OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, June 26, 2022

 वाराणसी विमानपत्तने विज्ञापनं देवभाषायामपि।

काशी> काशीविश्वनाथं सन्दर्शयितुं वाराणस्यां प्राप्तान् स्वीकर्तुं देवभाषया विज्ञापनं समारब्धम्। देवभाषया विज्ञापनं समारब्धं प्रथमं विमानपत्तनं भवति लाल् बहादूर् शास्त्रि अन्ताराष्ट्रियविमानपत्तनम्। आङ्गलभाषायां राष्ट्रभाषायां तथा देवभाषायामपि विज्ञापनम् आरब्धुं विमानपत्तनाधिकारिभिः निश्चितमस्ति। बनारस् हिन्दु विश्वविद्यापीठस्य सहकारेणैव विमानपत्तनाधिकारिणः विज्ञापनाय पद्धतिः आविष्कृता। संस्कृतभाषां मुख्यधारासु पुनरानेतुं एव अयं शुभारम्भः। कोविड् नियन्त्रणानि आहत्य हिन्दी भाषायाम् आङ्गलभाषायां तथा संस्कृते च विज्ञापयन्ति इति अधिकारिभिः ट्विट्टर् द्वारा आवेदितम्। विमानपत्तनसमुच्चये प्रविष्टानां यात्रिकाणां कृते संस्कृतभाषायाः श्रवणानुभवप्रदानं, संस्कृतभाषादरणं, जनानां मध्ये व्यावहारिकभाषारूपेण प्रचारणं च लक्ष्यीकृत्यैव परियोजनेयं समारब्धा इति विमानपत्तननिर्देशकेन आर्यमा सन्यालेन निगदितम्।