OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, November 8, 2021

 ग्रीन्लान्ड् मध्ये न्यूयोर्क् नगरं प्लावयितुं सक्षमा हिमसंहतिः (Glacier) द्रवीभूता।

न्यूयोर्क्> अन्टार्ट्टिक्कां विहाय विश्वस्मिन् आकारे द्वितीयं स्थानम् आवहतां ग्रीन्लान्ड् मध्ये स्थितां हिमसंहत्यां गतदशाब्दाभ्यन्तरे हिमद्रवणं पूर्वाधिकं शक्तमभवत् इति पठनानि सूचयन्ति। अतिद्रवणहेतुना विश्वमिन् सर्वत्र समुद्रजलसमता (sea level) एकसेन्टीमीट्टर् मितम् अवर्धत। एवम् अनुवर्तते चेत् अस्मिन् शतकस्य अन्ते समुद्रजलसमता एकपादमितं विवर्धितुम् अवकाशः अस्ति इति अध्ययनानि सूचयन्ति। नाच्वरल् कम्युणिक्केषन्स् जेणल् मध्ये प्रकाशिते प्रतिवेदने एव घटनेयं संसूचिता ।