OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, November 10, 2021

 भारतीयवाक्सिनप्रमाणपत्रं ९६ राष्ट्रैः अङ्गीकृतम् इति स्वास्थ्यमन्त्रालयः।  

नवदिल्ली> कोविडस्य कारणेन यात्रानियन्त्रणान् अतिक्रमितुं ९६ राष्ट्रैः साकं परस्परावगमनं संप्राप्तम् इति केन्द्रस्वास्थ्यमन्त्रिणा मन्सुख् माण्डव्येन प्रोक्तम्। एतत् अन्यराष्ट्रेषु भारतीयानां यात्राः सुगमं कर्तुं प्रभवति  इति मन्त्रिणा निगदितम्। कोवि षील्ड् वाक्सिनः अपि विश्वस्वास्थ्यसंघटनेन अङ्गीकृताः अन्यवाक्सिनः च स्वीकृतानां प्रमाणपत्राणि च भारतेन अङ्गीकृताः इत्यपि केन्द्रस्वास्थ्यमन्त्रालयेन आवेदितम्। एतस्मात् राष्ट्रात् भारतम् आगतेगभ्यः जनेभ्यः कोविड्  मानकनियमेषु समाश्वासः वर्तते। कोविड् पोर्टल् द्वारा स्वीकृतस्य कोविड् प्रमाणपत्रमुपयुज्य एतेषु राष्ट्रेषु यात्रां कर्तुं शक्यते।