OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, November 20, 2021

 ओस्ट्रेलियेषु कुलीराणां कृते पिधानम्।

मेल्बण्> पञ्चकोटि अरुणभीमकुलीराः प्रतिसंवत्सरं नवंबर् मासे वर्षानन्तरं यूथीभूय वनात् बहिरागच्छन्ति। यानमार्गाणि तरणं कृत्वा प्रजननाय समुद्रं प्रति यात्राम् अनुवर्तन्ते। एतेषां कुलिराणां सुरक्षितयात्रां दृढीकर्तुं पश्चिमओस्ट्रेलियस्य क्रिस्मस् द्विपः कुलीराणां सुरक्षितयात्रायै कृते पिधानं प्रख्यापितम्। एते अरुणवर्णविशेषकुलीराः भारतमहासमुद्रस्थे अस्मिन् लघुद्वीपे एव द्रष्टुं शक्यते। प्रजननार्थं पुरुषकुलीराः एव प्रथमं समुद्रतीरं प्राप्स्यन्ति। ततः पश्चात् स्त्रीकुलीराः अपि समुद्रतीरं प्राप्नुवन्ति। जीविनां मध्ये अतिबृहत्तमं देशान्तरगमनं भवति एतत् इति विशेषज्ञाः वदन्ति।