OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, November 14, 2021

 क्षररहिता संस्कृतभाषा, सा मातृवत् छात्राणाम् उन्नमनाय भवतीति राज्ञी अश्वति तिरुनाल् गौरी लक्ष्मी भाई तम्पुराट्टी


कालटी> केरलसंस्कृताध्यापकफेडरेषन् संघटनस्य दायित्वे राज्यस्तरीयवनितासङ्गमं मातृकम् 2021 इति नाम्ना अतिविपुलया रीत्या प्राचलत्। सर्वासां भाषाणां जननी क्षररहिता संस्कृतभाषा, सा मातृवत् छात्राणाम् उन्नमनाय भवतीति, तया भाषया मातृशक्तिरपि प्रचोदिता इति अस्य कार्यक्रमस्य उद्घाटिका श्रीमती अश्वति तिरुनाल् गौरी लक्ष्मी भाई तम्पुराट्टी अवदत्। केरलस्य तिरुवनन्तपुरं राजवंशस्य राज्ञी भवति एषा| अधुनातनकाले सङ्घटना नेतृत्वक्षेत्रेषु कार्यं कृतवतः सर्वान् प्रचोदयित्वा, स्वीयानुभवेन शैक्षणिकक्षेत्रं समूलम् आवाहयित्वा, तत्र विशिष्य संस्कृतशिक्षकाणां योगदानं कथं भवेदिति स्वीयवाग्चातुर्येण प्रकाशितवती गुरुवायूर् श्रीकृष्णा- कलालयस्य संस्कृतविभागस्य सहाचार्या डा.लक्ष्मी शङ्कर् महाभागा। केरलसंस्कृताध्यापक-फेडरेषन् संस्थायाः पूर्वतनसारथिरासीत् स्वर्गीयः श्रीमान् पी.जि अजित्प्रसाद् महाशयः। तस्य चरणपङ्कजेषु श्रद्धाञ्जलिं समर्प्य तस्यानुस्मरणं कृतवान्, केरलसंस्कृताध्यापकफेडरेषन् संस्थायाः राज्यस्तरीयकार्यदर्शी श्री. सी. पि. सनल्चन्द्रन् महाशयः। के.एस्.टि.एफ् संस्थायाः राज्यस्तरीयाध्यक्षः श्री टि के सन्तोष् कुमार् महाशयः, के.डी.एस्.टि.एफ् संघटनस्य राज्यस्तरीयाध्यक्षः श्री पि पद्मनाभन् महाशयः, के.एस्.टि.एफ् संघटनस्य भूतपूर्व उपाध्यक्षा श्रीमती रतिमहाभागा च आशंसाभाषणं कृतवन्तः। मातृकस्य मुख्यकार्यदर्शिनः श्रीमती षैलजा, श्रीमती विजयलक्ष्मी, श्रीमती कृष्णप्रिया, श्रीमती रेवती, श्रीमती सुगिषा, श्रीमती  स्मृति च स्वाभिमतान् प्रकटितवत्यः। अन्तर्जालद्वारा आसीत् राज्यस्थरीयम् इदं मेलनम्।