OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, November 3, 2021

 अवश्यवस्तुसञ्चयनाय जनेभ्यः निरदिशत्। चीनः तीव्रनियन्त्रणेषु इति सूचना।

बेय्जिङ्> अवश्यवस्तुसञ्चयनाय चीनस्य सर्वकारेण जनेभ्यः निर्देशः दत्तः। अवश्यवस्तूनां वितरणं दृढीकर्तुमपि अधिकारिभ्यः अपि निर्देशो दत्तः। राष्ट्रे पुनः कोविडस्य व्यापनं विवर्धमाने अवसरे एव अवश्यवस्तुसञ्चयनाय निर्देशः दत्तः। सर्वकारस्य वाणिज्यविभागस्य जालपुटे एतत्संबन्धि विज्ञापनं प्रकाशितमस्ति। नित्यजीवने आपत्कालीनोपयोगाय च अवश्यवस्तूनां सञ्चयनाय भवति निर्देशः। चीनेषु पुनः कोविडस्य अतिव्यापन-सन्दर्भे अस्मिन् सर्वकारः तीव्रनियन्त्रणेषु गच्छन्ति इति एतत् विषयसंबन्धीनि वृत्तानि वदन्ति।