OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, November 18, 2021

 अधिजालकक्रीडाद्वारा द्वयोः बालकयोः प्राणाः विनष्टाः। 

कोच्ची> कौमारवयस्कानाम् अधिजालकदास्यं द्वयोः प्राणानपाहरत्। केरले इरिङ्ङालक्कुटा प्रदेशे आकाशनामकः कश्चन १४ वयस्कः ओण्लैन् क्रीडया नष्टद्रव्यः इति पितृभ्यां ज्ञातमिति प्रत्यभिज्ञाने समीपस्थां वापीमुत्प्लुत्य प्राणानत्यजत्। इरिङ्ङालक्कुटा नाषणल् विद्यालये नवमकक्ष्याछात्रः आसीत्। 

    तिरुवनन्तपुरं जनपदस्थे चिरयिन्कीष़् निवासी साबित् मुहम्मदनामकः अन्यः १४ वयस्कोSपि एतादृशकारणेन नष्टप्राणः अभवत्। कून्तल्लूर् प्रेम्नसीर् स्मारकसर्वकारीयविद्यालये नवमीकक्ष्याछात्रः नवम्बर् ८तमदिनाङ्के उद्बन्धनेन मृतः आसीत्। तस्य अधिजालकपठनार्थं दत्तायां चलद्दूरवाण्यां निगूढसंख्यामुपयुज्य संरक्षितानि बहूनि क्रीडानिवेशनानि [Game Apps] दृष्टानि। अतः तस्य मरणमपि ओण् लैन् क्रीडायाः कारणेनेति सूच्यते।