OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, November 2, 2021

 पर्यावरणमण्डलसहकारिता - मोदी बोरिस् जोण्सणयोः चर्चा सम्पन्ना।

ग्लासगो> पर्यावरणव्यत्ययं नियन्त्रयितुमुद्दिश्य उभयपक्षसहयोगितां दृढीकर्तुं भारतस्य प्रधानमन्त्री नरेन्द्रमोदी ब्रिट्टनस्य प्रधानमन्त्री बोरिस् जोण्सणश्च गतदिने चर्चां कृतवन्तौ। स्कोट्लान्टस्थे ग्लासगोनगरे  सम्पद्यमाने आगोलपर्यावरणशिखरसम्मेनस्य मध्ये आसीत् एतयोः मेलनं संवृत्तम्। उभयोरपि नेत्रोः प्रथमं मुखामुखं मेलनं आसीत् इदम्। 

  'फोसिल्' इन्धनादतिरिक्तम् उद्पाद्यमानानि हरितहैड्रजनं पुनरुपयोज्यमानमूर्जम्, कार्बणरहिता ऊर्जसाङ्केतिकविद्या, आर्थिक- देशसुरक्षामण्डलेषु सहकारित्वमित्यादिविषयाः चर्चायामभवन्।