्यनेन निगदितम्। 'ऐ सि यू' विभागस्थेषु इलक्ट्रोणिक् उपकरणेषु अन्यतमे जाते 'षोर्ट् सर्क्यूट्' कारणेनैव इयं दुर्घटनेति प्राथमिकं निगमनम्। उन्नतस्तरान्वेषणाय आदिष्टमिति मुख्यमन्त्री उद्धवताक्करे निगदितवान्। प्रधानमन्त्रिप्रभृतयः प्रमुखाः दुरन्ते अनुशोचनानि प्रकटितवन्तः।