OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, November 12, 2021

 एम् वि नटेशः रेल् विकास निगमस्य निदेशकरूपेण नियुक्तः। 


 कालटी> श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य व्याकरणविभागे प्राचार्यः डो एम् वि नटेशः केन्द्रसर्वकारस्य रेल् विकास् निगम लिमिटड् संस्थायाः निदेशकरूपेण नियुक्तः। प्रशस्तः प्रभाषकोऽयम् अमृतभारत्याः राज्याध्यक्षः संस्कृतभारत्याः उपाध्यक्षश्चास्ति। कालटी विश्वविद्यालयस्य अन्तर्देशीयाध्ययनकेन्द्रस्य सहनिदेशकश्चासीत्।

  तृश्शिवपेरूरस्थे कोलष़िनिवासी अयम् उपविंशतिसंख्याकान् ग्रन्थान् शताधिकान् गवेषणप्रबन्धान् च विरचितवान्।